________________
(२७४)
सादर्श:- [द्वितीयाकारकप्रथमखण्डे- अथैवम् पुष्पं जिघ्रति ' इत्यादि प्रयोगानुपपत्तिा-घ्राणजप्रत्यक्षस्य पुष्पा. चंशे लौकिकत्वविरहात्, तादृशधातुयोगे विषयित्वादिसामान्यस्य कर्मप्रत्ययार्थवे गन्धसाक्षात्कारे उपनयमर्यादयाऽऽकाशादिभाने 'आकाशं जिघ्रति ' इतिप्रयोगप्रसङ्गेन तत्रापि लौकिकविषयिताया एव कर्मप्रत्ययार्थतयोपगन्तव्यत्वा.
तसौरभादिविषयकचाक्षुषप्रत्यक्षदशायां सौरमस्य ज्ञानलक्षणप्रत्यासत्त्यैव भानं भवति न तु लौकिकप्रत्यक्षेण- सौरभस्य चाक्षुषप्रत्यक्षाऽविषयत्वादिति ' सौरभं पश्यति । 'सौरभ दृश्यते । इत्यादि प्रयोगो न भवति- अत्र द्वितीयायाश्चाक्षुषप्रत्यक्षनिष्ठलौकिकविषयित्वार्थकत्वासंभवात्. कर्माख्यातस्य च चाक्षुषप्रत्यक्षनिरूपितलौकिकविषयत्वार्थकत्वासंभवादित्यर्थः । अयं भावःयदि घदं पश्यति । इत्यत्र लौकिकविषयित्वं द्वितीयार्थो नोच्येत किं तु विषयित्वमेव द्वितीयार्थ उच्येत तदा ‘सुरभि चन्दनखण्डम् ' इत्याकारकोपनीतसौरभविषयकचाक्षुषप्रत्यक्षदशायां तादृशप्रत्यक्षेपि विषयितायाः सत्त्वात् 'सौरमं पश्यति । इतिप्रयोगः स्यादेव न चतदिष्टमिति द्वितीयार्थविषयितायां लौकिकत्वविशेषणं प्रक्षिप्तं तथा च 'सुरभि चन्दनखण्डम् ' इस्याकारकप्रत्यक्षऽलौकिकविषयितायाः सत्त्वेन लौकिकविषयिताया असत्त्वात् 'सौरभं पश्यति' इतिप्रयोगो न भवति- प्रत्यक्षे द्वितीयार्थभूताया लौकिकविषयिताया बाधात् । एवमेव 'सौरमं दृश्यते । इतिप्रयोगस्योक्तदशायां वारणार्थ लौकिकविषयत्वं कर्माख्यातार्थ इत्युक्तम्, 'सुरमि चन्दनखण्डम् । इत्याकारकोपनीतभानदशायां सौरमेऽलौकिकविषयतायाः सत्त्वेन लौकिकविषयताया बाधादिति ।
ननु यदि चाक्षुषत्वाद्यवच्छिन्नवाचकदृश्यादिधातुसमभिव्याहृतद्वितीयाया लौकिकविषयित्वमर्थस्तदा पुष्पं जिप्रति ' इति प्रयोगो न स्यात-घ्राणजप्रत्यक्षविषयता हि गन्धे वर्तते न तु द्रव्यरूपे पुष्पपीति पुष्पनिरूपितलौकिकविषयिताया घ्राणजप्रत्यक्ष बाधादित्याशङ्कते- अधेति, ननु तादृशधातुयोगे-चाक्षुषत्वाधवच्छिन्नवाचकघ्रादिधातुयोगे 'पुष्पं जिघ्रति , इत्यादी लौकिकालौकिकसाधारणमेव सामान्यतो विषयित्वं द्वितीयादिकर्मप्रत्ययार्थ इति 'पुष्पं जिघ्रति । इत्यत्र पुष्पपदोत्तरद्वितीयाया अलौकिकविषयित्वमेवार्थ इति नानुपपत्तिरित्याशझ्याह- ताहशेति, एवं हि ' अत्राकाशे गन्धः । इत्याकारकगन्धप्रत्यक्षे उपनयमर्यादया ज्ञानलक्षणप्रत्यासस्याऽऽकाशस्यापि भानं भवतीति ' आकाशं जिघ्रति ' इतिप्रयोगापत्तिः स्यात्- आकाशपदोत्तरद्वितीयाया अलौकिकविषयित्वार्थकत्वेनाकाशविषयकाऽलौकिकवियिताश्रयघ्राणजप्रत्यक्षस्य संभवात् , न च 'आकाशं जिघ्रति ' इतिप्रयोगो भवतीति तद्वारणाय लौकिकवियितैव द्वितीयार्थ इत्युपगन्तव्यं तथा चाकाशनिरूपितलौकिकविषयिताया घ्राणजप्रत्यक्षे बाधात् : आकाश जिघ्रति । इति प्रयोगस्तु न भविष्यत्ति किं त्वेवं तत्रापि= पुष्पं जिघ्रति ' इत्यत्रापि लौकिकविषयितैव द्वितीयार्थः स्यादिति पुष्पनिरूपितलौकिकविषयिताया प्राणजप्रत्यक्षे बाधात् “पुष्पं
"Aho Shrutgyanam"