________________
द्वितीया जिघ्रत्योरर्थः ]
व्युत्पत्तिवादः ।
( २७५ )
दिति चेत्, न - प्राधातोर्हि गन्धलौकिकप्रत्यक्षत्वं शक्यतावच्छेदकम् - "घ्रा गन्धोपादाने " इत्यनुशासनात्, तत्समभिव्याहृत द्वितीयायाश्चाधेयत्वमेवार्थस्तस्य च व्युत्पत्तिवैचित्र्येण गन्धादिरूपधात्वर्थैकदेशेनान्वयः एवं च ' पुष्पं जिघ्रति इत्यादितः पुष्पवृत्तिगन्धलौकिकप्रत्यक्षाश्रयतावानित्याकारक एव शाब्दबोधो न तु पुष्पनिरूपित लौकिकविषयिताशालिप्रत्यक्षाश्रय इत्याकारक इति नानुपपत्तिः । न चैवं सविषयार्थबोधकधातुसमभिव्याहृत कर्मप्रत्ययस्य विषयितार्थकत्वनिय मभङ्गप्रसङ्ग इति वाच्यम्, विषयानवच्छिन्नतादृशवस्त्वभिधाय कधातुसमभिव्याहकर्मप्रत्ययस्यैव तदर्थकत्वनियमात्, अस्य च गन्धात्मक विषयावच्छिन्नप्रत्थक्षवाचकतया तादृशनियमस्याऽवाधितत्वात् ।
जिघ्रति ' इति प्रयोगानुपपत्तिरित्युभयतः पाशारज्जुरित्यथः । परिहरति- नेति, “घ्रा गन्धोपा दाने " इत्यनुशासनाद् घ्राधातोर्गन्धविषयकलौकिकप्रत्यक्षं हि शक्यमस्ति प्राधातुसमभिव्याहतद्वितीयायाश्चाऽऽत्रेयत्वमेवार्थस्तस्य = द्वितीयार्थाधेयत्वस्य च धात्वर्थैकदेशे गन्धेऽन्वयः, तथा च 'पुष्पे गन्धो वर्तते' इति पुष्पस्य गन्धे आधेयत्वसंबन्धेनान्वय संभवात् 'पुष्पं जिप्रति' इति प्रयोग उपपद्यते, आकाशे च समवायेन गन्धासंभवात् ' आकाश जिघ्रति ' इति प्रयोगापत्तिर्नास्त्येव - आकाश निरूपिताधेयत्वस्य द्वितीयार्थस्य गन्धेऽसंभवादित्यर्थ: । ' पुष्पं जिघ्रति ? इत्यस्य स्वा भीष्टबोधस्य स्वरूपमाह एवं चेति, पुष्पवृत्तिर्यो गन्धस्तद्विषयकलौकिकप्रत्यक्षाश्रयश्चैत्र इत्यर्थः । स्वानभीष्टबोधं परिहरति- न लिति, यदि : पुष्पनिरूपितलौकिक विषयिताशालिप्रत्यक्षाश्रयः इत्याकारकबोधः “ पुष्पं जिघ्रति ' इत्यत्रेष्टः स्यात्तदोक्तरीत्या पुष्पनिरूपिता लौकिकविषयिता प्राणजप्रत्यक्षे नास्तीति ' पुष्पं जिघ्रति ? इतिप्रयोगानुपपत्तिः स्यादपि न चैवमस्तीत्यर्थः । प्राधातोर्गन्ध लौकिकप्रत्यक्षमेव शक्यमिति गन्धस्यापि धात्वर्थे प्रवेशाद् धात्वर्थैकदेशत्वमुक्तमिति ।
7
८
ननु यदि प्राधातुसमभिव्याहृतद्वितीयाया आधेयत्वमर्थस्तदा सविषयकार्थबोधकधातुसमभिव्याहृतद्वितीयादिकर्मप्रत्ययस्य विषयितैवार्थो भवतीति नियमस्य भङ्गः स्याद् प्राधातोरपि सचिषयकार्थकत्वादित्याशङ्क्याह - न चेति । परिहारमाह - विषयेति, विषयानवच्छिन्नं यत् तादृशवस्तु सविषयकार्थस्तदभिधायकधातुसमभिव्याहृतस्यैव कर्मप्रत्ययस्य तदर्थकत्वनियमात् = विषयितार्थकत्वनियमाद् यथा- घटं जानाति ' इत्यत्र ज्ञाधातुर्विषयानवच्छिन्नसविषयकार्थ ( ज्ञान ) बोधकोस्ति-ज्ञाधात्वर्थज्ञानस्य सविषयक पदार्थत्वाद् रूपगन्धादिविषयैरनवच्छिन्नत्वाचेत्यत्र घटपदोत्तरद्वितीयाया विषयित्वमर्थ :- घटनिरूपितविषयिताश्रयज्ञानवानिति बोधोदयादित्यर्थः । अस्य = प्राधातोस्तु " घ्रा गन्धोपादाने" इत्यनुशासनाद् गन्धलक्षण विषयावच्छिन्नस विषयकप्रत्यक्षप्रार्थवाचकतया ' पुष्पं जिप्रति ' इत्यादौ पुष्पादिपदोत्तरद्वितीयाया आधेयतार्थकत्वेपि तादृशनियमस्य सविषयकार्थबोधकधातु समभिव्याहृतस्य कर्मप्रत्ययस्य द्वितीयादेर्विषयितार्थकत्वनियमस्य अबाधितत्वात् = भङ्गासंभवात् तादृश नियमस्यात्राऽप्राप्तेदित्यर्वः ।
>
" Aho Shrutgyanam"