________________
( ३१८ )
सादर्श:
[ द्वितीयाकारकद्वितीयखण्डे
वस्तुतः ' पाकश्चिकीर्ष्यते ' इत्यत्राप्यगतिरेव - कृत्यविशेषणतया पाकानेठेच्छाविषयतायाः कृतिविशेषणतया तन्निष्ठकृतिविषयताया भिन्नतया इच्छान्वयिनो विषयत्वरूपकर्मत्वस्य कृत्यऽन्वयायोग्यत्वात् ।
८
यदि च विशेष्यान्वयिव्यक्तावेव तत्पारतन्त्र्येण विशेषणान्वय इति न नियमःअपि तु तन्वयितावच्छेदकावच्छिन्ने एवेति तथा च विषयतात्वावच्छिन्नस्योभयान्वययोग्यतया न प्रकृतेप्यन्वयानुपपत्तिः, अत एव अरुणया इत्यादावाssरुण्यनिरूपितसाध्यताया गोनिरूपितसाध्यताभिन्नत्वेपि न तृतीयार्थे सन्नर्थेच्छायाः कर्माख्यातस्थलेपि धात्वर्थकृत्यादिविशेष्यत्वस्वीकारे यथा भोजनस्येच्छाविशेह्युक्तरीत्या कर्मत्वेऽन्यो न संभवति तथा पाकश्चिकीर्ष्यते ' इत्यत्रापीच्छाविशेषणीभूतकृतेः कर्मत्वेऽन्वयो न संभवतीत्याह - वस्तुत इति, यद्यपि पाके इच्छाविषयताप्यस्ति धात्वर्थकृतिविषयताप्यस्ति तथापि पाकनिष्ठा या इच्छाविषयता सा इच्छायामेव विशेषणं भवति न तु कृतौ विशेषणं तन्निष्ठा = पाकनिष्ठा कृतिविषयता च कृतौ विशेषणं भवति न विच्छायामिति कृतौ विशेषगत्वाऽविशेष गत्वाभ्यां विषयतयोः परस्परं भिन्नतया इच्छान्त्रयिनः कृत्यऽविशेषगीभूतस्य विषयत्वरूपकर्मत्वस्य कृतावन्वयो न संभवति किं वा कृतिप्रतियोगि कान्वयायोग्यत्वात् ( इच्छान्वयि कर्मत्वे कृतेरन्वयो न संभवति ) इति ' पाकश्चिकी - येते, इत्यत्राप्यगतिरेवेत्यर्थः । तस्मात् कर्मारूपातस्थले इच्छाया धात्वर्थविशेषणत्वमेव स्वीकार्य तथा च विशेष्यभूतस्य कृतिरूपधात्वर्थस्य पाकनिष्ठकर्मत्वे स्वातन्त्र्येणान्यसंभवान क' चिदनुपपत्तिः स्यादिति शेषः । " तन्निष्ठकृतिविषयतायाः " इति पञ्चम्यन्तम् ।
ननु विशेष्यविशेषणस्य विशेष्यपारतन्त्र्येण योन्यो भवति स विशेष्यान्वयितद्द्व्यक्तावेव भवतीति नियमो नास्ति किं तु तदन्त्रयितावच्छेदकावच्छिन्ने = विशेष्यान्वयितावच्छेदकावच्छिन्ने एव भवति न तु विशेष्यान्वयितावच्छेद कानवच्छिन्नेपीत्ययमेत्र नियमस्तथा च 'पाकश्चिकीर्ष्यते' इत्यत्र पाकनिष्ठेच्छाविषयतायाः पाकनिष्ठकृतिविषयतायाश्वोक्तरीत्या परस्परं भिन्नत्वेप्युभयोरपि विषयतयोरन्वयितावच्छेदकेन विषयतात्वेनावच्छिन्नत्वं स्वस्त्येवेति विषयतात्वावच्छिन्नाया विषयताया विषयतास्वेन रूपेणोभयान्यययोग्यतया - इच्छाकृत्युभयान्त्रययोग्यतया विषयतात्वावच्छिन्ने पाकनिष्ठे इच्छायाः कृतेश्च धात्वर्थस्याऽन्यसंभवान्न काचिदनुपपत्तिः । एवम् 'ओदनो बुभुक्ष्यते' इत्यत्राप्योदननिष्ठाया इच्छाविषयताया भोजनविषयतायाश्वोक्तरीत्या भोजने विशेषणत्वाविशेषणत्वाभ्यां च भिन्नस्वेपि विषयत्वावच्छिन्नाया विषयताया विषयतात्वेन रूपेणैक्यादिच्छाभोजनोभयान्वययोग्यत्वाश्व तादृशविषयतात्वावच्छिन्नायामिच्छाया भोजनस्य चान्वयसंभवान्न काचिदनुपपत्तिः । अत एव = यतो विशेष्यान्वयितावच्छेदकावच्छिने एवं विशेष्यपारतन्त्र्येण तद्विशेषणस्यान्वय: स्वीक्रियते अरुणया पिङ्गाक्ष्यैकहायन्या ( गवा ) सोमं क्रीणाति ” इति श्रुतावाऽऽरुण्यनिरूपितसाध्यतावा गोनिरूपितसाध्यतायाश्च ( क्रयनिष्ठायाः ) परस्परं भिन्नत्वेपि / गोः साक्षा
अत एव
"Aho Shrutgyanam"
'
17