________________
आकाशं न पश्यतीतिविचारः ] व्युत्पत्तिवादः ।
( २८७ )
चैत्रः इत्यादिवाक्यजन्यशाब्दबोधोत्पादोऽनुभवसिद्धस्तथैवोक्तभ्रम दशायाम् ' आकाशं न पश्यति घट: ' इत्यादिवाक्यजन्यबोधोत्पादोपीति न तत्रेष्टापत्तिः (अपि) संभवति ।
2
यच्चाऽलौकिकविषयिताशून्य चाक्षुषत्वाद्यवच्छेदेनाकाशादिविषयकत्व घटादिवृतित्वोभयाभाव एव 'आकाशं न पश्यति' इतिवाक्यात् प्रतीयते, उपनीताकाशादिविषयकचाक्षुषे आकाशादिविषयकत्वचैत्रादिवृत्तित्वोभयसत्त्वेन ! चैत्र आकाशं न पश्यति' इत्यादिप्रयोगानुपपत्तिः घटादौ तादृशचाक्षुषाद्याश्रयत्वभ्रमदशायाम् 'घट आकाशं न पश्यति इत्यादिवाक्याच्छाब्दबोधानुपपत्तिइतिवाक्ययोस्तज्जन्यशाब्दबोधयोश्च परस्परं विरोधाभावात् तथैवोक्तभ्रमदशायाम् = घटे आकाशातिरिक्तपदार्थविषयकचाक्षुषाश्रयत्वभ्रमदशायाम् ' आकाशं न पश्यति घटः १ इतिवाक्यजयशाब्दबोधोत्पत्तिरपि सर्वानुभवसिद्धास्ति - ' पदं पश्यति घटः ' ' आकाश न पश्यति घंटः इतिवाक्यजन्यबोधयोः परस्परं विरोधाभावादिति तत्र = ' आकाशं न पश्यति घटः ' इतिवाक्यजन्यशाब्दबोधानुपपत्ताविष्टापत्तिरपि न संभवतीत्यर्थः ।
'
,
<
नन्वऽलौकिकविषयिताशून्यचाक्षुषत्वाद्यवच्छेदेन=अलौकिक विषयिताशून्यं यच्चाक्षुषप्रत्यक्षं तस्मिन्नाssकाशविषयकत्वस्य घटवृत्तित्वस्य चाभाव एव ' आकाशं न पश्यति घट:' इति वाक्येन बोध्यते - अलौकिक विषयिताशून्य चाक्षुपप्रत्यक्षमाकाशविषय कमपि न भवति घटवृत्त्यपि न भत्रति - आकाशस्यालौकिकविषयिताशालिचाक्षुषप्रत्यक्षविषयत्वाभ्युपगमात् एवं चात्र पक्षे नञर्थस्य द्विधाभानाभावाद् नञर्थस्य द्विधाभानप्रयुक्तोक्तदोषापत्तिर्नास्तीतिप्रतिपादकमतमनुवदति - यच्चेति । अत्राभावद्वयस्य भानेष्यभावस्य द्विधा मानं तु नास्तीत्यवधार्यम् । चाक्षुषप्रत्यक्षेऽत्रालौकिक विषयिताशून्यत्वविशेषणप्रदानस्य फलमाह - उपनीतेति, यदि घट आकाशं न पश्यति' इत्यत्रालौकिकविषयिताशून्यत्वविशेषणं परित्यज्य प्रत्यक्षमात्रे आकाशविषयकत्वघटवृत्तित्वोभयाभावान्वयबोध उच्येत तदोपनीताकाशादिविषयकचाक्षुत्रे - ' तत्राकाशे पक्षी ' इत्याकारके चैत्रवृत्त्याकाशविषयका लौकिकचाक्षुपप्रत्यक्षे आकाशविषयकत्वस्य चैत्रवृत्तित्वस्य च सत्त्वेनाऽऽकाशविषयकत्व चैत्रवृत्तित्वोभयामावबोधकम् ' चैत्र आकाशं न पश्यति इतिवाक्यं नोपपद्येत, अलौकिक विषयिताशून्यत्वविशेषणसत्त्वे तूक्तोपनीताकाशादिविषयकचाक्षुपप्रत्यक्षस्याऽलौकि रुविषयिताशालित्वेन तस्मिन्नाऽऽकाशविषयकत्वाभावस्यासंभवेपि कविषयिताशून्यचाक्षुषप्रत्यक्षे . त्वाकाशविषयकत्व चैत्रवृत्तित्वो भयाभावस्यान्वयसंभवात् आकाशं न पश्यति' इति प्रयोगानुपपत्तिर्नास्ति, तथा ययऽलौकिकविषयिताशून्यत्वं विशेषणं नेस्यात्तदा यदा घडे तादृशचाक्षुषाद्याश्रयत्वभ्रमः = आकाशविषयका लौकिक ( उपनीत ) चाक्षुषप्रत्यक्षाश्रयत्वभ्रमो जातस्तदा घट आकाशं न पश्यति । इतिवाक्यजन्यस्याकाशविषयकत्वघटवृत्तित्वो भयाभावविशिष्टप्रत्यक्ष विषयकशाब्दबोधस्यानुपपत्तिः स्यात् - घंटे आकाशविष
अलौक
चैत्र
6
"Aho Shrutgyanam"