________________
वात्वर्थे नामार्थान्चयविचारः ] व्युत्पत्तिवादः ।
पत्तिविरहादिति वाच्यम्, तत्र लोहितादिपदोत्तरप्रकारतार्थकद्वितीयादिविभक्तिविरहेण लोहितादिप्रकारकत्वेन ज्ञानभानासंभवात्, नामार्थधात्वर्थयोः साक्षादन्ययस्याव्युत्पन्नतया प्रकारितायाः संसर्गतया भानासंभवादिति चेत् ?, न - यथा हि ' वटो नीलो भवति वृक्षो नौका भवति " काष्ठं भस्म भवति' इत्यादौ धात्वर्थेऽसाधारणधर्मरूपे भावे व्युत्पत्तिवैचित्र्येण नीलनौकाभस्मादेः साक्षादेवान्वयः - प्रथमाया अन्तरा भासमानार्थकत्वाभावात, नौकादिपदस्य स्वारम्भकावयवारभ्यनौकाद्यर्थलाक्षणिकतया प्रकृतिविकृत्योर्भेदमपि वृक्षो नौका भवति' इत्यादौ योग्यताया उपपत्तिस्तथा धात्वर्थे प्रकृतेपि प्रकारितासंबन्धेन लोहितादेः साक्षादन्वयस्यागत्योपगमात् ।
6
यथा प्रकृतिविकृतिभावस्थले ' वृक्षः पञ्च नौका भवति ' इत्यादौ प्रकृतिभूतविशिष्टे व वह्निविषयकज्ञानीयविषयताया वैशिष्ट्यस्तीत्वस्य विशिष्टवैशिष्ठ्यबोधत्वम् । परिहारमाह - तत्रेति, ' लोहिताभेदज्ञानविषयो वह्निः । इति बोधेपि लोहितप्रकारकत्वं ज्ञाने स्वीकार्य तच्च न संभवति-लोहितपदोत्तरं प्रकारतावाचकद्वितीयाविभक्तेरभावाद् तथा लोहितप्रकारक. - स्वविशिष्टज्ञानभाने ज्ञाने लोहितस्य ज्ञाननिष्ठ प्रकारितारूपसंसर्गेणान्वयो वक्तव्य इति प्रकारितायाः संसर्गत्वेन भानं प्राप्तं तदपि न संभवति - नामार्थस्य लोहितस्य धात्वर्थज्ञाने साक्षाद् मेदान्वयस्याव्युत्पन्नत्वेन प्रकारितायाः संसर्गत्वासंभवात्, तथा चागत्योक्तरीत्या 'ज्ञानीयविषयताश्रयो लोहितो वह्निश्व ज्ञायते ' इत्येव शाब्दबोधः स्वीकार्यस्तत्र च विशेष्यभेदाद्वाक्यभेदापत्तिरित्यर्थः ।
अथेत्यादिनाशङ्कितं परिहरति-नेति, यथा ' घटो नीलो भवति ' इत्यत्र नीलपदार्थस्य नामार्थस्याप्यसाधारणधर्मरूपे भावे = भवनरूपे धात्वर्थे साक्षादेवान्वयो भवति - नीलपदोत्तरप्रथमाया नीलपदार्थ धात्वर्थयोर्मध्ये द्वारीभूतार्थप्रतिपादकत्वाभावात् तथा प्रकृतेपि = ' लोहितो वह्निर्ज्ञायते इत्यत्रापि धात्वर्थे ज्ञाने प्रकारितासंबन्धेन लोहितपदार्थस्यागत्या साक्षादेवान्वय उपगम्यते तथा च ' प्रकारितासंबन्धेन लोहितविशिष्टज्ञानविषयताश्रयो वह्निः' इतिशाब्दबोधोदयाद्वाक्यमेदापत्तिर्नास्तीत्यर्थः । ' वटो नीलो भवति' इत्यत्र सिद्धे घंटे नीलोत्पतिरिष्टास्तीति धावर्थे नीलस्यैवान्य अत एव भवनानुकूलव्यापारो धात्वर्थो नीले एव न घटेपीति नीलट्याsararरणो धर्म इत्युक्तम्- असाधारणेति । ननु प्रकृतिविकृत्योर्भेद एवास्तीति स्वभिन्नपदार्थान्तररूपत्वप्राप्तेरसंभवाद् वृक्षः प्रकृतिभूतः कथं विकृतिभूतनोका भवेदित्याशङ्क्योक्तम्नौकादिपदस्येति, स्त्रं वृक्षः वृक्षारम्भकावयवानामेव नौकारम्भकत्वात् नौकापदस्य वृक्षारम्भकावयवारम्यनौकापदायें लक्षणा तथा च वृक्षारम्भकावयवारम्यनौकापदार्थरूपत्वं वृक्षे बाधित नास्तीति वृक्षे नौकारूपत्येन भवनव्यापारस्य योग्यताया उपपत्तिरित्यर्थः ।
-
संप्रत्याख्यातवचन नियामकमाह - यथेति ' वृक्षः पञ्च नौका भवति इत्यादिप्रकृति विकृतिभात्रस्थले प्रकृतिभूतवृक्षस्य विशेष्यत्येन धात्वर्थभावनायामन्त्रयोस्तीति तद्गत = वृक्षगतसं
(३०७ )
"Aho Shrutgyanam"