________________
उक्त यज्ञपतिमतम्] व्युत्पत्तिवादः।
(३०३) __ यज्ञपतिमतानुयायिनस्तु ' रङ्ग रजतं जानाति ' इत्यादी सामानाधिकरण्या. नुरोधाइ रजतादिपदस्य रजताभेदज्ञानविषये लक्षणा, अत एव भ्रान्तिज्ञविशेषदशिना प्रयुक्तस्य 'लोहितवहिं जानाति ' इत्यादिवाक्यस्यापि प्रामाण्यनिर्वाहः । न ह्यऽसमासस्थले इव लोहितवढ्याद्योरभेदाऽविवक्षा- ज्ञानाशे लोहितादे: स्वात.
येणान्वयो वा संभवति- कर्मधारयस्य साधुतानुपपत्ते. लोहितपदोत्तरं प्रका. रताबोधकविभक्तेरभावात्, धात्वर्थे साक्षान्नामार्थस्य भेदाऽन्वयेऽव्युत्पत्तेः । द्वन्द्वस्थलवत् कर्मधारयोत्तरविभक्तेः पूर्वपद प्रकृतिकवाभावात् तस्याः पूर्वपदार्था
‘रङ्गं रजतं जानाति ' इत्यत्र सामानाधिकरण्योपपादकस्य यज्ञपतेर्मतमाह- यज्ञपतीति, अत्र रजतपदस्य रजताभेदज्ञानविषये लक्षणास्ति तथा च रङ्गस्य रजताभेदज्ञानविषयत्वेन रङ्गपदार्थरजतामेदज्ञानविषयपदार्थयोरभेदात् सामानाधिकरण्ये न काचिदनुपपत्तिः, रङ्गविशेष्यकरजताभेदज्ञानविषयत्वप्रकारकज्ञानवानिति बोधाकार इत्यर्थः । एवं लक्षणया सामानाधिकरण्योपपादनस्य फलान्तरमाह- अत एवेति, ' लोहितवहिं जानाति । इत्यत्र वह्नः शुक्लत्वेन लोहितस्वाभावेपि लोहिताभेदज्ञानविषयत्वेन प्रामाण्यं निर्वहति । लोहितपदस्य लोहिताभेदज्ञानविषये लक्षणाया अस्वीकारे बाधकमाह- न हीति, 'रङ्ग रजतं जानाति ' इत्यत्र यथा रङ्गरजतयोरभेदविवक्षा नास्ति किं तु रजतप्रकारकत्वस्य ज्ञाने एवान्वयः स्वीकृतस्तथाऽसमासस्थले• लोहितं वह्नि जानाति ' इत्यत्रं त्वन्वयसंभवेप्यत्रेव ' लोहितवह्नि जानाति । इत्यत्र तु समासे लोहितवढ्योरभेदाऽविवक्षापि न संभवति- अमेदाविवक्षायाम् ' लोहितवह्निम् । इति कर्मधारयस्य साधुत्वं न स्यात्- अभेदविवक्षायामेव कर्मधारयस्थ साधुत्वात् यथा- ' नीलोत्पलम् । इति, लोहितपदार्थस्य स्वातन्त्र्येण ज्ञानेप्यन्वयो न संभवति लोहितपदोत्तरं प्रकारताबोधकद्वितीयाविभक्तेरमावादिति लोहितपदार्थस्य धात्वर्थज्ञाने साक्षाद्देदान्वय एव कर्तव्यः- अभेदान्वयासंभवात् तदपि न संभवति- धात्वर्थे नामार्थस्य साक्षाद् भेदान्वयस्याऽस्वीकारात्, द्वारी. भूतार्थप्रतिपादकविभक्तेरभावाच्चैत्यगत्या प्रामाण्यप्रतिपादनाय ' लोहितवह्निम् । इत्यत्र लोहित पदस्य लोहितामेदज्ञानविषये लक्षणा स्वीकार्या तथा च सामानाधिकरण्यसत्त्वात् कर्मधारय उपपद्यते, एवमेवासमासस्थलेपि 'रङ्गं रजतं जानाति ' इत्यादौ रजतादिपदस्य रजताद्यऽभेदज्ञानविषये लक्षणा स्वीकार्या तथा च रङ्गस्य रजताभेदज्ञानविषयेणाऽभेदात् सामानाधिकरण्यमप्युपपनमित्यर्थः । ननु यथा 'धवखदिरौ छिन्नत्ति ' इत्यत्र धवपदोत्तरं विभक्तेरभावेपि धवखदिरोभयपदोत्तरविभक्तिरेव धवपदार्थान्वितप्रकारतां बोधयति तादृशप्रकारतायाश्च धात्वर्थे। ऽन्त्रयो भवति तथा 'लोहितवह्निम् '. इतिकर्मधारयोत्तरविभक्तिरपि लोहितपदार्थान्वितप्रकारतां बोधयिष्यति तस्याश्च ज्ञानेऽन्ययो भविष्यतीत्याशङ्कयाह- द्वन्द्वस्थलवदिति, द्वन्द्वस्थले तूमयपदोत्तरं विभक्तेः प्राप्तस्वादुभयपदार्थान्वितप्रकारताबोधकरवं संभवति कर्मधारयस्थले तभयपदोत्तरं विभक्तेः प्राप्तिरेव नास्तीति कर्मधारयोत्तरविभक्तेः पूर्वपदप्रकृतिकस्वामावात् तस्याः कर्मधारयो
"Aho Shrutgyanam"