________________
सादर्श:
८
( २८२ )
[ द्वितीयाकारकप्रथमखण्डे -
अस्तु वा वृत्त्यनियाम कोपि संबन्धोऽभावप्रतियोगितावच्छेदकस्तथापि निरूपि तत्वसंबन्धावच्छिन्नप्रतियोगिताकस्य विषयिताविशेषनिष्ठाकाशाद्यभावस्य भानोपगमो न संभवति तथा सति 'आकाशं पश्यति चैत्रः' इत्याकारकवाक्यजन्यबोधदशायाम् 'आकाशं न पश्यति चैत्रः' इत्यादिवाक्याच्छाब्दबोधप्रसङ्गात् । 'आकाशं पश्यति मैत्रः' इत्यादिभ्रमदशायाम् 'आकाशं न पश्यति चैत्रः' इत्यादिवाक्याच्छाब्दबोधस्य दुरपन्हवतथा लौकिकविषयितात्वसामानाधिकरण्येनैव ताशाभाव बोधकं तद्वाक्यमुपगन्तव्यम्, तादृशबोधश्च लौकिक विषयितात्व सामानाधिकरण्यमात्रेणैवाऽऽकाशादिनिरूपितत्वावगाहिदर्शितयोग्यताज्ञानाऽप्रतिबध्य एक भावान्वयौ तुल्ययोगक्षेमौ ” इतिनियमादित्यर्थः । अत्र च ' भावान्वयबोधे लौकिकविषयिता - याश्चाक्षुषादिप्रकारत्वेन भान्नाभावान्वयबोधे तस्याः ( लौकिकविषयितायाः ) चाक्षुषादिविशेपत्वेन किंवा चाक्षुषादेर्लोौकिक विषयिताप्रकारत्वेन भानं युक्तम् ' इत्येवं पाठो युक्तः ।
८
L
*
7
वृत्त्यनियामकस्यापि निरूपितत्वादिसंबन्धस्याभावीयप्रतियोगितावच्छेदकत्वमभ्युपगम्य दोषमाह - अस्तु वेति, विषयिताविशेषः = लौकिकविषयिता, "न च लौकिक विषयितायाम् (२८१५० ) " इत्याद्युक्तं नोपपद्यते इत्यर्थः । उक्तमुपपादयति - तथा सतीति, तथा सति = यदि आकाश न पश्यति' इत्यत्र लौकिकविपयिताय निरूपितत्व संबन्धेनाऽऽकाशाभावस्य भानं स्यात्तदा * आकाशं पश्यति चैत्र: ' इत्याकारकवाक्यजन्यबोधदशायामपि ' आकाश न पश्यति चैत्रः इत्याकारक वाक्यादुक्ताभावविषयकः शाब्दबोधः प्रसज्येतैव = ' आकाशं पश्यति चैत्रः ' आन काशं न पश्यति चैत्र: ' इत्येतद्वाक्यद्वयजन्ययोः शाब्दबोधयोः परस्परमिष्टः प्रतिबध्यप्रतित्रन्धकभावो नोपपद्येतेत्यर्थः । प्रतिबध्यप्रतिबन्धकमावानुपपत्तिमुपपादयति- ' आकाश पश्यति मैत्र: इत्यादिना, आकाशं पश्यति मैत्रः' इत्याकारकभ्रमदशायामपि आकाश न पश्यति चैत्रः इत्याकारकवाक्यान्निरूपितत्व संबन्धावच्छिन्नप्रतियोगिताकलौकिक विषयितानिष्ठोक्ताकाशाभावविषयकशाब्दबोधोत्पत्तौ किमपि प्रतिबन्धकं नास्तीति तादृशशाब्दबोधस्य दु पन्हवतया लौकिकविषयितात्वसामानाधिकरण्येनैव = कस्यांचिल्लौकिक विषयितायामेव तादृशा. भावबोधकम् = निरूपितत्वसंबन्धेनाकाशाभावबोधकं तद्वाक्यम् = ' आकाशं न पश्यति चैत्रः इतिवाक्यमुपगन्तव्यम् = चैत्रीय प्रत्यक्षमात्रनिष्ठलौकिक विषयितायामेव निरूपितत्व संबन्धेनाकाशाभावान्यथबोधकत्वात्. मैत्रीयप्रत्यक्षनिष्ठलौकिक विषयितायां निरूपितत्व संबन्धेनाकाशाभावान्वया-' ऽसंमवात्- मैत्रस्याकाशकर्मकप्रत्यक्षस्यैव भ्रमेण प्रतिपन्नत्वादिति न लौकिक विषयितात्वावच्छेदेन निरूपितत्व संबन्धावच्छिन्नप्रतियोगिताकाऽऽकाशामाचान्वयबोधः संभवतीत्यर्थः । आकाश न पश्यति चैत्रः ' इत्याकारकवाक्यजन्यबोधस्योक्तदुरपन्हवत्वं हेतुमाह- तादृशबोधश्चेति, तादृशबोधः = ' आकाशं न पश्यति चैत्र: ' इत्याकारकवाक्यजन्यो निरूपितत्वसंबन्धावच्छिन्नप्रतियोगिताकलौकिक विषयितानिष्ठाकाशाभावान्वयबोधश्व लौकिकविपयितात्वसामानाधिकरण्यमात्रेण=
८
" Aho Shrutgyanam"