________________
(३१२)
सादर्श:- [ द्वितीयाकारकद्वितीयखण्डेन च कर्मतासंबन्धेन भोजनप्रकारिका यदौदनविशेष्यिकेच्छा तदैवेतादृशमयोगः, सा चेच्छा भोजनझुमकेष्टसाधनताज्ञानादू भोजनविशिष्टौदनामकेष्टसाधनताज्ञानादू वा, ओदनस्य सिद्धतादशायामपि विशिष्टधर्मिकेष्टसाधनताज्ञानादू विशिष्टधार्मकाऽसिद्धत्वज्ञानसहिता विशिष्टेच्छासंभवात् । यत्र भोजनसिद्धताद. शायां भोजनोत्तरकालीनगमनत्वादिप्रकारिका भुक्तौदनजन्यपुष्टित्वादिनकारिका वेच्छा तत्र ' बुभुक्षते ' इतिप्रयोगस्य न प्रसङ्गः - मुरूपविशेष्यविशेषणतापन्नकर्मत्वांशे इच्छाप्रकारताया एव सन्प्रत्ययप्रकृत्यर्थे भानोपगमादिति वाच्यम् , च्छावाचकत्वकल्पनाया अपेक्षेत्याशङ्कते- न चेति । सा=ओदनविशेष्यकापीच्छा भोजनविषय केष्टसाधनताज्ञानाद्वा कर्मतासंबन्धेन भोजनविशिष्टौदनविषयकेष्टसाधनताज्ञानाद्वा भवतीत्यन्यदेत दित्याह- सेति । ननु सिद्धरिच्छां प्रति प्रतिबन्धकत्वादोदनसिद्धतादशायामोदनविशेष्यकेच्छा कथं स्यादित्याशङ्क्याह- ओदनस्येति, ओदनस्य सिद्धत्वेपि भोजनविशिष्टौदनस्याऽसिद्धत्वेन भोजनविशिष्टौदनविषयकाऽसिद्धत्वज्ञानसहकृता भोजनविशिष्टौदन विषयकेष्टसाधनताज्ञानाद् विशि. ष्टेच्छाया: भोजनप्रकारकौदनविशेष्यकेच्छायाः संभवान्न कोपि दोषः ( इच्छाप्रतिबन्धो न संभवति ) इत्यर्थः । ननु यदि सनः स्वप्रकृतिभूतधात्वर्थप्रकारकेच्छावाचकत्वं स्यात्तदा ' भोजनोत्तरकालिकं गमनं भवतु ' इत्यत्रापि मोजनस्य गमने विशेषणत्वाद् भोजनप्रकारकगमनविशेभोछायाः सत्त्वाद् भोजनप्रकारकेच्छाबोधकः ' बुभुक्षते ' इतिप्रयोगः स्यादेव, एवं भुक्तौदनंजन्यपुष्टिविशेष्यकेच्छाया अपि भोजनप्रकारकेच्छारूपत्वात् 'भुक्तौदनजन्या पुष्टिर्भवतु ' इत्यत्रापि 'बुभुक्षते । इतिप्रयोगः स्यादेव, सनः प्रकृतिभूतधात्वर्थविशेष्यकेच्छावाचकत्वे तूक्तस्थलयोः प्रकृत्यर्थभोजनविशेष्यकेच्छाया अभावादेव 'बुभुक्षते ' इतिप्रयोगापत्तिर्नास्तीति सनः प्रकृतिभूतधात्वर्थविशेष्यकेच्छावाचकत्वमेव युक्तं न तु प्रकृतिभूतधात्वर्थप्रकारकेच्छावाचकत्वमित्याशङ्क्याह- यत्रेति । भोजनसिद्धतादशायाम् = भोजने कृते सति । भोजनोत्तरकालीनगमनत्वादिप्रकारिका भोजनप्रकारिका गमनत्वनिष्टप्रकारतानिरूपितगमनविशेष्यिका ' भोजनोत्तरकालिकं गमनं भवतु ' इत्याकारिका । भुक्तौदनजन्यपुष्टित्वप्रकारका भोजनप्रकारिका पुष्टित्वनिष्ठप्रकारतानिरूपितपुष्टिविशेष्यिका — भुक्तौदनजन्या पुष्टिर्भवतु ' इत्याकारिका वेच्छा भवति यत्र तत्रास्मन्मतेपि 'बुभुक्षते । इतिप्रयोगापत्तिर्नास्तीत्यर्थः । उक्ते प्रयोगप्रसङ्गाभावे हेतुमाहमुख्येति, मोक्तुमिच्छा हि बुभुक्षापदार्थ इति भुजधातूत्तरवर्तिसन्वाच्येच्छाया मुख्य विशेष्यं भोजनमेव तादृशभोजनंरूपमुख्यविशेष्ये विशेषगतापन्नं यत् कर्मत्वं ताशकर्मत्वांशे- तादृशकर्मत्वनिरूपिका येच्छा तादृशेच्छानिरूपितप्रकारतैव सन्प्रत्ययप्रकृतिभूतधात्वर्थे स्वीक्रियते तथा चौदनभोजनेच्छादशायामेव ' बुभुक्षते ' इतिप्रयोगः संभवति- मुख्यविशेष्यभूतभोजने विशेषणतापन् यत् कर्मत्वं तन्निरूपिका येच्छा तादृशेच्छानिरूपितप्रकारतायाः सन्प्रत्ययप्रकृत्यर्थभूतभोजने भासमानत्वाद् भोजनप्रकारकौदनविशेष्यकेच्छायाः अत्र प्रतीयमानत्वात् । 'भोज
"Aho Shrutgyanam"