________________
आकाश न पश्यतीतिविचारः ] व्युत्पत्तिवादः ।
( २८१ )
न च लौकिकविषयितायां निरूपितत्वसंबन्धावच्छिन्न प्रतियोगिताकाऽऽकाशाभावः प्रतीयते इति वाच्यम्, वृत्त्यनियामकसंबन्धस्य संसर्गाभावप्रतियोगितानवच्छेदकतया तादृशाभावस्याप्रसिद्धेः । एतेन निरूपकतासंबन्धेन चाक्षुषादिविष्ठलौकिकविषयिताया अभावस्तत्राकाशादौ प्रतीयते इत्यपि निरस्तम् | अन्वयबोधस्य प्रथमान्तार्थमुख्यविशेष्यकतायाः सर्वानुभवसिद्धाया भङ्गप्रसङ्गाच, चाक्षुपादिनिष्ठ लौकिकविषयितात्वावच्छिन्नस्य पदाद्वाक्याच्चानुपस्थितत्वेन तद्राभास्याकाशादौ भानासंभवाच्च । भावान्वयबोधे च लौकिक विषयिताप्रकारेण चाक्षुषादेर्भानान्नाभावान्वयबोधे चाक्षुषप्रकारेण तस्या भानम् । निरूपितलौकिक विषयितैव कचित्प्रत्यक्षे प्रसिद्धा नास्ति यस्याश्चाक्षुषप्रत्यक्षेऽभावबोधनेन वाक्याबोध उपपद्यतेत्यर्थः ।
ननु घटादिप्रत्यक्ष स्थळे लौकिक विषयितापि प्रसिद्धास्त्याकाशमपि प्रसिद्धमेवेति 'आकाश न पश्यति । इत्यंत्र लौकिक विषयितायां निरूपितत्वसंबन्धेनाकाशाभावः प्रतीयते इति वक्ष्याम इति न वाक्यार्थबोधानुपपत्तिरित्याशङ्क्याद - न चेति । परिहारमाह- वृत्त्यनियामकेति निरूपितत्वस्य वृत्त्यनियामकत्वात् संसर्गाभावीयप्रतियोगितावच्छेदकत्वमेव न संभवति येन निरूपितत्व संबन्धेन लौकिक विषयितायामाकाशाभावप्रतीतिः स्यादित्यर्थः । एवमेव निरूपकवसंबन्धस्यापि वृत्त्यनियामकतया निरूपकत्व संबन्धेन चाक्षुषप्रत्यक्षनिष्ठलौकिक विषयिताया अव्याकाशादावभावस्तत्र = ' आकाशं न पश्यति' इत्यादौ प्रतीयते इत्यपि वक्तुं न शक्यते इत्यभिप्रायेणाह - एतेनेति । दोषान्तरमाह - अन्वयबोधस्येति, सर्वत्र प्रथमान्तार्थमुख्यविशेष्यक एम बोधो भवतीति नियमः अत्र यदि लौकिक विषयितायामाकाशाभावस्थाखयः स्यात्तदा लौकिकविषयिताविशेष्यक एव ब्रोधः स्यात् न च लौकिक विषयिता प्रथमान्तपदार्थः, एवमेव यद्यत्राकाशे चाक्षुषलौकिकविषयित्वाभावस्यान्वयः स्यात्तदाऽऽकाशविशेष्यक एवं बोधः स्याद् न.चाकाशः प्रथमान्तपदार्थ इत्यर्थः । दोषान्तरमाह- चाक्षुषति, ' आकाशं न पश्यति । इत्यत्र लौकिक विषयित्वमात्रं द्वितीयार्थः प्रत्यक्षमात्रं च धात्वर्थ इति चाक्षुषप्रत्यक्षनिष्ठलौक्तिकविषवितायास्तु केनापि पदेन वाक्येन वोपस्थितिरेव नास्ति येनाssकाशे चाक्षुषादिनिष्ठलौकिकविषयिताया अभावस्य मानं स्यात् - उपस्थितस्यैवाभावभानसंभवादित्यर्थः | दोषान्तरमाहभावान्वयेति, ' आकाशं पश्यति' इत्यत्राकाशनिरूपित लौकिक विषयिताशालिप्रत्यक्षाश्रयश्चैत्र इति भावान्वयबोधे लौकिक विषयिताप्रकारेण चाक्षुषादेर्मानात्=चाक्षुषप्रत्यक्षे लौकिकविषयिता प्रकारतया या भासते तस्या अभावान्वयबोधेपि चाक्षुषप्रत्यक्षप्रकारत्वेनैव भानं युक्तं न तु प्रत्यक्षविशेष्यतयेति ' आकाशं न पश्यति' इत्यत्रोक्तरीत्या चाक्षुषप्रत्यक्षनिष्ठलौकिकविषयिताभाबवानाकाश इत्याकारकाऽभावान्वयबोधे न चाक्षुषकारेण तस्या मानम् = तस्था लौकिकविषयिताया विशेष्यतया चाक्षुषप्रत्यक्षस्य च प्रकारतया मानं न संभवति - " प्रतियोग्य
"Aho Shrutgyanam"
.