________________
सविषयकधातुस्थलीयद्वितीयार्थः] व्युत्पत्तिवादः ।
(२७३ ) घटादिनिष्ठं ज्ञानादिकर्मत्वं च ज्ञानादिविषायित्वमेव, विषयित्वादा च द्वितीयाया लक्षणैव न तु शक्तिरिति सांप्रदायिकाः । ... वस्तुतस्तु विषयितात्वस्य संयोगत्वायपेक्षयाऽऽधेयत्वाद्यपेक्षया चाऽमुरुतया किधर्मावच्छिन्ने शक्तिः कल्प्यते इत्यत्र विनिगमकं दुर्लभम् । एकस्मिन् प्रयोगभूयस्त्वमप्यऽशक्यनिर्णयमिति तत्रापि शक्ति सिध्यतीत्यवधेयम् ।
'चैत्रेण ज्ञायते घटः । इत्यादौ कर्माख्यातस्थले आख्यातेन घटादौ धात्वर्थनिरूपितविषयत्वं बोध्यते । ... चाक्षुषत्वाद्यवच्छिन्नवाचकश्यादिसमभिव्याहृतद्वितीयाया लौकिकविषयित्वं ताशक ख्यातस्य लौकिकविषयत्वमर्थः- उपनीतसौरभादिविषयकसुरभिचन्दनमित्याद्याकारकचाक्षुषादिदशायाम् 'सौरभं पश्यति ' इति 'सौरभ श्यते.' इत्याद्यप्रयोगात् । बन्धेन ज्ञाने द्वितीयार्थविषयित्वस्यामाव उपपद्यते एवेति — घटं जानाति पटं न ' इत्यत्र नोक्तानुपपत्तिः- आश्रयतासंबन्धेन पटनिरूपितविषयित्वाभाववज्ञानाश्रयश्चत्र इति बोधस्याकार इत्यर्थः । ननु घटादिनिष्ठं यज्ज्ञानादिकर्मत्वम् (विषयत्वं) तदेव द्वितीयार्थो युक्तो न तु ज्ञानादिनिष्टविषयित्वस्य घटादिपदोत्तरद्वितीयार्थत्वं युक्तं वैयधिकरण्यादित्याशक्याह- घटादीति, विषयित्वमपि निरूपकतासंबन्धेन घटादौ वर्तते एवेति घटादिनिष्ठं यज्ज्ञानादिकर्मत्वं तदिदानी ज्ञानादिविषयित्वरूपमेव विज्ञेयमित्यर्थः । द्वितीयाया विषयत्वादावेव शक्तिरिति विषयित्वादी लक्षणवेत्याह- विषयित्वादाविति ।
स्वाभिप्रायमाह- वस्तुतस्त्विति, किंधर्मावच्छिन्ने विषयितात्वादिकिंधर्मावछिन्ने । तथा च विषयित्वेपि द्वितीयायाः शक्तिरेवेत्यर्थः । यदि संयोगत्वाबपेक्षया विषयितात्वं गुरु स्यात्तदा गुरु. धर्मावच्छिन्नविषयित्वापेक्षया संयोगादौ द्वितीयायाः शक्तिस्वीकारे लाधवेन विषयित्वे शक्तेरनुपपत्तिः स्यादपि न चैवमस्तीतिभावः । एकस्मिन् संयोगादौ, विषयित्वसंयोगाद्यर्थेषु द्वितीयाया: समान एवं प्रयोग इत्यर्थः । अशक्यो निर्णयोऽनेनेत्यशक्यनिर्णयम् । तत्रविषयित्वेपि। ___कर्माख्यातप्रयोगमुदाहरति- चैत्रेणति, घटादौ धात्वर्थज्ञानादिनिरूपितं यद् विषयस्वं तदेव कर्माख्यातार्थ इत्यर्थः, 'चैत्रवृत्तिज्ञानविषयो घटः । इतिबोधः ।
'घटं पश्यति' इत्यत्र द्वितीयाया लौकिकविषयित्वमर्थः,आख्यातस्याश्रयत्वमर्थ इति घटनिरूपितविषयिताश्रयचाक्षुषलौकिकप्रत्यक्षाश्रयश्चैत्र इतिबोधः । ज्ञानस्य लौकिकालौकिकरूपत्वेन द्वैविध्यमन्यत्र प्रतिपादितं ज्ञेयम् । 'घटो दृश्यते' इत्यत्र च तादृशकर्माख्यांतस्य चाक्षुषत्वाअवच्छिन्नवाचकदृश्यादिसमभिव्याहृतकर्माख्यातस्य लौकिकविषयत्वमर्थ इति- लौकिकचाक्षुषप्रत्यक्षनिरूपितविषयत्वाश्रयो घट इतिबोध:- विषयत्वस्य घटे आश्रयतासंबन्धेनान्वयात् । विषयित्वविष पत्वयोलौकिकत्वविशेषणस्य फलमाह- उपनीतेति, 'सुरमि चन्दनम् । इत्याकारकोपनी
"Aho Shrutgyanam"