________________
(२८६)
.. सादर्शः- द्वितीयाकारकप्रथमखण्डेमावस्य तत्र बाधात् 'चैत्रो घटं न : पश्याति' इतिप्रयोगानुपपत्तेः, यदा च भावमात्रं पश्यति तदा भावानिरूपितलौकिकविषयिताशालिचाक्षुषाश्रयत्वाभाव: सत्वात् 'भावं न पश्यति चैत्रः' इत्यादिप्रयोगापत्तेश्च ।। . एवम् 'आकाशं न पश्यति घटः' इत्यादावाऽऽकाशाद्यनिरूपितलौकिकविषयिताशालिचाक्षुषाश्रयत्वाभावस्य वाक्यार्थत्वे यदाऽऽकाशाद्यतिरिक्तपदाथविषयकचाक्षुषाश्रयत्वभ्रमो घटादौ तदाऽऽकाशाद्यनिरूपितलौकिकविषयिताशा. लिचाक्षुषाश्रयत्वनिश्चयरूपप्रतिबन्धकसत्त्वेन ताशवाक्यजन्यशाब्दबोधानुप
पत्तिः । यथा ' चैत्रो वटं पश्यति ' इत्यादिनिश्चयदशायाम् ' पटं न पश्यति स्वाभाव एव चैत्रे बोधनीयस्तत्तु न संभवति-घटनिरूपितस्वाभाववलौकिकविषयिताशालिपटविषयकचाक्षुषप्रत्यक्षाश्रयत्वस्यैव चैत्रे सत्त्वादिति - चैत्रो घटं न पश्यति ' इति प्रयोगानुपपत्तिरित्यर्थः । नार्थस्य द्विधामाने दोषान्तरमाह-यदा चेति, नर्थस्य द्विधा भाने 'भावं न पश्यति चैत्रः' इत्यनेनापि भावानिरूपित भावनिरूपितत्वाभाववल्लौकिकविषयिताशालिचाक्षुषाश्रयत्वाभावांश्चैत्र इत्येव बोधः स्यादिति यदा चैत्रो भावमात्रं पश्यति तदा चैत्रे भावनिरूपितलौकिकविषयिताशालिचाक्षुपाश्रयत्वस्य सत्त्वेन भावानिरूपितलौकिकविषयिताशालिचाक्षुषाश्रयत्वस्याऽसत्त्वात् भावानिरूपितलौकिकविषयिताशालि चाक्षुषाश्रयत्वाभावबोधकस्य 'भावं न पश्यति चैत्रः । इति वाक्यस्य प्रयोगापत्तिः स्यादेव न चैतदिष्टम, तस्मादुक्तस्थले नर्थस्य द्विधाभानोपगमो न संभवतीति ‘घट भाकाशं न पश्यति ' इत्यत्र वाक्यार्थबोधानुपपत्तिस्तदेवस्थैवेत्यर्थः । ' नार्थस्य द्विधाभाने दोषान्तरमाह-एवमिति, यदि नार्थस्य द्विधा भानेन : घट आकाशं न पश्यति । इति वाक्येनाकाशनिरूपितस्वाभाववलौकिकवियिताशालिचाक्षुषाश्रयत्वाभाव एव बोध्यते तदा यदाऽऽकाशाद्यतिरिक्तपदार्थ ( पटादि ) विषयकचाक्षुषाश्रयत्वभ्रमो घटे जात स्तदाऽऽकाशानिरूपितलौकिकविषयिताशालि यदाऽऽकाशाद्यतिरिक्तपटादिपदार्थविषयकं चाक्षुअप्रत्यक्षं तदाश्रयत्वस्य घटे निश्चये जाते तादृशनिश्चयस्य चाकाशानिरूपितलौकिकवियिताशालिचाक्षुषाश्रयत्वाभावबोध प्रति प्रतिबन्धकत्वेन तादृशवाक्यजन्य:='घट आकाशं न पश्यति' इतिवाक्यजन्य आकाशानिरूपितलौकिकविषयिताशालिचाक्षुषाश्रयत्वाभावविषयकः शाब्दबोचो नोपपद्यतेति घटे आकाशाद्यतिरिक्तपदार्थविषयकचाक्षुषाश्रयत्वभ्रमदशायाम् (काले ) · घट आकाशं न पश्यति । इतिप्रयोग इष्टोपि नोपपद्यतेत्यर्थः । ननूक्तभ्रमकाले उक्तप्रयोगस्तजज्यबोधश्च नोपपद्यतां को दोष इत्याशङ्क्याह-यथेति, यथा ' चैत्रो घटं पश्यति । इतिवाक्य. जन्यशाब्दबोधविषयस्य चैत्रवृत्तिघटविषयकप्रत्यक्षस्य निश्चयदशायाम् ‘पटं न पश्यति चैत्रः । इतिवाक्यजन्यशाब्दबोधोत्पत्तिः सर्वानुभवसिद्धा-' चैत्रो घटं पश्यति , 'चैत्रः पटं न पश्यति'
"Aho Shrutgyanam"