________________
( ३०४ )
सादर्श:
[ द्वितीयाकारकद्वितीयखण्डे - न्वितमकारताबोधकत्वायोगात् । न च द्वन्द्वसमास एवासौ - अल्पाची वह्निपदस्य पूर्वनिपातप्रसङ्गात् । समाहारपक्षे पुंलिङ्गताया इतरेतरपक्षे चैकवचनस्यानुपपत्तेः ।
एतन्मते 'शुक्लो वहि:' इत्यादिप्रमाया लोहिताभेदारोपविषयवह्निविषयकत्वेपि शुक्लो वहिर्लोहिता जपा' इतिसमूहालम्बनप्रमाया लोहिताभेदावगाहि स्वविषयवाहविषयकत्वेपि च तद्दशायाम् 'लोहितवहिं लोहितं वह्निवा जानाति इति न प्रयोग:- तादृशपदोपस्थाप्यविषयताया धर्मपारतन्त्र्येण द्वितीयार्थविषयतायामभेद संबन्धेन विशेषणताया नियमोपगमात् ।
अथ वा लोहिताभेदविषयतानिरूपितविषयतापन्नस्य वहयादेर्ज्ञानान्वायवित्तरविभक्तेर्दोहितादिरूपपूर्वपदार्थान्वितप्रकारताबोधकत्वं न संभवति । ननु ' लोहितवह्निम् इत्यपि द्वन्द्वसमासो भवतु ? इत्याशङ्क्याह- न चेति । तस्माल्लोहितपदस्यागत्या लोहिताभेदज्ञानविषये लक्षणा स्वीकार्यैवेत्यर्थः । समाहारो नपुंसको भवतीति पुंलिङ्गत्वानुपपत्ते: " लोहितवहिम्' इति पुंलिङ्गस्य समाहारद्वन्द्वत्वमपि न संभवति, इतरेतरद्वन्द्वसमास एकवच नान्तो न भवतीत्येकवचनत्वानुपपत्तेरितरेतरद्वन्द्रत्वमपि न संभवतीत्याह- समाहारपक्षेति ।
ननु यदि यज्ञपतिमते लोहितपदस्य लोहिताभेदज्ञानविषये लक्षणा तदा " शुक्लो वहिः इत्यादिप्रमाकालेपि ' लोहितवहिम् ' ' लोहितं वह्नि ' इत्यादिवाक्यस्य प्रयोगः स्यादित्याशक्याह-- एतन्मते इति, यद्यपि उक्ते ' लोहितवह्निम् ' इतिवाक्ये य एव लोहिताभेदारोपविविषयो वह्निर्विषयः स एव वह्निः 'शुक्लो वह्निः' इति प्रमायां विषयोस्ति बहेरेकत्वादिति 'शुक्लो वहि:' इतिप्रमाया लोहिताभेदारोपविषयवह्निविषयकत्वात् तथा ' शुक्लो वहिर्लोहिता जपा ' इति प्रमाया लोहितादावगाहित्यात् ( भत्र लोहितस्यापि विषयत्वात् वह्निविषयकत्वाचास्याः समूहालम्बनप्रमाया लोहिताभेदावगाहि यत् स्वं तद्विषयो यो वह्निस्तादृशवह्निविषयकत्वं प्राप्तं तस्माद् एतदुभयप्रमादशायां वहेर्लोहिताभेदावगाहिज्ञानविषयत्वेन लोहितवह्निम्. लोहितं हिम्' इत्यादिप्रयोगः स्यादेवेति प्राप्तं तथापि ' शुक्लो वह्निः ' काले उक्तसमूहालम्बनात्मकप्रमाकाले च ' लोहितवह्निम् लोहितं वह्निम् ' इत्यादिः प्रयोगो न भवति यज्ञपतिना तादृशपदोपस्थाप्यविषयतायाः = आरोप्यवाचकलोहितादिपदोपस्थाप्यविषयताया धर्मपारतन्त्र्येण= लोहितादिपदार्थद्वारा द्वितीयार्थविषयतायामऽभेदेन विशेषणत्वं स्वीक्रियते न चैत्रममेदेन विशेषणत्वं तदशायां संभवति वह्नेः शुक्लपदार्थेनैवाऽभेदस्योक्तोभयप्रमात्रिषयत्वाद् शुक्लत्वावरुद्धे च वह्नौ लोहितत्वान्वयासंभवात् उक्तौभयप्रमाया असत्त्वे तु 'लोहिहिम्. लोहितं वहिम् जानाति ' इति प्रयोगः संभवत्येवेत्यर्थः ।
·
इत्याकास्कप्रमात्मकज्ञान
4
पक्षान्तरमाह--अथ वेति, 'लोहितवह्निम्. लोहितं वह्निम् ' इत्यत्र वह्नौ लोहिताभेदविषयताप्यस्ति वह्निविषयक ज्ञानविषयताप्यस्ति तयोश्व विषयतयोः परस्परं निरूप्यनिरूपकभावो
" Aho Shrutgyanam"