________________
( २९६ )
सादर्श:- [ द्वितीयाकारकद्वितीयखण्डे -
विधेयत्वाद्यर्थे तृतीयानुशासनविरहात् तृतीयान्तेन वह्नयादिविधेयकत्वं कथमुपस्थापनीयमिति तु न शक्यम्, वैशिष्ट्यरूपार्थे तृतीयानुशासनसत्त्वाद् विधेयतादेरपि वैशिष्ट्यरूपत्वात्, अत एव ' रजतत्वेन शुक्तिं जानाति ' इत्यादी ज्ञाने रजतत्वादिप्रकारकत्वस्य 'घटत्वेन वह्निर्नास्ति' इत्यादौ सौंदडमतेऽभावे घटत्वावच्छिन्नप्रतियोगिताकत्वस्य तृतीयान्ततो बोधः । तृतीयान्तार्थरजतादिप्रकारकत्वद्वितीयान्तार्थ शुक्त्यादिविषयकत्वयोर्विशिष्टवैशिष्ट्य बोध मर्यादयाऽवच्छेद्यावच्छेदकभावभानम् ' रजतत्वेन शुक्तिं जानाति ' इत्यादौ नियतम् - केवलमेकत्र द्वयमितिरीत्या तदुभयबोधस्य तत्राऽव्युत्पन्नत्वात्, अत: ' इमे रङ्गरजते ' इत्यादिप्रमापरस्य तादृशवाक्यस्य न प्रामाण्यम् ।
स्वस्योपस्थित्यऽसंभवेन धात्वर्थस्य तद्वैशिष्ट्यासंभवात् तत्र = उक्तस्थले ( उक्तप्रयोगस्थाने ) केवहम् ' पर्वतमनुमिनोमि ' इति प्रयोगो न भवतीत्यर्थः ।
"
ननु विधेयत्वार्थे तृतीयाया अनुशासनेन विधानमेव न कृतमिति ' यह्निमत्त्वेन ' इति तृतीयान्तेन वह्निविधेयकत्वस्योपस्थितिरेव न संभवति येन तद्वैशिष्टयं धात्वर्थे प्राप्नुयादित्याशक्याह-- विधेयत्वाद्यर्थेति । उत्तरमाह- वैशिष्ट्येति, " इत्थंभूतलक्षणे " इतिसूत्रेण वैशिष्टार्थे तृतीया विधीयते एव विधेयत्वमप्यत्र वैशिष्ट्यरूपमेवेति वह्निमत्त्वेन इतितृतीयान्तेन वृद्धि विधेयकत्वोपस्थितेर्नानुपपत्तिरित्यर्थः । तृतीयाया वैशिष्ट्यरूपार्थबोधकत्वे प्रमाणमाहअत एवेति, अत एव = तृतीयाया वैशिष्ट्यरूपार्थबोधकत्वादेव ' रजतत्वेन शुक्तिं जानाति ' इत्यत्र रजतत्वप्रकारकशुक्तिविशेष्यकज्ञाने रजतत्वप्रकारकत्ववैशिष्ट्यम् ' रजतखेन ' इतितृतीयान्तेन प्रत्याय्यते, 'घटत्वेन वह्निर्नास्ति ' इत्यत्र च बह्व्यभावे घटत्वावच्छिन्नप्रतियोगिताकृत्ववैशिष्ट्यम्' घटत्वेन ' इति तृतीयान्तेन प्रत्याय्यते तथा च तत्र= रजतत्वेन शुक्ति जानाति इत्यत्र केवलमेकत्रद्वयमितिरीत्या यथा समूहालम्बनबोधविषययोः पदार्थयोः परस्परमऽबच्छेद्यावच्छेदकभावराहित्येन ( विशेष्यविशेषणभावराहित्येन ) भानं भवति तथात्र तदुभयबोवस्य=रजतत्वप्रकारकत्व शुक्तिविशेष्यकृत्वयोर्बोधस्यान्युत्पन्नत्वात् तृतीयान्तार्थं यद्रजतत्वप्रका रकत्वं द्वितीयान्तार्थ यच्छ्रुक्तिविषयकत्वम् - शुक्तिविशेष्यकत्वं च ज्ञाने भासते तयोर्विशिष्टवैशिष्ट्यबोधमर्यादया परस्परमवच्छेद्यावच्छेदकभावस्य नियमेन भानं भवति तत्र रजतत्वप्रकारकत्वमवच्छेदकं शुक्तिविशेष्यकत्वमवच्छेद्यमित्याह - तृतीयान्तार्थेति । अवच्छेद्यावच्छेदकभावमानस्य फलमाह - अत इति, ' इमे रङ्गरजते ' इत्यत्र समूहालम्बनबोधे रङ्गविषयकत्वरजतविषयकत्वयोः परस्परमवच्छेद्यावच्छेदकभावमानं न भवति ' रङ्गत्वेन रजतं जानाति ' इत्यत्र तु रङ्गश्वप्रकारकत्वरजतविशेष्यकत्वयोः परस्परमवच्छेद्यावच्छेदकमावमानं भवतीति 'रङ्गत्वेन रजतं जानाति' इत्यादियाक्यस्य रङ्गत्वप्रकारकत्वरजतविशेष्यकत्वयोरवच्छेद्यावच्छेदकभावपुरस्सर शाब्दबोधं प्रत्येव प्रामाण्यमस्ति न तु 'इमे रङ्गरजते' इत्यादिसमूहालम्बनशाब्दबोधं प्रत्यपीति यदि समूहालम्बनशाब्दबोधार्थ सादृशवाक्यम् = ' रङ्गत्वेन रजतं जानाति 'रजतत्वेन शुक्तिं जानाति इत्यादिवाक्यं प्रयु
"Aho Shrutgyanam"
L