________________
(२८८)
सादर्शा- द्वितीयाकारकप्रथमखण्टेचेत्यालौकिकविषयिताशून्यत्वेन चाक्षुषादिकं विशेषितम् । आकाशविषयक चाक्षुषाापनीतभानस्यापीतरांशे लौकिकत्वात् तादृशानुपपत्तितादवस्थ्यमऽतों लौकिकत्वविशेषणमुपेक्षितम् । अत्राऽलौकिकविषयिताशून्यचाक्षुषत्वाद्यवच्छिनस्य 'घट आकाशं न पश्यति ' इत्यादौ शक्त्या धात्वर्थत्वासंभवेपि प्रकृते तस्यैव लक्षणया धात्वर्थत्वमुपेयते । विषयितासामान्यमेव च द्वितीयार्थः, आश्रयत्वं द्वित्वं निरूपकत्वं चाख्याता:, आश्रयत्वे व्युत्पत्तिवैचित्र्यात् प्रथमान्तयकालौकिकप्रत्यक्षाश्रयत्वस्यैव ज्ञानस्य सत्वात्, अलौकिकविषयिताशून्यत्वविशेषणसत्त्वे तु घटे 'आकाशविषयकालौकिकचाक्षुषप्रत्यक्षाश्रयत्वभ्रमदशायामपि (घटवृत्त्यलौकिकविषयिताशालिप्रत्यक्षे आकाशविषयकस्वसत्त्वेपि)अलौकिकविषयिताशून्यचाक्षुषप्रत्यक्षे त्वाऽऽकाशविषयकत्वं नास्तीस्याऽऽकाश विषयकत्वघटवृत्तित्वोभयाभावस्यान्वयसंभवात् तद्विषयकस्य 'घट आकाशं न पश्यति । इतिवाश्पजन्यशाब्बोधस्यानुश्पत्तिनास्तीत्यलोकिक विषयितान्यत्वं प्रत्यक्ष विशेषणमुपन्यस्तमित्यर्थः । नन्वेवं लौकिकत्वमेव विशेषणमुपन्यस्यताम् अलौकिकविषयिताशून्यं हि प्रत्यक्षं लौकिकमेव भवतीति लौकिकत्वविशेषणसत्त्वेप्युक्तरीत्यैव ' चैत्र आकाशं न पश्यति 'घट आकाशं न पश्यति । इतिप्रयोगयोरनुपपत्तिर्नास्तीत्याशझ्याह- आकाशविषयकेति, उक्तस्य 'तत्राकाशे पक्षी.' इत्याद्याकारकस्यालौकिकस्याप्युपनीताकाशादिविषयकचाक्षुषस्येतरांशे पक्ष्याचंशे लौकिकत्वात् तादृशलौकिकप्रत्यक्षे आकाशविषयकत्वं घट चैत्रादिवृत्तित्वमपि चास्त्येवेति तादृशलौकिकप्रत्यक्ष आकाशविषयकत्वचैत्रादिवृत्तित्योभयाभावान्वयस्य बाधात् तादृशानुपपत्तिः आकाशविषयात्वचैत्रादिवृत्तित्वोमयाभावविशिष्टप्रत्यक्षबोधकत्वेनाभिमतस्य ' चैत्र आकाशं न पश्यति । इत्यादिवाक्यस्य प्रयोगानुपपत्तिस्तदवस्थैव स्यादिति लौकिकत्वविशेषणं नौपन्यस्तं किं बालौकिकविषयिताशून्यत्वमेव विशेषणमुपन्यस्तम्. अलौकिकविषयिताशून्यप्रत्यक्ष चाकाशविषयकत्वघटवृत्तित्वोभयाभावान्वये उक्तरीत्या न कोपि दोष इत्यर्थः । ननु यद्यलौकिकविषयिता: शून्यस्य चाक्षुषप्रत्यक्षस्य दृश्चात्वर्थत्वं स्यात्तदा दृशधातुनाऽलौकिकविषयिताशून्यचाक्षुपप्रत्यक्षस्योपस्थितौ सत्यां तत्राकाशविषयकत्वघटवृत्तित्वोमयाभावस्यान्वयः संभवेदपि न चैवमस्ति दृश्धातोश्चाक्षुषप्रत्यक्षमात्रार्थकत्वाद् अनुपस्थितपदार्थे च पदार्थान्तरान्वयासंभवादित्याशङ्क्याह-- अत्रेति । अत्र अस्मिन्मते। प्रकृते घट आकाशं न पश्यति' इत्यत्र अस्मिन् प्रकरणे वा । तस्यैव= 'अलौकिकवियिताशून्यचाक्षुषप्रत्यक्षस्यैव । धात्वर्थत्वम्-दृशधात्वर्थत्वम् । 'घट आकाशं न पश्यति । इत्यत्रत्त्यधात्वर्थमुक्त्वा इतरपदार्थानाह- विषयितेति, विषयितासामान्यस्य द्वितीयार्थत्वे यत्र लौकिकविषयिता प्रत्यक्षे संभवेत्तत्र लौकिकविषयिताया अन्धयः, यत्र चालौकिकविषयिता संभवेत्तत्रालौकिकविषयिताया अन्वय इति लाभः । घटः पश्यति' इत्यादी प्रत्यक्षनिरूपितस्या. ऽऽश्रयत्वस्य घटेऽन्वयस्तादृशाश्रयत्वनिरूपकं चाधेयत्वमेव पदार्थान्तरनिष्ठं भवतीत्याऽऽश्रयत्वनिरूपकत्वं वृत्तित्वमेवेति प्राप्तम् । 'घट आकाशं न पश्यति' इत्यत्र च घटस्य स्वनिष्ठत्वसंबन्धेनाधे
"Aho Shrutgyanam"