________________
( २८० )
सादर्श:
[ द्वितीयाकारकप्रथमखण्डे - समभिव्याहारस्थले च प्रत्यक्षविशेष्यतयाऽन्वय इति न कश्चिद् दोषः । जिघ्रत्यर्थगन्धविषयितानिरूपकत्वमेव पुष्पादिनिष्ठं जिघ्रतिकर्मत्वमिति दिकू ।
अथ दृश्यादिसमभिव्याहत द्वितीयाया लौकिकविषयितार्थकत्वे 'सौरभं न पश्यति इत्यादौ सौरभादिनिरूपित लौकिकविषयिताशालिचाक्षुषाद्यप्रसिद्धया आकाशं न पश्यति' इत्यादौ चाऽऽकाशादिनिरूपित्तलौकिक विषयिताया एवाप्रसिद्ध्या तादृशविषयिताशालिचाक्षुषाश्रयत्वाद्यभावरूपवाक्यार्थाऽप्रसिद्धिः । न च ' सौरभं न पश्यति' इत्यादी सौरभादिनिरूपितलौकिकविषयित्वाभावचक्षुषादौ प्रतीयते इति वाच्यम्, एवमप्याकाश। दिनिरूपित लौकिकविषयित्वाsप्रसिद्ध्या ' आकाश न पश्यति ' इत्यादावप्रतीकारात् ।
4
"
रूपित विषयितायाः प्रत्यक्षविशेष्यत्वं भवति - प्रत्यक्षनिष्ठगन्धनिरूपितविषयितानिरूपित विषयताश्रयः पुष्पमितिबोधात् उत्तरोत्तरस्य विशेष्यत्वात् । तथा च गन्धादौ धातोः खण्डशक्तिस्वीकारेण धातुना गन्धनिरूपितविषयितायाः प्रत्यक्ष विशेषणत्वेनोपस्थितिरेव न भवति येन प्रत्यक्षविशेषणीभूतविषयिताया उक्तरीत्या निरूपितत्व संबन्धेनाख्यातार्थप्रकारत्वेऽन्वये विरोधः स्यात् किं तु विषयिताया धातुना स्वातन्त्र्येणैवोपस्थितिरिति तस्या आख्यातार्थेऽन्वये न कोपि विरोध इत्यर्थः । पुष्पनिष्ठ जिघ्रतिकर्मत्वस्य स्वरूपमाह- जिघ्रतीति, प्रत्यक्षकर्मभूतपुष्पादिपदार्थे प्रत्यक्षनिष्ठ विषयितानिरूपकत्वं यदस्ति तदेव जिघ्रतिकर्मत्वमस्ति, जिघ्रत्यर्थभूता या गन्धनिरू. पितप्रत्यक्षनिष्ठविषयिता तन्निरूपकत्वमित्यर्थः । एवमेवान्यत्रापि कर्मत्वस्वरूपमूह्यम् ।
66
C
ननु यदि (२७३ पृ० . ) चाक्षुषत्वाद्यवच्छिन्नवाचकदृश्यादि ” इत्युक्तप्रकारेण घट पश्पति' इत्यादौ दृश्यादिधातुसमभिव्याहृत द्वितीयाया लौकिकविषयित्वमर्थस्तदा सौरभस्य घ्राणप्रत्यक्षविषयत्वेन चाक्षुषप्रत्यक्षविषयत्वाभावात् सौरमनिरूपिता या लौकिक विषयिता तद्विशिष्टचाक्षुपप्रत्यक्षमेव प्रसिद्धं नास्तीति 'सौरभं न पश्यति चैत्र:' इत्यत्र चैत्रे सौरमनिरूपितलौकिकविचयिताशालिचाक्षुषप्रत्यक्षाश्रयत्वाभावस्याप्यऽप्रसिद्धत्वाद् बोधनं न संभवतीत्यनुपपत्तिः तथाऽऽ - काशस्य तु केनापीन्द्रियेण लौकिकप्रत्यक्ष न भवतीत्याऽऽकाशनिरूपितलौकिक विषयितैव क्वचिदपि प्रत्यक्षे नास्तीत्याकाशनिरूपित लौकिकविषयिताया. एवाप्रसिद्धत्वात् 'आकाशं न पश्यति चैत्रः ' इत्यत्राप्याकाशनिरूपितलौकिक विषयिताशालिचाक्षुषप्रत्यक्षाश्रयत्वाभावस्याप्रसिद्धया चैत्रे बोधनं न संभवतीत्यनुपपत्तिरित्याशङ्कते - भधेति । ननु सौरभस्य प्राणजप्रत्यक्षविषयत्वात् सौरमनिरूपितलौकिक विषविता या घ्राणजप्रत्यक्षे प्रसिद्धास्ति तस्या एव ' सौरभं न पश्यति इत्यत्र चाक्षुषप्रत्यक्षेऽभावः प्रतीयते इति वक्ष्याम इति न वाक्यार्थबोधानुपपत्तिरित्याशङ्क्याह- न चेति । परिहारमाह - एवमपीति, एवंरीत्या ' सौरभं न पश्यति ' इत्यत्र वाक्यार्थबोधोपपादनेपि आकाशं न पश्यति' इत्यत्र तु वाक्यार्थबोधोपपादनं नैव संभवति- उक्तरीत्याऽऽकाश
L
"Aho Shrutgyanam"