________________
( ३०२ )
सादर्श:- [ द्वितीयाकारकद्वितीयखण्डे -
"
नन्वेवं सतिः रङ्गरजतादिपदयोः सामानाधिकरण्यानुपपत्तिरिति चेत् ? का क्षतिः । न चैवं रजतगतैकत्वबहुत्वाऽविवक्षायाम् ' रङ्गाणि रजतं जानाति इतिप्रयोगस्य 'स्त्रियं पांसुला जानाति ' इति प्रयोगस्य च प्रसङ्गःसामानाधिकरण्यस्यैव समानवचनलिङ्गकत्वनियतत्वादिति वाच्यम्, समानाधिकरणयोरिव यत्पदार्थविशेष्यकत्व विशिष्टेऽभेद संबन्धावच्छिन्नयत्पदार्थप्रकारकत्वस्यान्वयस्तयोरपि समानलिङ्गवचनत्वनियमात् ।
'रङ्गं रजतं जानाति ' इत्यत्र समानविभक्तिकपदोपस्थाप्यत्वेन रङ्गरजतयोरभेदान्वयानुकूलाकाइङ्क्षावत्त्वेपि परस्परं भिन्नव्यक्तिकत्वेनाभेदान्वयस्याऽयोगतया = बाधात् तादृशान्वयः =अभेदान्वयो न भवतीत्यर्थः । ' नौलो घटः ' इत्यत्र तु नीलपदघटपदयोरेकार्थबोधकत्वान्नीलपदार्थघटपदार्थयोर्भेदाभावादभेदान्ययो भवति, न चैवमत्रास्तीत्यऽभेदारोपो भवति न त्वभेदान्वय इतिभावः ।
ननु यदि रङ्गपदरजतपदयोर्विभिन्नपदार्थबोधकत्वेनैकपदार्थबोधकत्वं नास्ति तदा सामानाधिकरण्यं न भविष्यति भिन्नप्रवृत्तिनिमित्तयोः पदयोरेकार्थबोधकत्वस्यैव सामानाधिकरण्यनियामकत्वादित्याशङ्कते - नन्वेवमिति । ' रङ्गं रजतं जानाति ' इत्यत्र सामानाधिकरण्याभावं स्वीक रोति-का क्षतिरिति । ननु यदि ' रङ्गं रजतं जानाति ' इत्यादौ रङ्गपद्ररजतपदयोः सामानाधिकरण्यमिष्टं नास्ति तदा सामानाधिकरण्यस्यैव समानवचन लिङ्गकत्वनियतत्वात् = सामानाधिकरण्ये सत्येष समानवचन लिङ्गकत्वनियमात् रजतमतैकत्वाऽविवक्षायाम् रङ्गाणि रजतं जानाति, इत्यसमानवचनकः पांसुलागतबहुत्वाविवक्षायाम् ' स्त्रियं पांसुलाः जानाति इत्यऽसमानवचनकश्व प्रयोगः स्यादेव - अत्र समानधचनलिङ्गकत्व नियामकस्य सामानाधिकरण्यस्याऽनभिप्रेतत्वादिव्याशङ्क्याह-- न चैवमिति । किं वा रजतगतस्य स्त्रीगतस्य चैकत्वस्य रङ्गगतस्य पांसुलागतस्य च बहुत्वस्याविवक्षायामित्येवमन्ययः । रजतगतैकत्वविवक्षायां तु 'रङ्गाणि रजतम् ' इति प्रयोग इष्ट एव तथा पांसुलागतबहुत्वविवक्षायाम् ' स्त्रियं पांसुलाः ' इति प्रयोग इष्ट एवेत्युक्तम्रजतादिगतैकत्वबहुत्वाविवक्षायामिति । परिहारमाह- समानाधिकरणयोरिति, यथा समानाधिकरणयोः 'नीलो घटः इत्यत्र नीलपदघटपदयोः समानलिङ्गवचनकत्वनियमोस्ति तथा यत्प-दार्थविशेष्यकत्वविशिष्टभेद संबन्धावच्छिन्नयत्पदार्थप्रकारकत्वस्यान्वयो भवति तयोरपि तादृश- विशेष्यवाचकतादृशमकारयाचकपदयोरपि समानलिङ्गवचनत्वनियमोस्ति तथा च रगं . रजतं जानाति ' इत्यत्रोक्तरीत्या रङ्गविशेष्यकत्वविशिष्टे एव ज्ञाने तादात्म्यसंबन्धेन रजतप्रका- रकत्वस्यान्ययो भवतीति सामानाधिकरण्याभावेपि रङ्गरदरजतपदयोः समानलिङ्गवचनत्व नियम : : प्राप्त इति न ' राणि रजतं जानाति । इत्यादिप्रयोगापत्तिरित्यर्थः । नियतत्वात् " इत्यत्र नियामकत्वात् ' इत्येवं पाठो युक्तः ।
<
"L
.C
"Aho Shrutgyanam"