________________
सादर्श:- [ द्वितीयाकारकद्वितीयखण्डेन च धात्वर्थविशेष्यकेच्छायाः सन्प्रत्ययार्थत्वे 'पाकं चिकीर्षति' 'ओदनं बुभुक्षते ' इत्यादौ पाकौदनादेद्वितीयया कृतिभोजनादिकर्मत्वप्रत्यायनसंभवेपि "पाकश्चिकीर्ण्यते' 'ओदनो बुभुक्ष्यते ' इत्यादौ कर्माख्यातेन तत्प्रत्यायनासं. भवः-तत्प्रकृतिभूतसन्नन्तधात्वर्थकृतिभोजनेच्छाकर्मत्वस्यैव तत्प्रत्यायनयोग्यत्वात, प्रत्ययानां प्रकृत्यान्वितस्वार्थबोधकत्वाद् इच्छाविषयत्वविशेषितकृतिभोजनादेश्च प्रकृत्याऽप्रतिपादनादिति वाच्यम्, कर्तृप्रत्ययस्थले सन्प्रत्ययार्थच्छाया धात्वर्थविशेष्यतया भानेपि कर्मप्रत्ययस्थले तस्या धात्वर्थविशेषणतया भानोपगमात् 'चिकीर्ण्यते पाकः' इत्यादाविच्छाविशेषितकृत्यादेरेव सन्नन्तेन प्रतिपादनात कर्मत्ववाचकत्वात् ' ओदनं बुभुक्षते ' इत्यत्र चौदनस्य भोजनकर्मत्वप्रत्यायनं द्वितीयया संभवति यद्यपि तथापि ' पाकश्चिकीर्च्यते । 'ओदनो बुभुक्ष्यते' इत्यादिकर्माख्यातस्थले तु पाकौदनादेः कर्माख्यातेन कृञाद्यर्थकृतिभोजनादिकर्मत्वप्रत्यायनं न संभवति- कर्माख्यातप्रकृतिभूतो यः सन्नन्तधातुस्तदर्थभूता या कृतीच्छा भोजनेच्छा च ताशकृतिभोजनादीच्छानिरूपितकर्मत्वस्यैव पाकौदनादौ तत्-तेन कर्माख्यातेन प्रत्यायनयोग्यत्वात्-प्रत्यायनसंभवात्, प्रत्ययानां प्रकृत्यान्वितस्वार्थबोधकत्वनियमेनात्रापि कर्माख्यातस्य प्रकृत्यर्थभूता या कृतिभोजनादीच्छा तदन्वितकर्मत्वबोधकत्वसंभवात् (पाकौदनादेः कृतिभोजनेच्छाकर्मत्वमेव प्राप्तं न तु कृतिभोजनादिकर्मत्वम् ) प्रकृत्या कर्माख्यातप्रकृतिभूतसन्नन्तधातुना च कृतिभोजनादीच्छेव प्रतिपादयितुं शक्यते- प्रकृतावपि सन्प्रत्ययभागार्थेच्छाया एवं प्रधानत्वात् न तु इच्छाविषयत्वविशिष्ट कृतिभोजनादिकं येन कृतिभोजनादिकर्मत्वं कर्माख्यातेन पाकीदनादौ प्रतिपादयितुं शक्यतेत्यर्थः, यदि ' पाकश्चिकीयते , 'ओदनं बुभुक्ष्यते' इत्यादौ कर्माख्यातप्रकृतिभूतसन्नन्तधातुना इच्छाविषयत्वविशिष्टकृतिभोजनादिकं प्रतिपाद्येत तदा कृतिभोजनादेरेव प्रकृत्यर्थत्वेन कृतिभोजनादिकमत्वं कर्माख्यातेन पाकौदनादौ प्रतिपादयितुं शक्येतापि न चैवमस्ति कृतिभोजनादीच्छाया एव प्रकृत्यर्थत्वात् तादृशकृतिभोजनादीच्छाकर्मत्वमेव पाकौदनादौ प्रतिपादयितुं शक्यते न कृतिमोजनादिकर्मत्वं कृतिभोजमादेः प्रकृत्यर्थत्वाभावात् प्रत्ययानां च प्रकृत्यान्वितस्वार्थबोधकत्वनियमादिति भाव इत्येवमाशङ्कयाह-न चेति । परिहारमाह- कर्तृप्रत्ययेति, “पाकं चिकीर्षति' इत्यादिकर्तृप्रत्ययस्थले पाकादिकर्मककृत्यादिविषयकेच्छाश्रयः इत्याकारकबोधोदयात् सन्प्रत्ययार्थेच्छायाः सन्प्रकृतिभूतधात्वर्थविशेष्यतया भानपि ( तत्रेच्छाविषयत्वं धात्वर्थकृत्यादेरेव कृत्यादिकर्मत्वं च पाकादेर्द्वितीयया प्रत्याय्यते) 'पाकश्चिकीर्घ्यते' इत्यादिकर्मप्रत्ययस्थले तु तस्याः सन्नर्थेच्छायाः सन्प्रकृतिभूतधात्वर्थविशेषणतयैव भानं स्वीक्रियते इच्छाविषयीभूतकृतिविषयः पाक इत्याकारकबोधोदयात् तथा चात्रेच्छाया विशेषणत्वेनेच्छाविशषितकृतिभोजनादिकमेव कर्माख्यातनकृतिभूतसन्नन्तधातुना प्रतिपाद्यते इति कृतिभोजनादेरेव प्रकृत्यर्थत्वात् तादृशकृतिभोजनादिकर्मत्वं पाकौदनादावात्मनेपदेन कर्माख्यातेन प्रतिपादयितुं शक्यते एव, एवं च प्रत्ययानां
"Aho Shrutgyanam"