________________
इच्छार्थकधातुप्रयोगाः } व्युत्पत्तिवादः।
अथ 'अहं सुखी स्याम्' इत्यादीच्छायाः सुखादिविशेषणकतया तत्र 'सुखमिच्छति' इत्यादिप्रयोगानुपपत्तिरिति चेत्?, न- 'मम सुखं भवतु' इत्यादिसुखविशेष्यकेच्छाया एव कदाचित् सुखादिविशिष्टात्मबोधकशब्देन विषयाभिलापात्, स्वकृत्यऽधीनसिद्धिकत्वरूपस्वकृतिसाध्यत्वप्रकारकपाकविशेष्यकेच्छाया एव 'पाकं कृत्या साधयामि ' इतिपाकसिद्धयनुकूलकृत्यऽभिन्नव्यापारविशिष्टस्वबोधकशब्देन विषयाभिलापवत् ।।
यदि चोद्देश्यसुखादेविशेषणतयापि कचिद् भानमानुभविकं तदोद्देश्यादि. व्यवहारनियामकः क्वाचित्कविशेषणसाधारणो विषयताविशेषोऽभ्युपेयः । अनु
ननु यदीच्छार्थकधातुयोगे मुख्यविशेष्यत्वरूपं कर्मत्वं द्वितीयार्थस्तदा ' अहं सुखी स्याम् । इत्यादीच्छायां सुखस्यात्मविशेषणत्वेन भासमानत्वाद् मुख्यविशेष्यत्वाभावेन तत्रान्यप्रयुक्तः 'सुख मिच्छति ' इतिप्रयोगो नोपपद्यतेत्याशङ्कते- अथेति । परिहरति- नेति, " मम सुख भवतु ' इत्याकारकसुख विशेष्यकेच्छाया एव विषयाभिलापात् = विषयस्य (सुखस्य ) कदाचित्= 'अहं सुखी स्याम् ' इत्यत्र सुखविशिष्टात्मबोधकशब्देन= अहं पदेनाभिलापात् ' अहं सुखी स्थाम् ! ' मम सुखं भवतु ' इतीच्छयोः समानविषयकत्वेन — मम सुखं भवतु ' इतीच्छायाः सुखविशेष्यकत्वमस्तीति ' अहं सुखी स्याम्' इतीच्छाया अपि सुखविशेष्यकत्वं प्राप्तमिति तादृशेच्छामुद्दिश्य 'सुखमिच्छति' इति सुखविशेष्यकेच्छाबोधकप्रयोगस्यानुपपत्तिर्नास्तीत्यर्थः । अत्र दृष्टान्तमाह-स्वकृत्येति, स्वकृत्यऽधीनसिद्धिकत्वरूपं यत् स्वकृतिसाध्यत्वं तत्प्रकारकपाकविशेष्यकेच्छाया: 'पाकं चिकीर्षामि ' इत्याकारकाया एव विषयस्य यथा 'पाकं कृत्या साधयामि' इत्यत्र पाकसिद्धयनुकूलो यः करोत्यर्थभूतकृत्यऽभिन्नो व्यापारस्तादृशव्यापारविशिष्ट यत्स्वं तद्बोधकशब्देन ' साधयामि । इतिपदेनामिलापो भवति तथैव ' मम सुख भवतु ।" इत्याकारकेन्छाविपयस्यैव 'अहं सुखी स्याम् ' इत्यत्र सुख विशिष्टात्मबोधकेन अहमितिपदेनाभिलापो भवति तत्राप्यत्राऽहंपदार्थस्य सिद्धत्वेनासिद्धस्य सुखस्यैवेच्छाविपयत्वेन मुख्यविशेष्यत्वात् 'अहं सुखी स्याम् ' इत्याकारकेच्छामुद्दिश्य 'सुखमिच्छति ' इति प्रयोगस्य न काचिदनुपपत्तिरित्यर्थः। । ननु ' अहं सुखी स्याम् ' इत्यादौ सुखस्यात्मविशेषणत्वेनैव भानं भवतीति मुख्यविशेष्यत्वाभावादुक्तेच्छामुद्दिश्य 'सुखमिच्छति । इतिप्रयोगस्योक्ताऽनुपपत्तिरस्त्येव — सुखमिच्छति । इत्यनेन सुखविशेष्यकेच्छायाः प्रतिपादनात् 'अहं सुखी स्याम् ' इत्यनेन चात्मविशेष्यकेच्छायाः प्रतिपादनादित्याशङ्ग्य पक्षान्तरमाह- यदीति, याद्देश्यभूतस्य सुखस्य विशेषगतयेव भानं भवति तदा काचित्कविशेषणसाधारणः विशेष्यविशेषणसाधारण उद्देश्यत्वव्यवहारनियामक एको विषयताविशेषः स्वीकार्यः स एव च द्वितीयार्थस्तथा च 'अहं सुखी स्याम्' इत्यत्र विशेषणीभूतेपि सुखे द्वितीयार्यभूतस्य तादृशविषयताविशेषस्य सत्त्वेन 'अहं सुखी..
"Aho Shrutgyanam"