________________
आंकाशं न पश्यतिविचारः ] व्युत्पत्तिवादः । (२९३)
एतेनाख्यालार्थवर्तमानत्वाद्यवच्छिन्नसमवायावच्छिन्नाश्रयत्वत्वाचवच्छिन्ने आकाशादिविषयकप्रतियोगिकत्वलौकिकान्यविषयिताशून्यचाक्षुषप्रतियोगिकरववाद्यनुयोगिकत्वैतत्रितयत्वावच्छिन्नाभावो भासते. अतः ' अभाव आकाशं घटादिनिरूपितेति, · चैत्रो घटं न पश्यति ' इत्यत्र घटनिरूपितालौकिकविषयिताशून्यचाक्षुषप्रत्यक्षे घटादिविषयत्वघटितोभयाभावभानोपगमेपि घटविषयकत्वचैत्रवृत्तित्वोभयाभावभानस्नीकारेप्युक्तदोषाणामापत्त्या न निस्तार इत्यर्थः । एवमेव 'घट आकाशं न पश्यति' इत्यत्रास्याकाशनिरूपितालौकिकविषयिताशालिचाक्षुषप्रत्यक्षे घटवृत्तित्वाकाशविषयकत्वोमयाभावमानस्वीकारेग्यऽनिस्तारो ज्ञेयः । अथ वेत्यादिना 'घट आकाशं न पश्यति' इत्यत्र यः खलु धात्वर्थीभूतोक्तप्रत्यक्षस्योक्तोभयाभावेऽन्वयः प्रदर्शितस्तत्राप्युक्तप्रयोगापत्त्यादिरूपदोषवृन्दं विज्ञमम्, तथा हि-चैत्रादाबुक्तोपनीतभानादिसत्त्वे ह्युक्तोपनीतभानरूपाऽलौकिकविषयिताशालिचाक्षुषप्रत्यक्षस्य.. . चैत्रादिवृत्तित्वाकाशविषयकत्वोमयस्मिन्नऽन्वयसत्त्वेप्यऽलौकिकविषयिताशून्यचाक्षुषप्रत्यक्षस्य चैत्रादिवृत्तित्वाकाशविषयकत्वोभयाभावेऽन्वये बाधकाभावात् तत्प्रतिपादकस्य
चैत्र आकाशं न पश्यति । इत्यादिप्रयोगस्थापत्तिः स्यादेव, एवमेव 'घट आकाशं न पश्यति, इत्यादावप्येतदोषप्रसक्तिर्विज्ञेया । ___ उक्तदोषं प्रकारान्तरेणाप्युपपादनेऽतिदिशति-एतेनेति, यथा भूतले घटः ' इत्यत्र घटसंयोगो घटप्रतियोगिको भूतलानुयोगिकश्चेति भूतलवृत्तिघटाश्रयत्वे धटप्रतियोगिकत्वं भूतलानुयोगिकत्वं च भासते तथैव चैत्रो घटं पश्यति । इत्यत्र चैत्रवृत्ति यद् घटविषयकप्रत्यक्षाश्रयत्वं तादृशाश्रयत्वे चैत्रानुयोगिकत्वं लौकिकविषयिताशालिप्रत्यक्षप्रतियोगिकत्वं प्राप्त प्रत्यक्षप्रतियोगिकत्वे च प्राप्ते प्रत्यक्ष घटविषयकमेवेति घटविषयकप्रतियोगिकत्वं चापि प्राप्तं भासते, एवमेव 'घट आकाशं पश्यति । इत्यत्रापि ( घदे आकाशप्रत्यक्षमभ्युपगम्यैतत्प्रतिपादनमिति विज्ञेयम् । घटनिष्ठं यद् वर्तमानत्वावच्छिन्नम् तथा समवायसंबन्धावच्छिन्नम् समवायसंबन्धेन वर्तमानकालिकमाऽऽकाशविषयकप्रत्यक्षाश्रयत्वं तादृशाश्रयत्वे घटानुयोगिकत्वमऽलौकिकविषयिताशून्यप्रत्यक्षप्रतियोगिकत्वं प्रत्यक्षं चाकाशविषयकमेवेत्याऽऽकाशविषयकप्रतियोगिकत्वं चाभ्युपगन्तव्यमिति 'घट आकाशं न पश्यति ' इत्यत्र भाख्यातार्थीभूतवर्तमानत्वावच्छिन्ने समवायसंबन्धावच्छिन्ने आश्रयत्वत्वावच्छिन्ने= आश्रयत्वे एवाऽऽकाशविषयकप्रतियोगिकत्वस्य लौकिकान्य (अलौकिक) विषयिताशून्यचाक्षुषप्रत्यक्षप्रतियोगिकत्वस्य घटानुयोगिकत्वस्य चाभावो भासते इत्युच्यते, एवं च 'अभाव आकाशं न पश्यति' इत्यत्राप्युक्तानुपपत्तिर्नास्त्येव. भर्थात्-प्रत्यक्षे समवायेनाभाववृत्तित्वाभावविषक्षायामभावे समवावेन वृत्तित्वाप्रसिद्धया यः खलु ( २९० पृ.) उपालम्भः प्रदर्शितस्तस्येदानीमवकाशो नास्तिप्रत्यक्षे समवायेनाभाववृत्तित्वाभावस्याऽविवक्षगाद् उक्ताश्रयत्वे एवोक्तत्रितयाभावभानस्वीकारान् सत्र च बाधकामावान्न का चिदनुपपत्तिरित्यर्थः । अत्र च तटस्थे एवाख्यातेन भासमान
"Aho Shrutgyanam"