________________
( ३०८ )
सादर्श:
[ द्वितीयाकारकद्वितीयखण्डे -
- वृक्षादेर्विशेष्यतया भावनान्वयित्वात् तद्गतसंख्याबोधकतया प्रकृतिवाचकपदसमानवचनत्वमाख्यातस्य तथा' एको द्वौ ज्ञायते ' इत्याशुभपाभेदारोपस्थली-earth कादिपदार्थस्यारोपविशेष्यस्याख्यातार्थविशेष्यत्वान्वयविशेष्यतया तउपदस मानवचनत्वमाख्यातस्य ।
म चैवम् " अमानि तत्तेन निजाऽयशोयुगं द्विफालबद्धाश्चिकुराः शिरस्थितम् " इत्यत्र कथमारोपविशेष्यवाचकपदविरुद्धवचनत्वम् " अमानि " इतिक्रियापदस्येति वाच्यम्, तत्राऽयशोद्वयस्य वास्तवत्वेन चिकुरभागद्वयस्य राज्ञ. आरोग्यत्वेन कवेरुत्प्रेक्षितत्वात्, आख्यातार्थविशेष्यतान्वयविशेष्यत्वेनाऽयशोयुस्यैव विवक्षितत्वात् ।
इच्छार्थकधातुस्थले मुख्यविशेषकर्मत्वं द्वितीयार्थः, अतो वृष्टिसा ध्यं सुखं भवतु ' इत्यादीच्छास्थले ' सुखमिच्छति' इत्यादिवत् ' वृष्टिमिच्छ ति ' इत्यादयो न प्रयोगाः ।
ख्याबोधकतया प्रकृतिभूतवृक्षवाचक वृक्षपदसमानव चनत्वमेवाख्यातस्येति 'भवति' इत्येकवचनान्तं क्रियापदं वृक्षपदस्यैकवचनान्तत्वात्, तथैवैकस्मिन् चन्द्रादौ द्वित्वस्य चन्द्रद्वयस्य वाऽऽरोपस्थले 'एको द्वौ ज्ञायते' इत्यत्रो मयाभेदारोपस्थलीयवाक्येप्येकपदार्थस्यारोप विषयस्यैवाऽऽख्यातार्थविशेयतान्वये विशेष्यत्वात् ( आख्यातार्थस्य विषयत्वस्य विशेष्यत्वरूपत्वादेकपदार्थे एवान्वयाञ्चैकपदार्थस्यारुतार्थविशेष्यतान्वयविशेष्यत्वं प्राप्तमिति विज्ञेयम् ) तत्पद = एकपदसमानवचनत्वमा. ख्यातस्य प्राप्तमित्येकवचनान्तत्वमित्यर्थः । अत्र " उभय" इत्यत्र " उभयार्थ ?" इत्यपि पाठः ।
6
66
ननु यद्यारोपविषयस्यैव प्राधान्यादारोपविषयवाचकपदसमानवचनत्वमाख्यातस्योच्यते तदा " अमानि तत्तेन " इत्यत्र चिकुराणामेवारोपविषयत्वात् तादृशचिकुरवाचकपदस्य बहुवचनातत्रपि तद्विरुद्धम्' अमानि ' इत्येकवचनत्वमाख्यातस्य कथं संगच्छेत बहुवचनस्यापेक्षितत्वादित्याशङ्क्याह- न चेति । परिहारमाह- तत्रेति, तत्र = अमानि तत्तेन " इत्यत्रारोपविषयत्वं चिकुराणां नास्ति किं यशोयुगस्यैव तथा चाऽयशोयुगे द्विफालबद्धचिकुर भागद्वयत्वमारोप्यते कविनेत्याऽऽरोपविषयस्याऽयशोयुगस्यैवाख्यातार्थविशेष्यतान्वये विशेष्यत्वेन विवक्षितत्वात् तद्वाचकाऽयशोयुगपदस्य चैकवचनान्तत्वात् 'अमानि' इति क्रियापदस्याप्येकवचनान्तत्वं युक्तमेवेत्यर्थः ।
इच्छार्थक धातुस्थले 'सुखमिच्छति '' सुखमभिलषति ' इत्यादौ मुख्य विशेष्यत्वरूपं कर्मत्वं द्वितीयार्थस्तथा च सुखविशेष्यकेच्छाश्रयश्चैत्र इतिशाब्दबोधः । मुख्यविशेष्यत्वरूपकर्मत्वस्य द्वितीयार्थत्वस्वीकारस्य फलमाह - अत इति, ' वृष्टिसाध्यं सुखं भवतु इत्यत्र सुखस्यैवेच्छाविषयत्वेन मुख्यविशेष्यत्वात् ' सुखमिच्छति' इतिप्रयोगस्तु भवति, वृष्टेः सुखविशेषणत्वेन मुख्य. विशेष्यत्वाभावात् ' दृष्टिमिच्छति' इति प्रयोगो न भवतीत्यर्थः ।
" Aho Shrutgyanam"
3