________________
आकाशं न पश्यतीतिविचारः ] व्युत्पत्तिवादः ।
(२८९) पदार्यघटादेस्तस्य निरूपकत्वे विशेषणतयान्वयः, तादृशनिरूपकत्वद्वितीयान्तार्थाकाशादिविषयकत्वयोश्च प्रकारतया द्वित्वान्वयः, द्वित्वाद्यवच्छिन्नप्रतियोगिताकत्वसंबन्धेन तादृशोभयस्य नर्थाभावे तस्यान्वयितावच्छेदकनिरुक्तधर्मावच्छेदेन धात्वर्थेऽन्वयः, धात्वर्थस्य प्रकृते मुख्यविशेष्यतयैव भानम् ।
अथ वा स्वनिष्ठान्योन्याभावप्रतियोगितानवच्छेदकत्वरूपव्यापकतासंबन्धन धात्वर्थस्य तादृशोभयाभावेऽन्वयः, तस्य चाख्यातार्थनिरूपकत्वे. तस्य प्रथमातार्थपदार्थे घटादौ. घटादेः प्रतियोगितावच्छेदकघटकतया तादृशाभावनिरूप. कत्वात् , एवं चान्वयबोधस्य प्रथमान्तपदार्थमुख्यविशेष्यकत्वनियमस्यापि न क्षतिरिति । यत्वसंबन्धेन वाऽऽश्रयत्वे तस्य आश्रयत्वस्य च प्रत्यक्षनिष्ठे निरूपकत्वे तादृशनिरूपकत्वे घट विशिप्राश्रयत्वनिरूपकत्वे घटवृत्तित्वरूपे आकाशविषयकत्वे च मिलित्वा द्वित्वस्य प्रकारतयान्वयस्ताहशोमयस्य-द्वित्वावच्छिन्नस्योक्तनिरूपकत्वाकाशादिविषयकत्वेतिद्वयस्य च द्वित्वावच्छिन्नप्रतियोगिताकत्वसंबन्धेन नगर्थाऽभावे तस्य अमावस्य च अन्वयितावच्छेदकनिरुक्तधर्मावच्छेदेन अलौकिकविषयिताशून्यचाक्षुषत्वावच्छेदेन धात्वर्थे चाक्षुषप्रत्यक्षेऽन्वयः, तादृशचाक्षुषप्रत्यक्षस्य च न कुत्राप्यन्वय इति मुख्यविशेष्यतयैव भानम्, तथा च घटवृत्तित्वाकाशविषयकत्वोमयाभावविशिष्टम् अलौकिकविषयिताशून्यचाक्षुषप्रत्यक्षमिति बोधस्याकारः किं वा यद् घटविशिष्टाश्रयत्वनिरूपकखमाकाशविषयकरत्वं चैतद्वयं तदभावविशिष्टम् अलौकिकवियिताशून्यचाक्षुषप्रत्यक्षमिति बोधस्याकार इत्यर्थः ।
ननु धात्वर्थस्य मुख्यविशेष्यतया भानस्वीकारे प्रथमान्तार्थमुरूपविशेष्यकबोधनियमस्य भङ्गः स्यादित्याशङ्कय प्रकारान्तरेण 'घट भाकाशं न पश्यति' इत्यत्र प्रथमान्तार्थमुख्यविशेष्यकबोधमुपपादयति- अथ वेति, तथा च धात्वर्थस्य-अलौकिकविषयिताशून्यचाक्षुषप्रत्यक्षस्य तादृशोभयाभावे-घटवृत्तित्वाकाशविषयकत्योभयाभावे व्यापकतासंबन्धेनान्वयः तस्य-उक्तोभयामावस्य चाख्याता भूतनिरूपकत्वे तस्य निरूपकत्वस्य प्रथमान्तपदार्थघटेऽन्वयस्तथा चात्र भलौकिकविपयिताशून्यचाक्षुषप्रत्यक्षविशिष्टोक्तोभयाभावनिरूपको घट इत्येवं प्रथमान्तार्थमुख्यवि. शेष्यक एव बोधो जात इति न काचिदनुपपत्तिरित्यर्थः । उक्तोभयाभावनिरूपकत्वं घटे कथमित्याशङ्कयोक्तम्- घटादेरिति, उभयाभावस्य प्रतियोगि उभयं तनिष्ठप्रतियोगिताया भवच्छेदककोटौ-घटवृत्तित्वाकाशविषयकस्वेत्यत्र घटस्यापि प्रवेशात् तादृशप्रतियोगितावच्छेदकघटकतया घटस्योक्तोभयाभावनिरूपकत्वं प्राप्त प्रतियोग्यादीनामेवाऽभावनिरूपकत्वात् । अलौ. किकवियिताशून्यचाक्षुषप्रत्यक्षमात्रे घटवृत्तित्वाकाशविषयकत्वयोरभावो भवत्येवेत्युभयाभावे यद् व्यापकत्वं प्राप्तं तस्य स्वरूपमाह- स्वनिष्ठेति, स्वंधात्वर्थः, अलौकिकविषयिताशून्यचाक्षुषप्रत्यक्षं घटवृत्तित्वाकाशविषयकत्वोभयाभावविशिष्टं न इत्याकारकस्तु घटवृत्तित्वाकाशविषयकरयो
"Aho Shrutgyanam"