________________
(२९४)
सादर्श:- [ द्वितीयाकारकप्रथमखण्ड:] न पश्यति ' इत्यादौ नानुपपत्तिः, तत्र विषयितावत प्रतियोगिकत्वं द्वितीयार्थः, निरुक्तचाक्षुषप्रतियोगिकत्वं त्रित्वं च धातोरर्थः. घटाद्यनुयोगिकत्वं च प्रथमान्द्रार्थ:. इत्यपि निरस्तम्, ___ इतिचेत् ? अगत्या 'घट आकाशं न पश्यति' इत्यादिवाक्यानामप्रामा: ध्यमुपगन्तव्यमिति ॥
॥ इति द्वितीयाकारकप्रथमखण्डः ।। आश्रयत्वे त्रितयाभावान्बयो विज्ञेयः-चैत्रादिवृत्तिकिंचिन्निरूपिताश्रयत्वे चैत्राद्यनुयोगिकत्वस्यैव सत्त्वेन तदभावान्वयासंभवात् । तथा चाख्यातार्थभूतं वर्तमानत्वावच्छिन्नसमवायसंबन्धावच्छिमाश्रयत्वम् आकाशविषयकप्रतियोगिकत्वलौकिकान्यविषयिताशून्यचाक्षुषप्रत्यक्षप्रतियोगिकवघटाबनुयोगिकत्वैतत्रितयाभावविशिष्टमिति वाक्यार्थबोधः । अत्रत्यपदार्थानाह-तत्रेति, यथा निषषिता द्वितीयार्थस्तथात्र प्रतियोगिकत्वमेवाऽऽकाशादिपदोत्तरद्वितीयार्थः, लौकिकान्यविषयिताशून्यचाक्षुषप्रतियोगिकत्वं त्रित्वं च धात्वर्थः, घटाद्यनुयोगिकत्वं प्रथमान्तार्थ इत्यर्थः । उक्तानिष्टप्रयोगापत्तिरूपदोषप्रदर्शनेनेदमपि निरस्तमित्याह-इत्यपि निरस्तमिति, एवमपि चैत्रादिनिष्ठे उक्ताऽलौकिकविषयिताशाल्युपनीतभानाद्याश्रयत्वे घटादिप्रतियोगिकत्वादिसत्त्वेपि अलौकिकविषयिताशून्यचाक्षुषप्रत्यक्षस्य वर्तमानत्वावच्छिन्नसमवायावच्छिन्नाश्रयत्वे उक्तत्रितयाभावभाने बाधकामाषादुक्तरीत्या चैत्रादौ घटादिप्रत्यक्षदशायामपि ‘चत्रो घटं न पश्यति । इत्यादिप्र. बोलापत्तिर्दुर्वा स्वेत्यर्थः ।
इत्येवम् “अथ दृश्यादिसमभिव्याहृतद्वितीयायाः २८० पृ० " इत्यादिना यः खलु पूर्वपक्षः सवादः प्रतिपादितस्तमुद्दिश्याह- इतिचेदिति । अगत्येति- 'घट आकाशं न पश्यति' इत्यादिस्थले वाक्यार्थोपपादनं न संभवतीत्यगत्यैतादृशवाक्यानामप्रामाण्यमेव स्वीकार्यमित्यर्थः ।।
॥ इति व्युत्पत्तिवादाद” द्वितीयाकारकप्रथमखण्डः।
"Aho Shrutgyanam"