________________
आकाशं न पश्यतीतिविचारः] व्युत्पत्तिवादः ।
(२८३) नं च चैत्रीयचाक्षुषादिनिष्ठलौकिकविषयितात्वावच्छेदेनैव तादृशाभावो दर्शितवाक्येन प्रत्याय्यते इति चैत्रीयचाक्षुषादिनिष्ठलौकिकविषयितायामाऽऽकाशीयत्वाद्यवगाही 'चैत्र आकाशं पश्यति' इतिवाक्यजन्यबोधः प्रतिवध्नात्येव तादृशवाक्यजन्यधियमिति वाच्यम् , तादृशविषयितात्वेन विषयिताया अनुपस्थितेस्त. दवच्छेदेनाभावप्रत्यायनाऽसंभवात् । 'चैत्र आकाशं पश्यति' इतिवाक्यजन्यकिंचिल्लौकिकविषयितायामेवाऽऽकाशनिरूपितत्वावगाहि यद् दर्शितयोग्यताज्ञानम्= आकाशं पश्यति मैत्रः" आकाशं पश्यति चैत्रः । इत्याकारकभावान्वयबोधकवाक्यजन्यं योग्यताज्ञानं ताह. शयोग्यताज्ञानेनाऽप्रतिबध्य एव अर्थात् समानविषयकयोरेव प्रतिबध्यप्रतिबन्धकभावो भवति अत्र च ' आकाशं पश्यति चैत्रः । इत्यनेन कस्यांचिल्लौकिकविषयितायामाकाशनिरूपितत्वं प्रतिपाद्यते' आकाशं न पश्यति चैत्रः' इत्यनेनापि कस्यांचिल्लौकिकविषयितायामाकाशाभावान्वयः प्रतिपाद्यते इति समानविषयकत्वाभावान्न प्रतिबध्यप्रतिबन्धकमावस्तथा च “आकाशं पश्यति चैत्रः । इत्याकारकवाक्यजन्यबोधदशायामपि 'आकाशं न पश्यति चैत्रः' इत्याकारकवाक्यजन्यबोधप्रसङ्गो दुर्वार एवेत्यर्थः । 'आकाशं पश्यति ' इत्यत्र प्रत्यक्षनिष्ठा विषयिताऽऽकाशनिरूपितेत्युक्तम्- “आकाशादिनिरूपितत्वावगाहि" इति । यदि "आकाशादिनिरूपितत्वा. भावावगाही" इत्येवमत्र प्रथमान्तपाठस्तदासौ "तादृशबोधः" इत्यस्य विशेषणमिति विज्ञेयम् ।
ननु यद्यपि 'आकाशं न पश्यति चैत्रः' इतिवाक्येन लौकिकविषयितात्वाबच्छेदेनाकाशाभावो, न प्रत्याय्यते तथापि दाशतवाक्येन चत्रीयचाक्षुषप्रत्यक्षनिष्टलौकिकवियितात्वावच्छेदेन तु तादृशाभाव: निरूपितत्वसंबन्धावच्छिन्नप्रतियोगिताकाऽऽकाशाभावः प्रत्याय्यते इति चत्रीयचाक्षुषादिनिष्टलौकिकविषयितायामाकाशनिरूपितत्वावगाही 'आकाशं पश्यति चैत्रः ' इतिवाक्यजन्यबोधः तादृशवाक्यजन्यधियम्= 'आकाशं न पश्यति चैत्रः ' इतिवाक्यजन्यं निरूपितत्व. संबन्धावच्छिन्न प्रतियोगिताकचैत्रीयप्रत्यक्षनिष्ठलौकिकविषयितानुयोगिकाकाशाभाधान्वयबोधं प्रति. बनात्येव- समान विषयकत्वात् तथा च 'आकाशे पश्यति चैत्रः ' इतिवाक्यजन्यबोधदशायाम् 'आकाशं न पश्यति चैत्रः' इतिवाक्यजन्यबोधस्यापत्तिर्नास्त्येवेत्याशझ्याह- न चेति । परिहारमाह- तादृशेति,अत्र लौकिकविषयितायाश्चैत्रीयचाक्षुषादिनिष्टलौकिकविषयितात्वेन रूपेणोपस्थि. तिरेव नास्ति येन तदवच्छेदेन चैत्रीयचाक्षुषादिनिष्टलौकिकविषयितात्वावच्छेदेनाकाशाभावप्रत्यायनं संभवेत् तथा चात्र लौकिकविषयितात्वसामानाधिकरण्येनैवाकाशाभावान्वयबोधो वक्तव्यः अन्यथा 'आकाशं पश्यति मैत्रः' इतिवाक्यजन्यबोधदशायामपि 'आकाशं न पश्यति चैत्रः' इतिवा. क्यजन्यबोधो नोपपद्येत, यदा च लौकिकवियितात्वसामानाधिकरण्येनेवाकाशाभावप्रतिपादनं प्राप्त तदा समान विषयकत्वाभावेनोक्तरीत्या प्रतिबन्ध्यप्रतिबन्धकामावस्थाऽभावात् ' आकाशं पश्यति चैत्रः' इतिवाक्यजन्यबोधदशायामपि 'आकाशं न पश्यति चैत्रः ' इतिवाक्यजन्यबोधप्रसङ्गः स्यादेवेति न लौकिकविषयितायां निरूपितत्वसंबन्धेनाकाशाभावान्वयः संभवतीत्यर्थः । ' आ
"Aho Shrutgyanam"