________________
कालं जिघ्रतीतिप्रयोगवारणम् ]
व्युत्पत्तिवादः ।
५
6
५
C
तादृशप्रत्यक्षदशायां न ' कालं जिघ्रति' इत्यादिप्रयोगः - तादृशज्ञानीयगन्धादिविषयितायां कालादिप्रकारतानिरूपितत्वविरहात्, अत एव " तदाननं मृत्सुरभि क्षितीश्वरो रहः समाधाय न तृप्तिमाययौ ” इत्यादौ " आघ्रातवान् गन्धवह सुगन्धम् " इत्यादौ चोपाधिनिष्ठगन्धग्रहवात्पर्येणैव जिघ्रतेः प्रयोगात् तादृशगन्धे चाssननगन्धवहादिवृत्तित्वस्य बाधेपि न क्षतिः - तादृशगन्धस्याऽऽननाद्यवृत्तित्व' आनने गन्धः' इत्याकारकबोधीयगन्धविषयिताया आननादिप्रका पुष्प निष्ठप्रकारतानिरूपितत्वस्य सत्त्वेन तेन संबन्धेन पुष्प निष्ठप्रकारताया अन्वयः, तथा च निष्प्रकारतानिरूपितत्वं प्राधात्वर्थप्रत्यक्षनिष्टविषयितायां संभवति तद्भाणनविषयक प्रयोगो भवति यथा पुष्पं जिघ्रति गन्धं जिघ्रति ' इत्यादिः, 'कालं जिघ्रति इत्यादिश्च • प्रयोगो न भवतीति सिद्धम् । अत्र च यद्यपि इदानीन पुष्पे गन्धः 7 इत्यत्र इदानीतनकालवृत्तिः पुष्पवृत्तिश्च गन्धः ' ' इदानींतन कालवृत्तिपुष्पवृत्तिर्गन्धः ' इत्याकारकद्विविधबोधस्य यथेच्छं स्वीकारात् कालनिष्ठाधारतानिरूपिताधेयताया अपि गन्धे साक्षादपि पुष्पद्वारापि च सत्वात् इदानीतनपुष्पे गन्धः ' इत्याकारकप्रत्यक्षे गन्धे यथाssधेयतासंसर्गेण पुष्पं प्रकारस्तथाऽऽधेयतासंसर्गेण कालोपि प्रकारोस्त्येवेति ' इदानीतनपुष्पे गन्धः ' इत्याकारकप्रत्यक्षदशायाम् पुष्पं जिप्रति ' इतिवत् ' कालं जिघ्रति ' इत्यपि प्रयोगः संभवति तथापि तादृशप्रत्यक्षदशायाम् = ' इदानींतनपुष्पे गन्धः ' इत्याकारकप्रत्यक्षदशायाम् ' कालं जिप्रति इतिप्रयोगापत्तिर्नास्ति - तादृशज्ञानीयगन्वादिविषयितायाम् = प्राधात्वर्थप्रत्यक्षनिष्ठगन्धनिरूपितठौकिकविषयितायां कालादिनिष्ठप्रकारतानिरूपितत्वाभावाद् यन्निष्ठप्रकारता निरूपितवं प्राधात्वर्थप्रत्यक्ष निष्ठविषयितायां भवति तत्कर्मकस्यैव जिप्रतिप्रयोगस्य संभवादित्याह - तेनेति, तेन= द्वितीयार्थप्रकारताया उक्तरीत्या प्रत्यक्षीयविषयितायामन्वधेन किं वा समवाय निवेशेन तथा चात्र कालनिष्ठाधारतानिरूपिताधेयता गन्धनिष्ठा समवायसंबन्धावच्छिन्ना न भवति कालिकसंबन्धावच्छिन्नत्वाद् गन्धस्य काले कालिकसंबन्धेन वृत्तित्वात्, पुष्पनिष्ठाधारतानिरूपिताधेयता तु समवायावच्छिन्ना भवति समवायेनैव गन्धस्य पुष्पवृत्तित्वादित्यर्थः । नन्वेवं नियमे स्वीकृते तदाननम् " इत्यादिप्रयोगा नोपपद्येरन् - प्राधात्वर्थप्रत्यक्ष निष्ठविषयितायामाननगन्धवहादिनिष्ठप्रकारतानिरूपितत्वाऽभावात् गन्धाश्रयीभूतपुष्पमृत्तिकादिनिष्ठप्रकारतानिरूपितत्वस्यैव संभवादित्याशङ्क्याह- अत एवेति, अत एव = उक्त नियमस्वीकारादेव “ तदाननम् " इत्यादिस्थलेषु गन्धोपाधिनिष्ठस्यैव = गन्धाश्रयीभूतमृत्तिकादिनिष्ठस्यैव गन्धस्य ग्रहणतात्पर्येण जिघ्रतिप्रयोगोस्ति तादृशगन्धे= अत्रत्यगृह्यमाणगन्धे चाननगन्धवहादिवृत्तित्वस्य बाधेपि क्षतिः - जिघ्रतिप्रयोगानुपपत्तिर्नास्ति - तादृशंगन्धस्य = अत्रत्यगृह्यमाणमन्धस्य मृत्तिकादिवृत्तित्वेनाऽऽननाद्यवृत्तित्वेपि " आननं समाघ्राय " इत्यत्र ' आनने गन्धः ' इत्येव बोधः स्यात् तादृशबोधीय-गन्धविषयितायाः = प्राधात्वर्थ प्रत्यक्षनिष्ठगन्धनिरूपित विषयिताया आननादिनिष्ठप्रकारतानिरूपि
,
65
C
"Aho Shrutgyanam"
(२७७)