________________
सन्नन्तप्रयोगविचारः ] व्युत्पत्तिवादः ।
(३१५) ताशकृत्यादिकर्मताया आत्मनेपदादिना प्रत्यायनसंभवात् । आख्यातायुपस्थितवर्तमानत्वादेश्च कृत्यादिविषयकेच्छा यत्र प्रकृत्यों यत्र वेच्छाविषयकृतिस्तत्रोभयत्रैवेच्छायामन्वयः, प्रकृत्यर्थैकदेशेपि ' नीलतरो घटः' इत्यादिस्थले नीलरूपादौ तरबार्थातिशयान्वयानुरोधात् ।।
न चैवं कर्मप्रत्ययस्थलेपि कृतिविशेषितैवेच्छा सना प्रत्याय्यतां विशेषणीभवन्ती कृतिरेव कर्मत्वेनाऽन्वीयताम्, भवन्मते विशेषणीभूतेच्छायां वर्तमानत्वाद्यपराख्यातार्थान्वयवदिति वाच्यम्, एकत्र विशेषणतयोपस्थितस्थान्यत्र विशेषणतयान्वयोऽव्युत्पन्न इति प्रथमान्तार्थविशेषणकर्मत्वे इच्छायां विशेषणतयोपप्रकृत्यान्वितस्वार्थबोधकत्वनियमस्यापि न भङ्ग इत्यर्थः । नन्वाख्यातोपस्थितवर्तमानत्वस्य कुत्रान्वय इत्याशझ्याह-आख्यातेति, सन्नन्तधातोराख्यातस्य प्राप्तत्वेन सन्नन्तस्यैव प्रकृतित्वमितीच्छायाः प्रकृत्यर्थत्वं तथा च यत्र='पाकं चिकीर्षति । इत्यादाविच्छाया धात्वर्थविशेध्यत्वेन करोत्यर्थकृत्यादिविषयकेच्छा प्रकृत्यर्थस्तया यत्र= पाकश्चिकीर्ण्यते' इत्यादिकर्माख्यातस्थले इच्छायाः सन्प्रकृतिभूतधात्वर्थविशेषणत्वेनेच्छाविषयकृत्यादिः प्रकृत्यर्थस्तत्रोभयत्रैवाख्यातोपस्थितवर्तमानत्वादेरिच्छायामेवान्वयो न तु धात्वर्थकृत्यादौ वा पाकादौ वेत्यर्थस्तथा च 'चिकीर्षति ' इत्यत्र कृतिविषयकवर्तमानेच्छाश्रयश्चैत्र इतिबोधः, 'चिकीर्ण्यते ' इत्यत्र वर्तमानेच्छाविषयीभूतकृतिविपयः पाक इतिबोधः। ननु कर्माख्यातस्थले सन्नन्तधात्वर्थस्यैकदेशभूतायामिच्छायां वर्तमानत्वादेः कथमन्वयः स्यात्-" पदार्थः पदार्थेनान्वेति न तु पदार्थैकदेशेन" इतिनियमादित्याशझ्याह-प्रकृत्यर्थेति, यथा 'नीलतरो घट: ' इत्यत्र तर प्रत्ययार्थस्यातिशयस्य पदार्थैकदेशे नीले एवान्चयो भवति तथात्रापि ज्ञेयमित्यर्थः । अत्र सन्प्रत्ययार्थेच्छायाः प्रकृतिभूतधात्वर्थविशेष्यकत्वं प्रतिज्ञाय धात्वर्थविशेष्यतया भानस्वीकारे पूर्वापरविरोधी नाशङ्कनीयः-' चिकीर्षति ' इत्यादौ कृत्यादिविषयकेच्छा सन्प्रत्ययार्थोस्ति सा चेच्छात्र धात्वर्थकृतेर्विशेष्यभूतास्ति अथ च तादृशेच्छायां विशेष्यतया ( : विषयतया ) धात्वर्थकृतेरेव मानं भवति न तु पाकादेरिति धात्वर्थविशेष्यकाप्यस्तीति धात्वर्थविशेष्यकत्वधात्वर्थविशेष्यत्वयोः पदयोरनतिरिक्तार्थकत्वात् ।
ननु कर्तृप्रत्ययस्थले इव कर्मप्रत्ययस्थलेपि कृतिविशेषितवेच्छायाः धात्वर्थविशेष्यतयैवेच्छायाः सना भानं स्वीक्रियतां न तु करोत्यादिधात्वर्थविशेषणतया तथा च यथा तव मते 'पाकश्चिकीर्ण्यते । इत्यादिकर्मप्रत्ययस्थले धात्वर्थे विशेषणीभूतायामपीच्छायामाख्यातप्रत्ययार्यस्य वर्तमानत्वस्यान्वयो भवति तथेच्छाविशेषणीभूतकृतेरेव प्रथमान्तार्थविशेषणीभूताख्यातार्थकर्मत्वेऽन्वयो भविष्यति. एवं चेच्छाया विशेष्यत्वप्राप्त्या विशेष्यभूतायामिच्छायामाख्यातार्थवर्तमानत्वस्यान्वयोपि युक्त एवं स्यादित्याशझ्याह-न चेति । परिहारमाह-एकत्रेति, " एकत्र विशेषणतयोपस्थितस्यान्यत्र विशेषणतयान्वयोऽव्युत्पन्नः" इतिनियमात् कर्मप्रत्ययस्थले इच्छाया
"Aho Shrutgyanam"