________________
(२८४)
सादर्श:- [ द्वितीयाकारकप्रथमखण्डेबोधे चैत्रांशे दर्शनाश्रयत्वं विशेषणं दर्शनांशे लौकिकविषयिता विशेषणमिविरीत्यैव पदार्थानां भानात् , चैत्रीयचाक्षुषादिनिष्ठविषयितात्वं नाकाशादिधर्मितावच्छेदकं किं तु शुद्धलौकिकविषयितात्वमेवेति तस्य शुद्धलौकिकविषयितात्वावच्छेदेनाकाशाद्यभावावगाहिज्ञानं प्रत्येव प्रतिबन्धकतया निरुक्तधविच्छेदेनाकाशाद्यभावावगाहिज्ञानस्य तदप्रतिबध्यत्वाच्च ।
एतेन तत्राकाशादिपदस्याऽकाशादिनिरूपितत्वार्थकतां स्वीकृत्य लौकिकविपयितायामाश्रयतासंबन्धावच्छिन्नप्रतियोगिताकतदभावोपगमेनापि न निस्तारः । “घट आकाशं न पश्यति ' इत्यादौ नितरामेवाऽगतिः।। काशं न पश्यति चैत्रः । इतिवाक्येन चैत्रीयचाक्षुषादिनिष्टलौकिकविषयितायामेवाकाशामावान्वयबोधमभ्युपगम्यापि प्रतिबन्ध्यप्रतिबन्धकभावाऽभावमुपपादयति-- चैत्र इत्यादिना, “चत्र आकाशे पश्यति' इत्यत्राऽऽकाशनिरूपितलौकिकविषयिताविशिष्टदर्शनाश्रयत्ववाश्चैत्र इति बोधस्तथा चात्र लौकिकविषयिता एवाकाशनिरूपितास्तीति लौकिकविषयितायामेव मासमानायां निरूपितत्वसंबन्धेनाकाशं विशेषणमस्तोत्याकाशादिधर्मितावच्छेदकम् = आकाशस्य धर्मितावच्छेदकं शुद्धम्=चत्रीयादिचाक्षुषादिनिष्ठत्वविशेषगरहितमेव लौकिकविषयितात्वम् (धर्मितावच्छेदकम् ) अस्ति न तु चैत्रीयचाक्षुषादिनिष्ठलौकिकविषयितात्वं तथा च तस्य= आकाशं पश्यति चैत्रः' इतिवाक्यजन्यबोधस्य शुद्धलौकिकविषयितायामेवाऽऽकाशाभावावगाहिज्ञानं प्रति प्रतिबन्ध कत्वं संभवति-समानविषयकत्वात् न तु चैत्रीयचाक्षुषादिनिष्ठलौकिकविषतायामाकाशाभावावगाहिज्ञानं प्रत्यपि- भिन्न विषयत्वादिति तत्-तेन='आकाशं पश्यति चैत्रः' इतिवाक्यजन्यबोधेन निरुक्तधर्मावच्छेदेन चैत्रीयचाक्षुषादिनिष्ठलौकिकविषयितात्वावच्छेदेनाकाशामावावगाहिज्ञानस्या-.. ऽप्रतिबध्यत्वात् ' आकाशं पश्यति चैत्र: ' इतिवाक्यजन्यबोधदशायाम् ' आकाशं न पश्यति. चैत्रः' इतिवाक्यजन्यबोधः प्रसज्येतेवेत्यर्थः ।
उक्तदोषं प्रकारान्तरेण समर्थनेप्यतिदिशति- एतेनेति, यदि तत्र='आकाशं न पश्यति चैत्रः' इत्यत्राकाशपदस्थाकाशनिरूपितत्वमर्थ इति स्वीकृष्य लौकिकविषयितायामाश्रयतासंबन्धेन तदमाव: आकाशनिरूपितत्वाभावः प्रतीयते इत्युच्येत तदापि न निस्तार:-यत एवमप्युक्तरीत्या लौ. किकविषयितात्वसामानाधिकरण्यमात्रेणैवाऽऽश्रयतासंबन्धेनाऽऽकाशनिरूपितत्वाभावान्वयो वक्तव्यो न तु लौकिकविषयितात्यावच्छेदेन तथा सति 'चैत्र आकाशं न पश्यति ' इतिवाक्यजन्यबोधदशायां लौकिकविषयितात्वावच्छेदेनाकाशनिरूपितत्वाभावान्वयबोधे प्रतिबन्धकरूपे जाते लौकिकविषयितायामाकाशनिरूपितत्वावगाही 'मैत्र आकाशं पश्यति । इतिवाक्यजन्यबोधोपि नोपपद्येत तस्मात् 'चैत्र भाकाशं न पश्यति । इत्यत्र लौकिकवियितात्वसामानाधिकरण्येनेवाश्रयतासंबन्धेनाकाशनिरूपितत्वाभावस्यान्वयबोधो घाच्य इति ' चैत्र आकाशं न पश्यति ' इत्यनेन किंचिल्लौकिकविषयितायामाकाशनिरूपितत्वाभावान्वयबोधनेपि 'चैत्र आकाशं पश्यति' इति
"Aho Shrutgyanam"