________________
उक्ते यज्ञपतिमतं तन्निरासश्च ]
व्युत्पत्तिवादः ।
( ३०५ )
पयितानिरूपकत्वं भासते । समूहालम्बनादौ च तादृशविषयतानापन्नस्यैव विषयितानिरूपकत्वमिति नातिप्रसङ्गः । विषयतापन्नस्य निरूपकत्वमित्यस्य च विषयतावच्छिन्नं निरूपकत्वमित्यर्थः । एतच्च विलक्षणं विषयितानिरूपकतावच्छे दकत्वमविषयस्यापि विषयत्वस्योपेयते ' रक्तदण्डवान्' इत्यादौ दण्डादिरूपप्रकारांशेऽप्रकारेणापि रक्तत्वादिप्रकारतानिरूपित विशेष्यत्वेन दण्डादिमकारताया अवच्छेद्यावच्छेदकभाववदित्याहुः । तन्न शोभनम् उक्तरीत्या विनैव लक्षणामुपपत्तौ तस्या अन्याय्यत्वात् ।
6
,
'
,
विज्ञेय इति ' लोहितवह्निम् ' इत्यादौ लोहिताभेदविषयतानिरूपितविषयता ( वन्हिज्ञानीयवियता ) पन्नस्य वर्ज्ञाननिष्ठविषयिताया निरूपकत्वं भासते 'शुको वह्निः ' शुक्को वह्निर्लोहिता जपा' इत्यादौ च वह्नौ लोहितादविषयताया अभावात् तादृशविषयतानापन्नस्य = लोहिताभेदविषयतानिरूपित विपयतानापन्नस्यैव वह्नेर्ज्ञाननिष्ठविषयितानिरूपकत्वं भासते इति 'लोहितकहिम्' इत्यादौ लोहिता मेदविषयतानिरूपितविषयतापन्नस्य वर्विषयत्वात् 'शुक्लो वह्निः' इत्यादौ च लोहिताभेदविषयतानिरूपित विषयतानापन्नस्यैव वहेर्विषयत्वाद् विषयभेदेन समानार्थकत्वाभा बात् नातिप्रसङ्गः=' शुक्लो वह्निः ' इत्यादिप्रमाकाले ' लोहितवहिम्' इत्यादिप्रयोगापत्तिर्नास्तीत्यर्थः ः । वह्निनिष्ठाया लोहितादविषयतानिरूपितविषयताया वह्निनिष्टस्य ज्ञानीयविपयितानिरूपकत्वस्य च परस्परमवच्छेद्यावच्छेदकभावसूचनार्थमाह - विषयतापन्नस्येति, वह्नावुक्तविषयताप्यस्त्युक्तनिरूपकत्वमप्यस्तीत्युक्तनिरूपकत्वमुक्तविषयतावच्छिन्नं जातमिति विषयताया अवच्छेदकत्वं निरूपकत्वस्य चावच्छेद्यत्वं प्राप्तम्, अयं चावच्छेद्यावच्छेदकभावः ' लोहितवह्निम् ' इत्यादिवाक्यजन्यबोधे भासते ' शुक्लो वह्निः ' शुक्लो वह्निर्लोहिता जपा इत्यादिवाक्यजन्यबोधे च न भासते इति समानार्थकत्वाभावात् 'शुको वह्निः ' इत्यादिप्रमाकाले ' लोहितवह्निम् ' इत्यादिप्रयोगापत्तिर्नास्तीत्यर्थः । ननु विपयतायां ज्ञानविषयत्वस्वीकारेऽनवस्थाप्रसङ्गादविषयस्यैव वहिनिष्ठविपयत्वस्योक्तविषयितानिरूपकतावच्छेदकत्वं वक्तव्यं तञ्च कथं स्यात् ? ज्ञानविषयीभूतस्यैवावच्छेदकत्वस्वीकारादित्याशङ्क्याह - एतचेति, ८ यथा रक्तदण्डवान् ' इत्यत्र दण्डवति दण्डो दण्डे रक्तं रक्ते च रक्तत्वं विशेषणं न तु दण्डे इति रक्तत्वनिष्टप्रकारतानिरूपित विशेष्यता रक्ते एक भासते न तु दण्डे इति दण्डाभिन्नप्रकारेऽप्रकारेण = प्रकारतया भासमानेनापि रक्तत्वनिष्ठप्रकारतानिरूपित विशेष्यत्वेन दण्डनिष्ठा प्रकारताऽवच्छिन्ना भवति तथैवात्राप्यविषयस्यापि वह्निनिष्ठविषयत्वस्य विषयितानिरूपकतावच्छेदकत्वं स्वीक्रियते इत्यर्थः । दृष्टान्ते " अप्रकारेणापि " इति यदुक्तं तेन रक्तत्वादिप्रकारता निरूपित विशेष्यत्वस्याऽविषयत्वमेव प्राप्तं प्रकारीभूतपदार्थस्य ज्ञानविषयत्वनियमात् रक्तत्वप्रकारतानिरूपितविशेष्यत्वस्य रक्तवृत्तिखेन ज्ञानविषयत्वेपि दण्डवृत्तित्वेन ज्ञानाविषयत्वमस्त्येव--रक्तपदार्थदण्डपदार्थयोरमेदेपि शब्दभेदेनार्थभेदस्वीकारात् तदुक्तम् - " प्रतिशब्दमर्यो भिद्यते " इति । वस्तुतो रक्तपदार्थदण्डपदार्थयोरमेदा रक्तनिष्ठं रक्त
.
२०
"Aho Shrutgyanam"