________________
(३१६)
सादर्श:- [ द्वितीयाकारकद्वितीयखण्डे-- स्थितस्य धात्वर्थस्य विशेषणतयाऽन्वयायोगात, विशेष्यतया चान्वयस्याप्रस. क्तत्वात् । धात्वर्थविशेषणतया इच्छाभानोप तस्या वर्तमानत्वादिविशेष्यतयैव भानेनोक्तव्युत्पत्तिविरोधविरहात् । .. एवं धात्वर्थस्येतरविशेषणतयोपस्थितस्य स्वातन्त्र्येण कर्मतादिविशेषणत्व. मयुक्ततममेव । प्रकृत्यर्थस्यैकदेशोपि प्रकृत्यर्थान्तर्गततया भासमाने एव प्रत्ययार्थान्वयदर्शनात्, न तु स्वातन्त्र्येण भासमाने । इच्छारूपविशेष्यपारतन्त्र्येण कर्मत्वान्वयोपि इच्छायाः कर्मत्वानन्वये दुर्घट:-विशेष्यान्वयिन्येव विशेषणस्य
धात्वर्थविशेष्यत्वस्वीकारे तादृशेच्छायां विशेषणीभूतस्य धात्वर्थस्य कृतेः प्रथमान्तार्थे पाकादौ विशेषणीभूतकर्मत्वे विशेषणतयाऽन्धयो न संभवति. धात्वर्थकृतेः कर्माख्यातार्थभूतकर्मत्वे विशेष्यतयाप्यन्वयो न संभवति-कर्मत्वे विशेष्यतया ( विशेष्यतारूपेण प्रथमान्तार्थान्वयस्यैव प्रसक्तत्वात् तस्मात् कर्मप्रत्ययस्थले इच्छाया धात्वर्थविशेषणत्वमेव स्वीकार्य धात्वर्थविशेषणीभूताया अपीच्छायाः प्रत्ययार्थत्वेन प्राधान्याद् वर्तमानत्वादौ विशेष्यतयैवान्वयो भवति न तु विशेषणतयेति उक्तव्युत्पत्तेः=" एकत्र विशेषणतयोपस्थितस्यान्यत्र विशेषणतयान्वयोऽव्युत्पन्नः" इति व्युत्पत्तेरपि विरोधो नास्त्येव-धात्वर्थे विशेषणीभूतेच्छाया वर्तमानत्वे विशेष्यतयैवान्वयस्वीकारात् । तस्याः इच्छायाः । कृतिश्चात्र कर्मप्रत्ययस्थले इच्छायां न विशेषणं किं विच्छाविशेव्यमेवेतीच्छायां विशेष्यत्वेनान्वितायाः कृतेः प्रथमान्तार्थविशेषणीभूतकर्माख्यातार्थकर्मत्वे विशेषणत्वेनान्वयोपि न विरुद्ध इत्यर्थः । . . .. .. ... .
उपसंहरति-एवमिति, " एवम् " इत्यत्र ' एवं च ' इति पाठो युक्तः । तथा च यदि कर्मप्रत्ययस्थल इच्छाया धात्वर्थविशेष्यत्वं स्यात्तदा इतरविशेषणतया इच्छाविशेषणतया उपस्थितस्य धात्वर्थस्य-करोत्याद्यर्थस्य कृत्यादेः स्वातन्त्र्येणाख्यातार्थकर्मत्ये विशेषणत्वमयुक्तमेव--- " एकत्र विशेषणतया" इतिव्युत्पत्तिविरोधात् । प्रकृत्यर्थैकदेशेपि प्रत्ययार्थान्वयस्तत्र भवति यत्र प्रकृत्यर्थैकदेशस्य प्रकृत्यर्थान्तर्गततया भानं भवति न तु स्वातन्त्र्येण भासमाने यथा 'नीलतरो घटः' इत्यत्र तरप्प्रत्ययप्रकृतिभूतनीलपदस्थापि नीलत्वेन रूपेण घटवाचकत्वात् प्रकृत्यर्थभूतो यो घटस्तदन्तर्गततयैव नीलरूपस्य भानं भवतीति प्रकृत्यर्थंकदेशपि तादृशनीलरूपे तरप्प्रत्ययार्थस्यातिशयस्याऽन्वयो भवति तथा चात्र प्रत्ययार्थकर्मत्वस्यापि धात्वर्थकृतौ विशेषणतयान्वयो न संभवति- चिकीर्ण्यते । इत्यत्र - कृतेः प्रकृत्यर्थैकदेशत्वेपि स्वातन्त्र्येण भासमानत्वादित्याह-प्रकृत्यर्थस्येति । इच्छाया धात्वर्थविशेष्यत्वस्वीकारे कृतिविशिष्टेच्छाया एवाख्यातप्रकृत्यर्थत्वेन कृतेः प्रकृत्यर्थेकदेशत्वं ज्ञेयम् । एकत्र विशेषणतयोपस्थितस्याप्यन्यत्र धर्मिपारतन्त्र्येण विशेषणतयान्वयो भवति तदप्यत्र न संभवति-कृतिविशेष्यभूताया इच्छायाः कर्मत्वेऽन्वयाभावेनेछाद्वारापीच्छाविशेषगीभूतकृतेः कर्मत्वेऽन्वयासंभवादित्याह- इच्छारूपेति । भत्र नियामक
"Aho Shrutgyanam"