________________
(२७८)
सादर्श:- [द्वितीयाकारकप्रथमखण्डेरतानिरूपितत्वेन वाक्यार्थाऽबाधात् । वाय्वानीतचम्पकगन्धस्य यत्र वाय्वादिवृत्तित्वेनैव ग्रहस्तत्र 'चम्पकं जिघ्रति ' इत्यादिप्रयोगो नेष्यत एव ।
यत्तु आधेयतामात्रं द्वितीयार्थों न तु समवायावच्छिन्नत्वविशेषितमाधेयत्वम्, तथा च मुखादिसंपृष्टमृत्तिकादिगन्धे परम्परासंबन्धेन मुखादिवृत्तित्वस्य सत्वान्न तादृशस्थलेऽनुपपत्तिरिति । तदसत्-तथा सति 'कालं जिघ्रति' इतिप्रयोगस्य दुर्वारत्वात् । तत्वेन रूपेण वाक्यार्थस्याऽबाधातू-तादृशविषयितायामाननादिनिष्टप्रकारतानिरूपितत्त्वस्यापि संभवान्नात्र जिप्रतिप्रयोगानुपपत्तिरित्यर्थः । अत्र च " तदाननम् " इत्यत्र यद्यपि मुखस्यापि पार्थिवत्वेन तस्मिन्नपि समवायेन गन्धः संभवति तथापि "मृत्सुरभि " इत्युक्त्या गृह्यमाणगन्धो मृत्समवेत एव नाननसमवेत इत्यनुपपत्तिरासीत्, "आघातवान् " इत्यत्र तु वायौ समवायेन गन्धो न भवतीत्यनुपपत्तिरासीत् सैवात्रोद्धृतेति विज्ञेयम् । किं च वाय्वानीतचम्पकगन्धस्य यत्र वायुवृत्तित्वेनैव, ग्रहस्तत्र 'चम्पकं . जिति' इति प्रयोगो न भवति किं तु 'वायुं जिघ्रति । इत्येव प्रयोगो भवतीत्याह-वाय्वानीतेति, यथाज्ञानमेव प्रयोगसंभवादित्यर्थः * पुष्पं जिघ्रति ' इत्यत्र 'समवायसंबन्धावच्छिन्नाधेयत्वसंसर्गावच्छिन्नगन्धनिष्ठविषयतानिरूपिता या पुष्पनिष्ठा प्रकारता तन्निरूपिता या गन्धनिरूपितलौकिकविषयिता तादृशविषयिताशालि, प्रत्यक्षाश्रयश्चैत्रः ' इतिशाब्दबोधः । यद्यपि काले इव वायावपि समवायेन गन्धो न वर्तते तथापि वायौ सुगन्धत्वाद्यारोपो भवतीति सुगन्धादिपदसान्निध्ये सति " आघ्रातवान् गन्धवहं सुगन्धम्" इत्यादिप्रयोगो भवति काले च सुगन्धवाद्यारोपाभावात् 'कालं जिघ्रति , इति प्रयोगो न भवतीति परमार्थः । 'आघ्रातवान् गन्धवहम् ' इत्यत्र स्वसमवायिसंयुक्तत्वसंब. न्धावच्छिन्नाधेयत्वसंसर्गावच्छिन्नविषयतानिरूपितप्रकारता द्वितीयार्थ:-गन्धस्य स्वसमवायिसंयुक्तत्वसंबन्धेन वायौ सत्त्वात् तादृशसंबन्धावच्छिन्नाधेयत्वं वायुनिरूपितं गन्धे वर्तते एव तादृशाधेयत्वसंसर्गावच्छिन्नविषयता च गन्धे प्राप्ता तन्निरूपितप्रकारता च पूर्वोक्तदिशा वायौ प्राप्ता शेषं पूर्वघदेव । स्वं गन्धस्तत्समवायी पार्थिवपरमाणुः पुष्परेणुर्वा तत्संयुक्तत्वं वायावस्तीति तेन संबन्धेन वायावपि गन्धो वर्तते इति चिन्त्यम् । ___ननु ' पुष्पं जिघ्रति । इत्यादौ समवायसंबन्धावच्छिन्नाधेयत्वं न द्वितीयार्थों वक्तव्यः अर्थाद् गन्धादीनां समवायेन यत्पुष्पादिवृत्तित्वं तस्योक्तद्वितीयार्थे प्रवेशो न कर्तव्यः द्वितीयार्थप्रविष्टाघेयत्वं समवायावच्छिन्नं न ग्राह्यमिति यावत् येन "तदाननं मृत्सुरमि" इत्यादी गन्धस्य समवायेन मृत्तिकावृत्तित्वेन मुखवृत्तित्वाभावादन्वयबोधानुपपत्तिः स्यात् किं तु आधेयत्वमात्रमेव द्वितीयार्थस्तथा च "तदाननं मृत्सुरभि” इत्यादौ परम्परासंबन्धेन स्थाश्रयाश्रयत्वसंबन्धेन (स्वंगन्धस्तदाश्रयो मृत् तदाश्रयत्वं मुखे ) मृत्तिकानिष्टगन्धस्यापि मुखादौ वर्तमानत्वेन तादृशस्थले="तदाननं मृत्सुरभि " इत्यादिस्थले न काचिदन्चयानुपपत्तिः । 'पुष्पं जिघ्रति' इत्यादौ च गन्धस्य
"Aho Shrutgyanam"