________________
( २९० )
सादर्श:- [ द्वितीयाकारकप्रथमखण्डे -
तदपि न - घटादिविषयकचाक्षुषादेः कालिकादिसंबन्धेन घटादिवृत्तितया 'घटो घन पश्यति' इतिप्रयोगानुपपत्तेः आकाशादिविषयकत्वावच्छिन्ने चाक्षुषे कालिकादिसंबन्धेन घटादिवृत्तित्वनिश्चयदशायाम् 'घट आकाशं न पश्यति इतिवाक्याच्छाब्दबोधानुपपत्तेश्च समवायेन घटादिवृत्तित्वाकाशादिविषयकत्वोभयाभावभानस्यैव स्वीकरणीयतया 'अभाव आकाशं न पश्यति ' इत्यादावभावसमवेतत्वाऽप्रसिद्ध्या वाक्यार्थप्रसिद्धेर्दुर्वारत्वात् ।
चैत्रारतीतचाक्षुषस्य घटादिविषयकत्वेपि समयविशेषे 'चैत्रो घटं न पश्यति ' इतिप्रयोगाद् वर्तमानतादृशचाक्षुषत्वाद्यवच्छेदेनो भयाभावभानस्य प्रतियो भयाभावविशिष्टभेद उक्तप्रत्यक्षे नास्त्येव- उक्तप्रत्यक्षस्य घटवृत्तित्वाकाशविषयकत्वोभयाभावविशिष्टरूपत्वादेव किं त्वऽलौकिक विषयिताशून्यप्रत्यक्षं द्रव्यविशिष्टं न इत्याकारक एव स्वस्मिन् धात्वर्थप्रत्यक्षेऽन्योन्याभावः स्यात् तादृशान्योन्याभावप्रतियोगिताया द्रव्यविशिष्टनिष्ठाया भव च्छेदकं द्रव्यादिकमेव स्यान्न तूक्तोभयाभाव इत्युक्तोभयाभावे यत् प्रत्यक्षनिष्ठान्योन्याभावप्रतियोगितानवच्छेदकत्वं तदेव धात्वर्थी भूतोक्तप्रत्यक्ष निरूपितव्यापकत्वं तादृशव्यापकतासंबन्धेनोक्तोभयाभावे धात्वर्थस्योक्तस्यान्वय इत्यर्थः । उपसंहरति- एवं चेति ।
&
परिहरति- तदपि नेति, उक्तरीत्या यत् प्रत्यक्षे घटवृत्तित्वाभाव उक्तस्तत्र यदि यत् समवायसंबन्धेन प्रत्यक्षस्य घटे वृत्तित्वं तदभावो नोच्येत तदा घटविषयकचाक्षुषप्रत्यक्षस्य घटे समवायसंम्बन्धेनाऽसत्त्वेपि कालिकसंबन्धेन तु सत्त्वमस्त्येवेति 'घटो घटं पश्यति' इत्येव स्यात् 'घटो घटं न पश्यति' इतिप्रयोगो नोपपद्येत, खमाकाशविषयकचाक्षुषप्रत्यक्षस्यापि घटे समवायसंबन्धेन निश्चयसंभवेपि कालिकसंबन्धेन तु निश्चयः संभवत्येवेति कालिकसंबन्धेनाकाशविषय कचाक्षुषप्रस्यक्षे घटवृत्तित्वनिश्चयदशायाम् घट आकाशं पश्यति' इत्येव स्यात् 'घट आकाशं न पश्यति इति प्रयोगस्तज्जन्यशाब्दबोधश्च नोपपद्येत इति हेतोः प्रत्यक्षस्य घटे समवायेन वृत्तित्वाभावो वक्तव्यः ( समवायेन घटवृत्तित्वाभावस्य भानं स्वीकार्यम् ) तथा च घंटे समवायेन प्रत्यक्ष नैन संभवतीति । घटो घटं न पश्यति घट आकाशं न पश्यति ' इत्यादिप्रयोगस्तूपपद्येत यद्यपि तथापि ‘अभाव आकाशं न पश्यति' इतिप्रयोगो नोपपद्येत- अभावे समवायसंबन्धेन कस्यचित् वृत्तिरेव प्रसिद्धा नास्ति येनाभावे समवायेन प्रत्यक्षाभाव उपपद्येतेत्यर्थः । घंटे तु गुणादीनां समवायेन वृत्तिः प्रसिद्धास्तीति समवायसंबन्धावच्छिन्नप्रतियोगिताको भाव उपपद्यते । तस्मात् ' घट आकाशं न पश्यति' इत्यत्रालौकिक विषयिताशून्यप्रत्यक्षे घटवृत्तित्वाऽऽकाशविषयकस्वो मयाभाव एवं प्रतीयते इति यदुक्तं तदपि न संभवतीति भावः ।
5 6
चैत्रदेरिति - यदि 'घट आकाशं न पश्यति' इत्यत्र प्रत्यक्षे घटवृत्तित्वाकाशविषयकत्वोभावानं स्वीक्रियते तदा ' चैत्रो घटंन पश्यति ' इत्यत्रापि प्रत्यक्षे चैत्रवृत्तित्वपटविषयकnarara कार्य तत्र चैत्रवृत्त्यतीतचाक्षुषप्रत्यक्षस्य घटविषयकत्वसंभवेपि 'चैत्रो वट
" Aho Shrutgyanam"
7