________________
आकाशं न पश्यतीतिविचारः ] व्युत्पत्तिवादः ।
यत्तु नञर्थस्य द्विधा भानोपगमेनाऽऽकाशादिनिरूपितत्वाभाववल्लौकिकविषविताशालिचाक्षुषाश्रयत्वाभाववान् घट इत्याकारकस्तत्रान्वयबोध इति, तदपि न-तथा सति 'चैत्रो घटं न पश्यति चैत्र आकाशं न पश्यति' इत्यादिवाक्यजन्यशाब्दबोधादविलक्षणबोधस्य सर्वानुभवसिद्धस्य तादृशवाक्यादनुपपत्तेः, न हि तत्रापि तादृश एव शाब्दबोधः, तथा सति चैत्रो यदा घटादिकं न पश्यत्यपितु पटादिकमेव तदा घटाद्यनिरूपितलौकिकविषयिताशालिचाक्षुषाश्रयत्वावाकयेन किंचिलौकिक विषयितायामाकाशनिरूपितत्वबोधने विरोधाभावेन प्रतिबध्यप्रतिबन्धकभावाभावात् ' आकाशं पश्यति चैत्रः । इतिवाक्यजन्यबोधदशायामपि ' आकाशं न पश्यति चैत्र: ' इतिवाक्यजन्यबोधप्रसङ्गरूपो दोषस्तदवस्थ एवेत्यर्थः । ' आकाशं न पश्यति चैत्रः " इतिवाक्यजन्यबोधस्य कथंचित्समर्थन संभवेपि दुरुद्ररं दोषान्तरमाह-घट इति, नितरामेवागतिरिति-घटे लौकिकविषयिताशालिप्रत्यक्षाश्रयत्वमेव न संभवति जडत्वादिति तादृशप्रत्यक्षाश्रयत्वाभावो नितरामेवासंभवीत्यर्थः । आकाश निरूपित लौकिक विषयिताशालिप्रत्यक्षाश्रयत्वमप्यन्यत्रः प्रसिद्धं नास्ति येन घटे तदभावबोधनमुपपद्येतेत्यर्थः ।
"
(२८५)
"Aho Shrutgyanam"
...
ननु वट आकाश न पश्यति ' इत्यत्र नञर्थस्याभावस्य द्विधा मानं वक्ष्यामस्तत्रैकस्याका• शनिरूपितत्वेन सहान्वयो द्वितीयस्य चाक्षुषाश्रयत्वेनान्वयस्तथा चाकाशनिरूपितत्वाभाववल्लीकिकविषयिताशालिचाक्षुषाश्रयत्वाभाववान् घट इति वाक्यार्थबोध: संपन्नस्तत्राऽऽकाश निरूपितत्वाभाववती या लौकिकविषयिता तादृशविषयिताशालि चाक्षुषप्रत्यक्षाश्रयत्वम् ' घढं पश्यति चैत्र: ' इत्यादौ चैत्रादौ प्रसिद्धमेव तस्यात्र घटेऽभावो बोध्यते इति न काचिदनुपपत्तिरित्याशङ्कते - यत्तु इति । परिहरति-तदपि नेति, तथा सति उक्तस्थले नञर्थस्य द्विधा मानोपगमें सति, यथा चैत्रो घटं न पश्यति ' चैत्र आकाश न पश्यति' इत्यादी नत्रर्थस्यैकदैव मानोपगमेन घटनिरूपितलौकिक विषयिताशालिचाक्षुषाश्रयत्वाभावविषयक आकाश निरूपितलौकिकविषयिताशालिचाक्षुषाश्रयत्वाभावविषयकश्च बोधो भवति तादृश एव तादृशवाक्यात् = ' घट आकाशं न पश्यति' इतिवाक्याद् नञर्थस्यैकदैव मानपूर्वक आकाशनिरूपित लौकिक विषयिताशालिचाक्षुषाश्रयत्वाभावविषयको बोधः सर्वानुभवसिद्धोस्ति तन्नोपपद्येत त्वया नञर्थमानस्य द्विधा स्वीकृतत्वादित्यर्थः । तत्रापि = ' चैत्रो घटं न पश्यति ' इत्यादिस्थले तु तादृशः= नञर्थस्य द्विधामानपूर्वकः शाब्दबोधो नैव भवति येनोक्तशाब्दबोधानां नञर्थस्य द्विधामानेन साम्यं स्यादित्याह-न हीति । विपक्षे बाधकमाह - तथा सतीति, यदि 'चैत्रो घटं न पश्यति इत्यत्र नञर्थस्य द्विधा मानं स्यात् तदा यदा चैत्रो घटं न पश्यति पटं च पश्यति तदा घटायनिरूपित=घटनिरूपितत्वाभाववलौकिकविषयिताशालि यत् पटविषयकचाक्षुषं तदाश्रयवस्यैव तत्र चैत्रे सत्त्वेन तदभावस्यासंभवात् ' चैत्रो घटं न पश्यति' इतिप्रयोगो नोपप द्येत - एतद्वाक्येन नञर्थस्य द्विधा माने घटनिरूपितत्वाभाववलौकिकविषयिताशालि चाक्षुषाश्रय