________________
सन्नन्तप्रयोगविचारः j
व्युत्पत्तिवादः ।
( ३१७
पारतन्त्र्येणान्वयस्य विशिष्टान्वयस्थले व्युत्पत्तिसिद्धत्वाद् न तु विशेष्यान. न्वयिनि ।
अथास्तु विषयतारूपकर्मत्वे ' चिकीर्ष्यते पाकः इत्यादाविच्छायास्तत्परतन्त्रकृतेश्चान्वयः - उभयत्रैव पाकादेविषयत्वात् स्थित्यादिकर्मत्वाऽप्रसिद्ध्या च 'गृहं तिष्ठास्यते ' इत्यादेरप्रसङ्गादिति चेत् ?, ' ओदनो बुभुक्ष्यते ' इत्यादी का गतिः ? - तत्रेच्छाकर्मताया विषयतारूपत्वाद् भोजनादिकर्मतायाश्च तदन्यत्वात्, विशेष्यीभवदिच्छान्वयिनि कर्मत्वे भोजनाद्यन्वयायोग्यत्वेन विशिष्टान्वयासंभवात् ।
"
माह - विशेष्यान्वयिन्येवेति, विशिष्टान्वयस्थले = यत्र विशेषणविशिष्टस्यैव विशेष्यस्य कचिदन्वयो भवति तत्र ( यत्र विशेषणस्य धर्मिपारतन्त्र्येणान्वयो भवति तत्र ) विशेष्यान्वयिन्येव विशेष्यपारतयेण विशेषणस्यान्वयो व्युत्पत्तिसिद्धस्ति न तु विशेष्यानन्वयिन्यपि विशेष्यानन्वयिनि विशेष्यद्वारा विशेषणान्वयासंभवादित्यर्थः । पाकादिनिष्टं कर्मत्वं हि करोत्याद्यर्थकृत्यादिमात्रनिरूपितमस्ति न तु सन्नर्थेच्छा निरूपित मिति तादृशकर्मत्वे इच्छाया अन्वयासंभवादिच्छाद्वारापि कृत्यन्वयो न संभवतीत्यर्थः ।
"Aho Shrutgyanam"
"
6
ननु ' पाकचिकीर्ष्यते ' इत्यत्र पाकनिष्ठं यत् कर्माख्यातार्थभूतं कर्मत्वं तद् विषयतारूपमेव पाकस्य चोभयत्रैव = कृताविच्छायां च विषयत्वात् कर्मत्वे इच्छाया अन्ययो युक्त एव तथा चेच्छाद्वारा इच्छान्वयिनि कर्मत्वे कृतेरप्यन्वयस्य नानुपपत्तिरित्याशङ्कते -- अथेति । नन्वेवमिच्छाद्वारा धात्वर्थस्थितेर्गृहनिष्ठ कर्मव्येऽन्वयापत्त्या ' गृहं तिष्ठास्यते ' इत्यपि प्रयोगः स्यादित्याशङ्क्याह- स्थित्यादीति, कृत्यादीनां सकर्मकत्वात् पाकादिनिष्ठ कर्मत्वेऽन्वयः संभवति स्थितेश्चाऽकर्मकत्वेन गृहाहिनिष्ट कर्मत्वेऽन्वयासंभवात् गृहं तिष्ठास्यते ' इत्यादि प्रयोगस्यापत्तिर्नास्ति तथा च कर्मप्रत्ययस्थलेपि सन्नर्थेच्छाया धात्वर्थकृत्यादिविशेष्यत्वमेव स्वीकार्य न तु धात्वर्थविशेषणत्वमित्यर्थः । परिहारमाह - ओदन इति, ' पाकश्चिकीर्ष्यते इत्यत्र कृतिकर्मत्वमिच्छाकर्मत्वं च विषयतारूपत्वादेकस्वरूपमेवेति तत्रेच्छाकृत्योरुभयोरप्यन्वयसंभवेनेच्छाद्वारा इच्छाविशेषणी भूतकृतेरप्यन्वयः संभवति, 'ओदनो बुभुक्ष्यते ' इत्यत्रेच्छा - कर्मत्वं तु विषयतारूपमस्ति भोजनकर्मत्वं च तदन्यत् = गलाघस्संयोगरूपमेवास्ति न तु विषय - तारूपम् - असंभवादिति विशेष्यभूतेच्छान्वयिनि कर्मत्वे = विषयतारूपकर्मत्वे धात्वर्थस्य भोजन - स्यान्ययो न संभवति भोजनस्य गलाघस्संयोगरूपकर्मत्वे एवान्वयसंभवादिति विषयतारूपे इच्छाकर्मध्ये विशिष्टस्य = भोजनविशिष्टच्छाया अन्वयासंभवात् ' ओदनो बुभुक्ष्यते ' इत्यत्रागतिरेव स्यात्, तथा चात्र सन्नर्थेच्छाया धात्वर्थविशेषणत्वमेव स्वीकार्य तथा च धात्वर्थस्य भोजनस्य विशेष्यत्वमेव स्यात् विशेष्यभूतस्य तु भोजनस्य स्वातन्त्र्येणाप्योदननिष्ठे आख्यातार्थभूते कर्म - त्वेऽन्वयः संभवत्येवेति कर्माख्यातस्थले इच्छाया धात्वर्थविशेषणत्वमेवेत्यर्थः ।
"