________________
(२९३)
सादर्श:- [ द्वितीयाकारकप्रथमखण्डेर्षाद् घटादिनिरूपितलौकिकाऽलौकिकोभयविषयिताशालिचाक्षुषादेरुत्पत्या ताह शचाक्षुषादिदशायामुक्तप्रयोगापत्तेः। ' आकाशादिनिरूपितालौकिकविषयिताशालिवर्तमानचाक्षुषाशे घटादिवृ. त्तित्वस्य आकाशीयत्वादिना लौकिकविषयितायाश्च भ्रमदशायाम् 'घट आकाशं न पश्यति ' इत्यादिवाक्याच्छाब्दबोधापत्तेर्दुरित्वाच्च । घटादिनिरूपिताऽलौकिकविषयिताशून्यचाक्षुषत्वाद्यवच्छेदेन घटादिविषयत्वघटितोभयाभावभा• नोपगमेष्यनिस्तारात् । शसंनिकर्षाद् घटनिरूपितलौकिकालौकिकोमयविषयिताशालि चाक्षुपप्रत्यक्षं जायते तथा च तादृशचाक्षुषादिदशायाम्= घटनिरूपितलौकिकालौकिकोभयविपयिताशालिचाक्षुप्त्रत्यक्षकालेपि उक्तप्रयोगापत्त= ' चैत्रो घटं न पश्यति' इतिप्रयोग आपोतव, यतः- 'चैत्रो चटं न पश्यति । इत्यत्र त्वऽलौकिकविषयिताशून्यचाक्षुपप्रत्यक्षे हि चैत्रवृत्तित्वघटविषयकत्योभयामावभानमुच्यते न तु लौकिकालौकिकोभयविषयिताशालिचाक्षुषप्रत्यक्ष तथा च 'सुरभिर्घट:' इत्याकारकस्य लौकिकालौकिकोभयविषयिताशालिचाक्षुषप्रत्यक्षस्य घटविषयकस्य चैत्रे सत्वेपि घटविषयकालौकिकविषयिताशालिचाक्षुपप्रत्यक्षाभावस्य चैत्रे बाधाभावात् सादृशप्रत्यक्षाभावप्रतिपादकस्य "चत्रो घटं न पश्यति , इतिप्रयोगस्यापत्तिः स्यादेव- मुरभिर्घटः , ‘चत्रो वटं न पश्यति' इतिवाक्ययोरुक्तरीत्या विभिन्नविषयत्वेनैककाले ताभ्यां जायमानशाब्दबोधयोर्विरोधासंभावात् . न च' सुरभिर्घटः ' इत्याकारकप्रत्यक्षकाले — चैत्रो घटं न पश्यति ' इतिप्रयोग इष्ट:- चैत्रे पटप्रत्यक्षस्य सत्त्वादेवेत्युक्तोभयाभावभानस्वीकारे दोष इत्यर्थः ।। " 'घट आकाशं.न पश्यति' इत्यत्रालौकिकविषयिताशून्यचाक्षुषप्रत्यक्षे वटवृत्तिस्वाऽऽकाशविषुयकत्वोभयाभावभानस्वीकारे दोषान्तरमाह-आकाशादीति । आकाशीयत्वादिना आकाशीयखेन रूपेण लौकिकविषयितायाः=आकाशनिरूपितलौकिकविपयितायाः । यदाऽऽकाशनिरूपितालौकिकविषयिताशालिवर्तमानचाक्षुषप्रत्यक्षे घटवृत्तित्वस्याकाशनिरूपितलौकिकवियिताशालि. त्रस्य च भ्रमो जातस्तदापि 'घट आकाशं न पश्यति । इतिवाक्यजन्यशाब्दबोध आपयेतेव । यत:--' बट आकाशं न पश्यति । इत्यत्रोक्तरीत्या वर्तमानालौकिकविषयिताशून्यचाक्षुषप्रत्यक्षे घटवृत्तित्वाकाश विषयकत्वोभयाभावमानस्वीकारे ह्याकाशनिरूपितलौकिकविषयिताशाल्याकाशविषयकचाक्षुषप्रत्यक्षभ्रमस्य घटे सत्त्वेप्याऽऽकाशविषयकाऽलौकिकविषयिताशालिवर्तमानचाक्षुपप्रत्यक्षाभावस्य घटे बाधामावात् बादशप्रत्यक्षाभावप्रतिपादकस्य 'घट आकाशं न पश्यति । इतिप्रयोगस्य तजन्यशाब्दबोधस्य चापत्तिः स्यादेव-उक्तभ्रमस्यैतद्वाक्यजन्यशाब्दबोधस्य च विभिन्न विषयत्वात् । न चाकाशनिरूपितलौकिकविषयिताशाल्याकाशविषयकचाक्षुषप्रत्यक्षस्य घटवृत्तित्वभ्रमदशायाम् 'घट आकाशं न पश्यति ' इतिप्रयोग इष्टः-घटे आकाशविषयकात्यक्षभ्रमस्य सत्त्वादित्यर्थः । इत्येवमनिष्टप्रयोगप्राप्तिरूपदोषनिकर प्रदर्य तस्य फलमाह
"Aho Shrutgyanam"