________________
श्राकाशं न पश्यतीतिविचारः] व्युत्पत्तिवादः। गिकोटौ वर्तमानत्वमन्तर्भाव्य त्रित्वावच्छिन्नाभावभानस्य वा स्वीकरणीयतया यदा किंचिदंशेऽलौकिकमेव घटादिचाक्षुषं तस्य वर्तते तदा 'चैत्रो घटं न पश्यति' इत्यादिप्रयोगापत्तेर्दुरित्वात्- वर्तमानाऽलौकिकविषयिताशून्यचाक्षुषत्वाधवच्छेदेन चैत्रवृत्तित्वघटविषयकत्वोभयाभावसत्त्वात् ।
समानेन्द्रियजन्योपनीतभानादौ लौकिकप्रत्यक्षसामय्या विरोधित्वस्य निष्प्रामाणिकतया लौकिकविषयितानियामकोपनायकज्ञानादिसमवहितलौकिकसंनिक. न पश्यति ' इत्यपि प्रयोगः समयविशेषे वर्तमानकाले संभवतीति वर्तमाने एवालौकिकविषयिताशून्यप्रत्यक्षे चैत्रवृत्तित्वघटविषयकत्योभयाभावभानं स्वीकार्य न तु प्रत्यक्षमात्रे ' पश्यति ' इत्यस्य वर्तमानकालिकत्वात् , किं वात्र वर्तमानत्वं प्रतियोगिकोटौ निवेश्य त्रित्वावच्छिन्नाभावभानम्= अलौकिकविषयिताशून्यप्रत्यक्षे वर्तमानत्वचैत्रवृत्तित्वघटविषयकत्वैतन्त्रितयाऽभावमानं स्वीकार्यम्एवं प्राप्ते यदा तस्य चैत्रस्य किंचिदंशे आकाशाद्यशेऽलौकिकमपि घटादिविषयकम् ' अत्राकाशे घटोस्ति ' इत्याद्याकारकं चाक्षुषप्रत्यक्षं जायेत तदा 'चैत्रो घटं न पश्यति ' इति प्रयोगो यद्यपि नेष्टस्तथापि वर्तमानालौकिकविषयिताशून्यचाक्षुषप्रत्यक्षे चैत्रवृत्तित्वघटविषयकत्वोभया. भावस्य सत्वात् 'चैत्रो घटं न पश्यति' इतिप्रयोग आपयेतेवेति दोषः । 'चैत्रो घटं न पश्यति' इत्यत्रोक्तरीत्या वर्तमानालौकिकविषयिताशून्यचाक्षुषप्रत्यक्षे चैत्रवृत्तित्वघटविषयकत्वोभयाभावभानस्वीकारेणाऽलौकिकविषयिताशालिघटविषयकचाक्षुषप्रत्यक्षस्य चैत्रे सत्त्वेपि वर्तमानालौकिकविषयिताशून्यघटविषयकप्रत्यक्षाभावस्यापि चैत्रे संभवात् तत्प्रतिपादकस्य 'चैत्रो घटं न पश्यति । इतिप्रयोगस्यापत्तिर्दुरैव स्यात्, न च ' अत्राकाशे घटः' इत्याद्याकारकाऽलौकिकविषयताशा. विघटविषयकचाक्षुषप्रत्यक्षस्य चैत्रे सत्त्वे - चैत्रो घटं न पश्यति । इतिप्रयोग इष्टः- अत्र धातुना लौकिकालौकिकत्वविशेषणशून्यचाक्षुषप्रत्यक्षोपस्थितेर्जायमानत्वाद् घटविषयककिंचित्प्रत्यक्षस्य सत्त्वाच्चेति ' चैत्रो घटं न पश्यति ' इत्यत्र प्रत्यक्षे उक्तोभयाभावभानस्वीकारो न युक्त इत्यर्थः ।
'चैत्रो घटं न पश्यति' इत्यत्रालौफिकविषयिताशून्यचाक्षुषप्रत्यक्षे चैत्रवृत्तित्वघटविषयकस्वोभाभावमानस्वीकारे दोषान्तरमाह- समानेन्द्रियेति, यथा 'सुरभि चन्दनखण्डम्' इति समानेन्द्रियजन्योपनीतभानम्- चक्षुप्रैव चन्दनखण्डविषयकस्य सौरभविषयकस्य च प्रत्यक्षस्य जायमानत्वात् , तथा 'सुरभिर्घटः ' इत्यपि समानेन्द्रियजन्योपनीतभानम्- चक्षुषैव घटविषयकस्य पूर्वदिने घ्राणेन प्रत्यक्षीकृतसौरभविषयकस्य च प्रत्यक्षस्य जायमानत्वात् , तत्र यथा 'सुरभिचन्दनखण्डम् । इत्यत्र चन्दनखण्डस्य लौकिकसंनिकर्षादिरूपलौकिकप्रत्यक्षसामग्र्या लौकिक प्रत्यक्षं भवति सौरमस्य च स्मरणादिरूपाऽलौकिकप्रत्यक्षसामयाऽलौकिक प्रत्यक्ष भक्तीत्यऽली. लिकोपनीतभानं प्रति लौकिकप्रत्यक्षसामन्या विरोधो नास्तीति लौकिकालौकिकोमयविषयिताशालि 'सुरभि चन्दनखण्डम् ' इति चाक्षुषप्रत्यक्षं जायते तथैव 'सुरभिर्घटः' इत्यत्राप्युपनायक ( उपनीतापादक ) ज्ञानसहकृतो यो लौकिकविषयितानियामको लौकिकसंनिकर्षताह
"Aho Shrutgyanam"