________________
(२७६ )
[ द्वितीयाकारकप्रथम खण्डे -
न च प्राधातुसमभिव्याहतद्वितीयाया गन्धान्विताधेयत्वार्थकत्वे ' आमोदमुपजिघ्रति ' इत्यादेरनुपपत्तिः- गन्धविशेषरूपामोदपदार्थाऽऽधेयत्वस्य गन्धे बाघादिति वाच्यम्, विषयावच्छिन्नप्रत्यक्षार्थकप्राधातुसमभिव्याहृत द्वितीयाया एवाधेयतार्थकत्वनियमात्, तत्र विषयानवच्छिन्नस्यैव प्रत्यक्षविशेषस्य लक्षणया प्राधात्वर्थ तोपगमेन विषयिताया एव तदर्थत्वात् ।
वस्तुतस्तु 'पुष्पं जिघ्रति ' इत्यादौ समवायसंबन्धावच्छिन्नाधेयत्व संसर्गावच्छिन्नविषयतानिरूपितप्रकारतैव द्वितीयार्थः, तस्याश्च गन्धनिरूपितलौकिकविषयिताशालिप्रत्यक्षात्मकधात्वर्थैकदेशे विषयितायां निरूपितत्व संबन्धेनान्वयः, तेन 'इदानींतनपुष्पे गन्धः ' इत्यादिप्रत्ययस्याधेयतासंसर्गेण कालादिप्रकारकत्वेपि ... ननु यदि ' पुष्पं जिघ्रति इत्यादी पुष्पपदोत्तरद्वितीयाया प्राधातुसमभिव्याहृताया आश्रयता संबन्धेन गन्धान्वितम् ( गन्धे वर्तमानम् ) आधेयत्वमर्थस्तदा 'आमोदमुपजिघ्रति ' इत्यादि - प्रयोगो नोपपद्येत - यथा ' पुष्पं जिघ्रति ' इत्यत्र गन्धे पुष्पवृत्तित्वम् (पुष्पाधेयत्वम् ) अस्ति तथात्र गन्धस्यामोदवृत्तित्वं नोपपद्यते - आमोदस्य गन्धविशेषरूपत्वेन गन्धे गन्धासंभवाद्गुणे गुणानङ्गीकारादित्याशङ्कते - न चेति । परिहरति- विषयावच्छिन्नेति, 'पुष्पं जिघ्रति' इत्यत्र प्राधातोर्गन्धात्मक विषयावच्छिन्नम्राणजप्रत्यक्षवाचकत्वमस्तीत्यत्राधेयत्वमेव द्वितीयार्थः, तत्र = आमोदमुपजिघ्रति ' इत्यत्र तु प्राधातोर्गन्धाद्यात्मकविषयैरनवच्छिन्न एव प्राणजप्रत्यक्ष लक्ष. णास्तीति नात्र द्वितीयाया आधेयत्वार्थकत्वापत्तिः किं त्वत्र द्वितीयाया विषयित्वमेवार्थस्तथा चामोदनिरूपित विषयितायाः प्रत्यक्षे संभवानात्र काचिदनुपपत्ति: - आमोदनिरूपित्तविषयिताश्रयज्ञानवानिति बोध इत्यर्थः । तदर्थत्वात् द्वितीयार्थत्वात् ।
<<
स्वाभिप्रायं प्रकटयति- वस्तुतस्त्विति । समवायेति - द्वितीयार्थभूता चैषा प्रकारता पुष्पे विज्ञेषा सा च प्रकारता गन्धे विषयतां विनाऽनुपपन्नत्वाद् गन्धनिष्ठ विषयता निरूपितास्ति. गन्धः निष्ठा च विषयता आधेयतासंबन्धावच्छिन्ना विज्ञेया घ्रा गन्धोपादाने " इत्यनुशासनाद् धारवर्यैकदेशभूतगन्धस्य पुष्पवृत्तित्वेन गन्धे आधेयताया घ्राणजप्रत्यक्षविषयतायाश्व सत्त्वात् तयोवच्छेद्यावच्छेदकभावस्य सुस्पष्टत्वात् आधेयताप्येषा समवाय संबन्धावच्छिन्ना ग्राह्या गन्धे आधेयतायाः पुष्पानुयोगिकसमवायस्यापि च सत्त्वेन तयोरवच्छेद्यावच्छेदकभावस्यापि विस्पष्टत्वादित्यन्त्रयः, समवायसंबन्धावच्छिन्नाधेयतानिवेशेन यत्र पुष्पादौ गन्धः समवायेन भवति तादृशपुष्पादिकमुद्दिश्य 'पुष्पं जिघ्रति' इत्यादिः प्रयोगो भवति यत्र च कालादौ गन्धः समवायेन न वर्तते तादृशकालादिकमुद्दिश्य ' कालं जिव्रति ' इत्यादिप्रयोगो न भवतीति भावः । तस्या:-द्विश्रीयार्थभूतप्रकारतायाश्च गन्धनिरूपिता या गन्धप्रत्यक्षनिष्ठा लौकिकक्षियिता तादृशविषयिताशालि यद् प्राधात्वर्थभूतं प्रत्यक्षं तदेकदेशभूतायां विषयितायां निरूपितत्व संबन्धेनान्वयः, विषयिताविशिष्टप्रत्यक्षस्य धात्वर्थत्वेन विषयिताया धात्वर्यैकदेशत्वं प्राप्तं तादृशविषयितायां
सादर्श:
.
"Aho Shrutgyanam"