________________
सन्नन्तप्रयोगविचार: ] व्युत्पत्तिवादः ।
(३१३) 'भोजनं भवतु' इत्यादिभोजनविशेष्यकेच्छादशायामपि 'बुभुक्षते इतिप्रयोगस्य सर्वसिद्धत्वेन धात्वर्थविशेष्यकेच्छाबोधकतायाः सन्प्रत्ययस्यावश्यमुपेयत्वात् ।
न च द्वयी व्युत्पत्तिरेवोपेयते- एकव्युत्पत्यैव निर्वाहे व्युत्पत्तिद्वयकल्पने गौरवात, अत एव च स्थित्यादिगोचरेच्छाया गृहादिविशेष्यकत्वस्योक्तरीत्या संभवेपि 'गृहं तिष्ठासति ' इत्यादयो न प्रयोगाः। भोजनप्रकारकौदनविशेष्यकेच्छाविशेषदशायाम् ‘बुभुक्षते ' इतिप्रयोगसत्त्वे तूद्देश्यताख्यविषयताया एव धात्वर्थे भानोपगमेन तस्य निर्वाहात् ।
नोत्तरकालिकं गमनं भवतु ' इत्याद्याकारकेच्छादशायां च ' बुभुक्षते' इति प्रयोगापत्तिर्नास्ति— भोजनोत्तरकालिकं गमनं भवतु ' इत्याकारकेच्छायां मुख्यविशेष्यं गमनमेव तादृशगमने विशेषणतापनकर्मत्वस्य निरूपिका येच्छा तादृशेच्छानिरूपितप्रकारता भुजधात्वर्थे न संभवति किन्तु गमधात्वर्थे एव संभवति तत्र ' जिगमिषति ' इत्येव प्रयोगो भवति न तु 'बुभुक्षते' इतिप्रयोग इत्यर्थः प्रतिभाति । परिहारमाह- भोजनमिति, भोजनं भवतु इत्याकास्कभोजनविशेष्यके
दशायामपि 'बुमुक्षते.' इति प्रयोगः सर्वमते. भवतीति सन्प्रत्ययस्य सन्प्रकृतिभूतधात्वर्थभोजनादिविशेष्यकेच्छाबोधकत्वमावश्यकमेवास्तीति सनः स्वप्रकृतिभूतधात्वर्थ विशेष्यकेच्छावाचा कत्वमेव युक्तं न तु प्रकृतिभूतधात्वर्थप्रकारकपाकौदनादिविशेष्यकेच्छाबाचकत्वं प्रथममतोक्त
युक्तमित्यर्थः ।
___ ननु 'भोजनं भवतु' इत्याकारकेच्छादशायां सनः स्वप्रकृतिभूतधात्वर्थविशेष्यकेच्छावाचकत्वमध्यस्तु — भोजनविशिष्ट ओदनो भवतु ' इत्याकारकेच्छादशायां प्रकृतिभूतधात्वर्थप्रकारके
छावाचकत्वमप्यस्त्विति द्वथ्येव व्युत्पत्तिरस्त्वित्याशङ्क्याह- न चेति । परिहारमाह- एकेति । एकव्युत्पत्त्या प्रकृतिभूतधात्वर्थविशेष्यकेच्छावाचकत्वव्युत्पत्त्या । अत एव सनः स्वप्रकृतिभूतधात्वर्थविशेष्यकेच्छावाचकत्वादेव, गृहस्थितीच्छायां गृहस्य विशेष्यत्वसंमवेपि सनो गृहादिविशेष्यकेन्छावाचकत्वमेव नास्ति येन गृहविशेष्यकेच्छामादाय — गृहं तिष्ठासति ' इतिप्रयोगापत्तिः स्यात् । शेष पूर्वमेव प्रतिपादितम् । ' भोजनविशिष्ट ओदनो भवतु ' इत्याकारिकाया भोजनप्रकारकौदनविशेष्यकेच्छाया दशायामपि यदि 'ओदनं बुभुक्षते ' इति प्रयोगो भवति तदा सन्प्रकृतिभूतधात्वर्थे भोजनादौ कर्मताख्यविशेषयताया असत्त्वे युद्देश्यताख्यविशेष्यतारूपाया विषयतायाः संभवेन तस्य=' ओदनं बुभुक्षते । इतिप्रयोगस्य निर्वाहो विज्ञेय:- भोजनप्रकारकोदनविशेष्यकेच्छाया भोजनोद्देश्यकौदनविशेष्यकेच्छारूपत्वात्- मोजनमुद्दिश्यौदनस्येष्यमाणत्वात् . धात्वर्थमोजने उद्देश्यताख्यविषयताया भासमानत्वादित्यर्थः ।
ननु सनः स्वप्रकृतिभूतधात्वर्थभोजनादिविशेष्यके( भोजनादिविषयके ) च्छावाचकत्वमते पार्क चिकीर्षति ' इत्यत्र पाकस्य करोत्यर्थकृतिकर्मत्वप्रत्यायनं द्वितीयया संभत्रति- द्वितीयायाः
"Aho Shrutgyanam"