________________
( ३०६ )
सादर्श:
[ द्वितीयाकारकद्वितीयखण्डे -
अथोक्तस्थले मारोप्यारोपविषयबोधकपदयोर्ज्ञानान्वितार्थकत्वे कर्मप्रत्ययस्थले 'लोहितो वह्निर्ज्ञायते ' इत्यादौ विशेष्यभेदाद्वाक्यभेदापत्तिः । न च लोहिनाभेदज्ञानविषयो वह्निरित्येव शाब्दधीरुपगम्यते न तु ज्ञाने प्रकारो लोहितो विशेष्यश्च वह्निरिति समूहालम्बनं तथा सति ' शुक्को वहिलोहिता जपा ' इत्यादावपि तथाप्रयोगप्रसङ्गात् दर्शितविशिष्टवैशिष्ट्यबोधस्वीकारे लोहितादिमकारकत्वविशिष्टनिरूपितविशेष्यतायाः शुक्लवादी बाधितत्वेन तादृशप्रयोगा
प्रकारतानिरूपितविशेष्यत्वं दण्डनिष्ठमेवेति दण्डनिष्ठप्रकारताया अवच्छेदकं भवत्येवेति भावः । परिहरति-तन्नेति, यज्ञपतिमतानुयायिनः ' रङ्गं रजतं जानाति ' इत्यादौ रङ्गपदरजतपदयोः सामानाधिकरण्योपपत्त्यर्थमेव रजतादिपदस्य रजताद्यभेदज्ञानविषये लक्षणां स्वीकुर्वन्ति तच्च सामानाधिकरण्यं लक्षणां विनाप्युक्तरीत्या = " यत्पदार्थविशेष्यकत्व विशिष्टे ३०२ पृ० "इत्याद्युत्योपपद्यत एवेति लक्षणाश्रयणं न युक्तमित्यर्थः । तस्याः=लक्षणायाः ।
L
C
6
ननु ' रङ्गं रजतं जानाति । उक्तरीत्येत्यत्रेवोक्तस्थले = ' लोहितं वहिं जानाति ' इत्यत्रा - रोप्यबोधकस्य लोहितपदस्यारोपविषयबोधकस्य च वह्निपदस्य ज्ञानान्वितार्थकत्वे अर्थादत्र यदि स्वोत्तर द्वितीयार्थद्वारा लोहितवह्निपदार्थयोर्ज्ञाने एव • लोहितप्रकारकं वह्निविशेष्यकं च यज्ज्ञानं 'तादृशज्ञानाश्रयश्चैत्रः ' इत्येवमन्वयः स्यात्तदा 'लोहितो वह्निर्ज्ञायते ' इत्यादिकर्मप्रत्ययस्थले ज्ञानीयविषयताश्रयत्वेन लोहितवह्निपदार्थयोर्विशेष्यत्वात् परस्परं भिन्नत्वाच्च विशेष्यभेदात् * ज्ञानीयविषयताश्रयो लोहितः, ज्ञानीयविषयताश्रयो वह्निश्व' इत्येवं वाक्यभेदः स्यादेव न चैतदिष्टमित्याशङ्कते - अथेति । ननु ' लोहितो वह्निर्ज्ञायते ' इत्यत्र लोहिताभेदज्ञानविषयो वह्निः ' इत्येवमेकवाक्यतां कृत्वा शाब्दबोधः स्वीक्रियते न तु 'ज्ञाने लोहितः प्रकारः वह्निश्च विशेष्यः = ज्ञानीयविषयताश्रयो लोहितो वह्निश्च ' इत्येवं समूहालम्बनात्मको येनोक्तरीत्या विषयताश्रयीभूतवहिलोहितयोर्भेदाद्वाक्यभेदः स्यात्, विपक्षे बाधकमाह - तथा सतीति, तथा सति = यदि 'लोहितो वह्निर्ज्ञापते' इत्यत्रापि ' ज्ञाने प्रकारो लोहितो वह्निव विशेष्यः ' इत्येवं समूहालम्बनात्मक एवं बोधः स्यात् तदोक्तसमूहालम्बनात्मक बोधजनकस्य 'शुक्लो हिलौहिता जपा ज्ञायते ' इतिवाक्यस्यापि स्थाने तथा = ' लोहितो वन्हियते ' इत्येवं प्रयोगः स्यादेव - उभयोरपि वाक्ययोरुक्तसमूहालम्बनात्मक बोधजनकत्वेन साम्यस्य प्राप्तत्वाद् न चैतदिष्टम्, तस्मात् ' लोहितो वह्निर्ज्ञायते ' इत्यत्र लोहिता मेदज्ञानविषयो वह्निः' इत्येतादृशो दर्शितो विशिष्टवैशिष्ट्यबोध एव स्त्रीकार्यस्तथा च लोहितप्रकारकत्वविशिष्टं यज्ञानं तादृशज्ञाननिरूपितविशेष्यताया लोहितवद्वावेव सत्त्वेन शुक्लव बाधितत्वात् शुको वह्निलहिता जपा इत्याकारकबोधतात्पर्येण तादृशप्रयोगस्य = ' लोहितो वह्निः इत्याकारकप्रयोगस्यापत्तिर्नास्तीज्याशङ्क्याह-न चेति । ' लोहिताभेदज्ञानविषयो वह्निर्ज्ञायते ' इत्यत्र लोहिताभेदज्ञानविषयता
&
"Aho Shrutgyanam"
1
C