________________
जितेः कर्मणि प्रयोग: ]
व्युत्पत्तिवादः ।
( २७९ )
' पुष्पमाघ्रायते ' इत्यादौ च निरुक्तप्रकारत्वमाख्यातार्थः, आश्रयतासंबन्धेन पुष्पाद्यन्विते तस्मिन् धात्वर्थप्रत्यक्षस्य निरूपितत्व संबन्धेन तद्विशेषणतापन्नगन्धविषयितायाश्च निरूपितत्वसंबन्धेनान्वयः । एकधर्मिविशेषणतयोपस्थितस्थ स्वातन्त्र्येणान्यविशेषणतयाऽन्वय बुद्धेरे वाऽव्युत्पन्नत्वात्, अत्र च प्रत्यक्षप/रतन्त्र्येणैव गन्धविषयिताया आख्यातार्थेऽन्वयेन व्युत्पत्तिविरोधविरहात् ।
अस्तु वा गन्धो लौकिकविषयिता प्रत्यक्षं च विशकलितमेव धातोरर्थः । कर्त्राख्यातादिसमभिव्याहारे गन्धविषयितायाः प्रत्यक्षविशेषणतया कर्माख्यातसाक्षात्संबन्धेनैव पुष्पवृत्तित्वमस्तीत्याशङ्कते - यत्त्विति । परिहरति-तदसदिति, तथा सति== यदि “ तदाननम् ” इत्यत्र मृत्तिकाद्वारा गन्धस्य मुखवृत्तित्वमाश्रित्य तादृशपारम्परिक वृत्तिवस्य च द्वितीयार्थत्वमाश्रित्यानुपपत्तिः परिहृयते तदा गन्धस्य कालिकसंबन्धेन कालेपि वर्तमानत्वेन तादृशकालिकवृत्तित्वस्य द्वितीयार्थत्वाश्रयणेन : कालं जिप्रति । इत्यपि प्रयोगापत्तिः स्यादेव न चैतदिष्टमिति समवायावच्छिन्नमेवाधेयत्वं द्वितीयार्थी वक्तव्यस्तथा च गन्धस्य समवायेन कालवृत्तित्वाभावान्न ' कालं जिघ्रति ' इति प्रयोगापत्तिः । तदाननम् " इत्यादिस्थलीयान्वयबोधविचारस्त्वनुपदमेव कृतः
66
कर्माख्यातप्रयोगमुदाहरति पुष्पमिति, 'पुष्पमात्रायते ' इत्यत्र निरुक्तम्==गन्धविषयितानिरूपकं प्रकारत्वम् = विषयत्वं कर्माख्यातार्थः, तस्य प्रकारत्वस्याश्रयत्वसंबन्धेन पुष्पेऽन्वयात् आश्रयता संबन्धेन पुष्पादावऽन्त्रिते तस्मिन् = भाख्यातार्थप्रकारत्वे धात्वर्थप्रत्यक्षस्य निरूपितत्वसंबन्धेनान्वयः-प्रकारत्वस्य प्रत्यक्षनिरूपितत्वात् तथा धात्वर्थप्रत्यक्षविशेषणीभूतगन्धविषयिताया अपि तादृशप्रकारत्वे एव निरूपितत्वसंबन्धेनान्त्रय इति प्रत्यक्षादिनिरूपितप्रकारता ( विषयता ) श्रयः पुष्पमिति शाब्दबोधः । ननु गन्धविषयिता हि गन्धनिरूपिता प्रत्यक्षनिष्ठा विषयितैव सा च प्रत्यक्षे विशेषणमस्तीति प्रत्यक्षविशेषणत्वेनोपस्थिताया विषयिताया निरूपितत्व संबन्धेनाख्यातार्थप्रकारत्वे कथमन्वयः स्यात् – “ एकत्र विशेषणत्वेनोपस्थितस्यान्यत्र विशेषणत्वासंभवात् ” इति नियमादित्याशङ्क्याह- एकेति एकत्र विशेषणत्वेनोपस्थितस्य स्वातन्त्र्येणान्यविशेषणत्वं न भवतीति पारतन्त्र्येणान्यविशेषणत्वे न कोपि दोषः ' धनी सुखी इतिवत् उक्तस्थले च प्रत्यक्षद्वारैव गन्धनिरूपित विषयिताया आख्यातार्थेऽन्वयोस्ति न स्वातन्त्र्येणेति न कोपि दोष इत्यर्थः ।
धर्मिपारतन्त्र्येणाप्येकत्र विशेषणस्यान्य विशेषणत्वास्वीकारे पक्षान्तरमाह - अस्तु वेति, पूर्व प्राधातोर्विशिष्टे गन्धनिरूपितलौकिकविषयिताशालिप्रत्यक्षे शक्तिरुक्ता, इदानीं पदार्थत्रये खण्डशः शक्तिरुच्यते इत्यर्थः । एवं च ' पुष्पं जिघ्रति' इत्यादिकर्नाख्यातस्थले गन्धनिरूपितविषयितायाः प्रत्यक्षविशेषणत्वं भवति - पुष्पवृत्तिगन्धनिरूपित विषयिताश्रयप्रत्यक्षवांश्चेत्र इतिबोधात् पूर्वपूर्वस्य विशेषणत्वादिति न कश्चिद् दोषः । 'पुष्पमाघ्रायते' इत्यादिकर्माख्यातस्थले च गन्धनि
•
"
"Aho Shrutgyanam"