________________
[ अनुमित्याद्यर्थकधातुस्थलीयद्वितीयार्थः व्युत्पत्तिवादः।
(२९५) अनुमित्याद्यर्थकधातुयोगे विधेयत्वं विधेयित्वं वा द्वितीयार्थः, तेन वह्वयादिपक्षकानुमितिपरस्य 'वहिमनुमिनोमि' इत्यादिवाक्यस्य न प्रामाण्यम् । यदि च वह्विसाध्यकपर्वतपक्षकानुमितिपरस्य 'वह्निमत्त्वेन पर्वतमनुमिनोमि 'इत्या. दिवाक्यस्यापि प्रामाण्यं मन्यते सदा तादृशे धातुयोगे उद्देश्यत्वमुद्देश्यित्वं वा द्वितीयार्थः, तस्य तृतीयान्तोपस्थाप्यसाध्यविधेयकत्वविशिष्टेऽन्वयः, अतो 'वहिमत्त्वेन ' इत्याद्यसमभिव्याहारे तत्र 'पर्वतमनुमिनोमि ' इत्यादयो न प्रयोगाः ।
प्रत्यक्षार्थकधातुसममिव्याहृतद्वितीयाया अर्थ प्रतिपाद्य संप्रत्यनुमित्याद्यर्थकधातुसममिन्यातद्वितीयाया अर्थ प्रतिपादयतुं द्वितीयखण्डमारभते- अनुमित्यादीति, ‘पर्वते वह्निमनुमिनोति चैत्रः' इत्यत्र प्राचीनमते विधेयत्वं द्वितीयार्थस्तन प्रकृत्यर्थस्याधेयतासंबन्धेनान्वयः, तस्य प्रत्यर्थे निष्ठत्व ( आश्रयत्व ) संबन्धेनान्वयः, द्वितीयार्थविधेयत्वस्य धात्वर्थेऽनुमितौ च निरूपकत्वसंबन्धेनान्वय आख्यातस्याश्रयत्वमर्थस्तथा चात्र वह्निनिष्ठविधेयतानिरूपकानुमित्या. श्रयश्चैत्र इतिशाब्दबोधः । पूर्वम् ( पृ० २७२ ) उक्तरीत्या ' वह्निमनुमिनोति जलं न ' इत्य मातुमिती जलनिष्ठविधेयताया निरूपकत्वसंबन्धेनाभावो वाच्यस्तत्तु न संभवति निरूपकत्वसं. गन्धस्थ वृत्त्पनियामकत्वादिति विधेयित्वं द्वितीयार्थ इति नवीना वदन्ति, विधेयित्वं तु विषयि. स्ववज्ञानधर्म एवेति तस्यानुमितावाऽऽश्रयतासंबन्धेनान्वय आश्रयतासंबन्धस्य च वृत्तिनियामकत्वेनाऽभावीयप्रतियोगितावच्छेदकत्वादाश्रयतासंबन्धावच्छिन्नप्रतियोगिताकस्य च जलनिरूपितविधेयित्वाभावस्थाऽनुमितावन्वये न काचिदनुपपत्तिरित्यर्थः, एवमेवापि बोध्यम् । उक्तस्य फलमाह- तेनेति, वयादिपक्षकानुमितिपरस्य' वावुष्णत्वमनुमिनोमि । इत्यनुमितिपरस्य ''वहिमनुमिनोमि । इत्यादिवाक्यस्य न प्रामाण्यापत्तिः यतः ' वह्निमनुमिनोमि' इत्यत्र वहौं विधेयत्वमभिमतं नास्तिं किं तूष्णत्वादावेव एवं वह्निनिरूपितविधेयित्वमनुमिताविष्टं नास्ति किं तूष्णत्वादिनिरूपित विधेयित्वमेव न च तादृशार्थबोधकत्वम् ' वह्निमनुमिनोमि ' इत्यस्य संभवतीत्यप्रामाण्यमित्यर्थः । एवम् पर्वतमनुमिनोमि । इत्यस्य वद्विविधेयकानुमितिप्रतिपादकत्वासंभवादप्रामाण्येपि ' यहिमत्त्वेन पर्वतमनुमिनोमि 'इतिवाक्यस्य तु प्रामाण्यमिष्टमेवेत्याह- यदि चेति । ' वह्निमत्त्वेन पर्वतमनुमिनोमि । इत्यत्र तादृशधातुयोगे अनुमित्यर्थकधातुसमभिव्याहारे पूर्ववत-- प्राचीनमते उद्देश्यत्वं द्वितीयार्थस्तस्य निरूपकतासंबन्धेन वह्निमत्त्वेनेतितृतीयान्तोपस्थाप्यं यत्साध्य ( वहि ) विधेयकत्वं तद्विशिष्टे धात्वर्थेऽन्वयस्तथा च पर्वतनिष्ठोदेश्यतानिरूपकवह्नि. विधेयकानुमितिवानिति बोधः । नवीनमते निरूपकत्वसंबन्धस्य वृत्त्यनियामकत्वात् “वद्धिमत्वेन पर्वतमनुमिनोति न जलवत्त्वेन ' इत्यत्र निरूपकत्यसंबन्धावच्छिन्नप्रतियोगिताकोद्देश्यत्वाभावत्यानुमितौ भानासंभवाद् उद्देश्यित्वं द्वितीयार्थः, अत्र च- पर्वतनिरूपितोद्देश्यित्वाश्रयानुमित्याश्रयश्चैत्र इतिबोधाकारः । तृतीयान्तोपस्थाप्यसाध्यविधेयकत्वविशिष्टे धात्वर्थे द्वितीयार्थान्वय. स्वीकारस्य फलमाह- अत इति. ' वह्निमत्त्वेन ' इत्यस्याऽसममिव्याहारे तदर्थस्थ साध्यविधेयक
"Aho Shrutgyanam"