________________
सन्नन्तप्रयोगाः ]
व्युत्पत्तिवादः ।
( ३११ )
इतीच्छा । अथ वा सनों धात्वर्थविशेष्यकेच्छावाचित्वात् कृतिविशेष्यकेच्छा चिकीर्षापदार्थः सा च ' पाककृतिर्भवतु ' इतीच्छेव, प्रवर्तिका च सा भवतु मा वेत्यन्यदेतत् । पाकादेश्व कृतिकर्मत्वमेव द्वितीयया प्रत्याय्यते न त्विच्छाया विषयत्वरूपं कर्मत्वम्, गृहस्थितीच्छामादाय ' गृहं तिष्ठासति' इत्यादिप्रयोगापत्तेः । युक्तं चैतद्- सनो धात्वर्थप्रकारकेच्छावाचित्वे ओदनभोजनेच्छादशायाम् ' ओदनं बुभुक्षते ' इतिप्रयोगो न स्यात् - तत्र भोजनस्याप्रकारत्वात् ॥
८
3
तस्याः स्वरूपमाह - सा चेति, सा=कृतिप्रकारकपाकविशेष्यकेच्छा । तथा च पार्क कृत्या - करोत्यर्थव्यापारेण साधयामीत्याकारकेच्छाश्रयक्षेत्र इति शाब्दबोधाकारः । पक्षान्तरमाहअथ वेति, कर्तुमिच्छा हि चिकीर्षापदार्थ इति सन्नर्थेच्छा निरूपित विशेष्यता सन्प्रकृतिभूतधात्वर्थे कृत्यादावेव प्रतीयते न तु पाके इति सनो धात्वर्थ = सन्प्रकृतिभूतधात्वर्थ विशेष्य केच्छावाचकत्वं प्राप्तमिति करोत्यर्थकृतिविशेष्यकैवेच्छा चिकीर्षापदार्थ इत्यर्थः । एतस्या इच्छायाः खरूपमाह - सा चेति, सा=प्रकृतिभूतधात्वर्थकृतिविशेष्यकेच्छा । तथा चात्र पाककृतिर्भवत्वित्याकारकेच्छाश्रयश्चैत्र इति शाब्दबोधाकारः । पूर्वोक्तायाः पाकं कृत्या साधयामि इतीच्छायाः प्रवर्तकत्वेपि ' पाककृतिर्भवतु ' इतीच्छाया नियमेन प्रवर्तकत्वं न प्रती इत्याह- प्रवर्तिकेति । अस्मिन् पक्षे 'पाकं चिकीर्षति इत्यत्रेच्छा निरूपित विशेष्यतायाः करोत्यर्थ कृतात्रेय सत्त्वेन पाकेऽभावात् पाके करोत्यर्थकृतिनिरूपितविशेष्यतारूपं कर्मत्वं द्वितीयया प्रत्यायते इति तदेव द्वितीयार्थो नत्विच्छानिरूपितविषयता ( विशेष्यता ) रूपं कर्मत्वमत्याह- पाकादेश्चेति । विपक्षे बाधकमाह- गृहस्थितीति, यदि सन्नर्थेच्छानिरूपितविशेष्यत्वं सन्प्रकतिभूतधात्वर्थादन्यस्मिन् पाकादावपि स्यात् तदा गृहस्थितीच्छानिरूपितत्रिषयताया गृहे प्राप्त्या ' पाकं चिकीर्षति ' इतिवत् ' गृहं तिष्ठासति ' इत्यपि प्रयोगः स्यादेव न चैतदिष्टं यदा च सन्नर्थेच्छानिरूपितविषयत्वं सन्प्रकृतिभूतधात्वर्थे एवं स्वीक्रियते तदा तु • fagiसति' इत्यत्रेच्छा निरूपितविषयत्वं प्रकृतिभूतधात्वर्थस्थितावेव प्राप्तं न गृहे स्थाधातोश्चाऽकमैकत्वाद् धात्वर्थस्थितिनिरूपित कर्मत्वमपि गृहे न प्राप्तमिति न गृहपदाद् द्वितीयापत्तिरित्यर्थः । अस्मिन् पक्षे स्वसम्मतिमाह- युक्तमिति, एतत् - सनः प्रकृतिभूतधात्वर्थ विशेष्यके च्छावाचकरखमेव युक्तम् । प्रथमोक्तमते बाधकमाह- सन इति, यदि सनः प्रकृतिभूतधात्वर्थप्रकारकेच्छावाचकत्वं प्रथमोक्तं स्यात्तदा भोजनस्य प्रकारत्वसत्त्वे एव बुभुक्षते ' इति प्रयोग: • स्यादिति ओदनभोजनेच्छादशायाम् ' ओदनं बुभुक्षते ' इति प्रयोगो न स्यात्- अत्र भोजनस्य विशेष्यत्वेन प्रतीयमानत्वेन प्रकारत्वेनाऽप्रतीयमानत्वादित्यर्थः ।
C
ननु कर्मतासंबन्धेन भोजनविशिष्टो य ओदनस्तद्विशेष्य केव यदेच्छा मवति तदेव एतादृशः = " ओदनं बुभुक्षते ' इति प्रयोगो भवतीति न सनः स्वप्रकृतिभूतधात्वर्थ भोजनादिविशेष्यके
"Aho Shrutgyanam"