________________
(३१० )
मितौ विशेष्यतया काचित्कभानविषयसाध्यनिष्ठ विधेयताख्यविषयतावत् । रू एव च ' सुखमिच्छति ' इत्यादी द्वितीयाद्यर्थः ।
ग्राममिच्छति' इत्यादौ ग्रामादिपदं ग्रामस्वत्वादिपरम् । अत एव च सिद्धस्य ग्रामादेर्मुख्यविशेष्यताया उपदर्शितविलक्षणविषयताया वा विरहेपिन क्षतिः । ग्रामादेः सिद्धत्वेपि स्वत्वाद्य सिद्धोपरक्तस्येच्छायां प्राधान्येन कचिद्र मानम् - विशिष्टस्यासिद्धत्वात् तत्रैव च ग्राममिच्छति' इत्यादिप्रयोग इत्यपि वदन्ति ।
C
L
पार्क. चिकीर्षाति इत्यादी द्वितीयाया विशेष्यतारूपकर्मत्वार्थकतया कृतिप्रकारकपाकविशेष्यकेच्छा प्रतीयते सा च ' पार्क कृत्या साधयामि
""""""
सादर्श:
7
"
-
,
स्याम् इतीच्छामुद्दिश्य सुखमिच्छति ' इति प्रयोगस्यानुपपत्तिर्नास्तीत्यर्थः । विशेष्यविशेषसाधारणस्य विषयताविशेषस्य स्वीकारे दृष्टान्तमाह- अनुमिताविति, पर्वतो वह्निमान् धूमात् ' इत्यनुमितौ वह्निः पर्वतविशेषणतया मासते । पर्वते वह्निर्धूमात् ' इत्यनुमितौ च वह्निविशेष्यतया भासते इति विशेष्यतया मानविषयो यो वह्निरूपः साध्यस्तन्निष्ठा विधेयताख्या विषयता यथा विशेष्यविशेषणसाधारणा स्वीक्रियते तथा च 'पर्वतो वह्निमान्' इत्यत्र वह्नेर्विशेषणत्वेपि विधेयताख्यविषयता बह्नावेव ' पर्वते वह्निः ' इत्यत्रापि वहेर्विशेष्यत्वेन विधेयताख्यवियता वह्नावेवास्ति एवमेव मम सुखं भवतु इत्यत्राप्युद्देश्यत्वव्यवहारनियामकविषयता सुखे - एव ' अहं सुखी स्याम् ' इत्यत्राप्युद्देश्यत्वव्यवहारनियामकविषयता सुखे एवेत्युद्देश्यत्वव्यवहारनियामिका विशेष्यविशेषणसाधारणा एका विषयता कल्प्यते सेव द्वितीयार्थ इत्यर्थः ।
“
" प्राममिच्छति' इत्यत्र सिद्धस्य ग्रामस्येच्छाविषयत्वासंभवादइसिद्धस्य ग्रामस्वत्वस्य चेच्छाविषयत्वसंभवाद् ग्रामपदं ग्रामस्वत्वपरं तथा च ग्रामस्वत्वविशेष्यकेच्छाश्रयश्चैत्र इति बोधाकारः । अत एव = प्रामपदस्य ग्रामस्वत्वपरत्वादेव, ग्रामस्वत्वस्यैवेच्छाविषयत्वेन मुख्य विशेष्यत्वमस्तीति ग्रामस्य मुख्य विशेष्यत्वाभावेपि तथोपदर्शितविशेष्यविशेषणसाधारणविषयत्वाभावेपि क्षतिः =मामपदाद् द्वितीयानुपपत्तिर्नास्ति । कचित्तु ग्रामस्य शुद्धस्य सिद्धत्वेपि स्वत्वाद्यंसिद्धोपरक्तस्य=असिद्धं यत् स्वत्वं तद्विशिष्टस्यासिद्धत्वादिच्छायां प्राधान्येन विशेष्यत्वेन भानं भवति - इच्छाया असिद्धपदार्थविशेष्यकत्वनियमात् तत्रैव यत्र स्वत्वविशिष्टप्रामस्यासिद्धत्वं भवति मिच्छति' इति प्रयोगो भवति न तु स्वत्वविशिष्टप्रामसिद्धावपीति पक्षान्तरमाह- ग्रामादेरिति । तथा च ग्रामपदस्य न ग्रामस्वत्वेत्र लक्षणा किं तु ग्रामपदमऽसिद्धस्वत्वविशिष्टग्रामपरमेति भावः ।
ग्राम
[ द्वितीयाकारकद्वितीयखण्ड-
"Aho Shrutgyanam"
6
८
सन्नन्तधातुसममिव्याहृतद्वितीयाया अथ निरूपयति- पाकमिति, ' पाकं चिकीर्षति ' इत्यत्र विशेष्यतारूपं कर्मत्वं द्वितीयार्थः, द्वितीयार्थविशेष्यतायाश्च पाकपदस्यात्र द्वितीयान्तत्वेन पार्कऽन्वय इति सन्नर्थेच्छानिरूपितविशेष्यतायाः पाके प्राप्तत्वात् सन्प्रकृतिभूतकरोत्यर्थकृतौ प्रकारजैव प्राप्ता - एकस्यैव विशेष्यत्वसंभवादित्यत्र कृतिप्रकारिका पाकविशेष्यकेच्छा प्रतीयते इत्यर्थः ।