________________
(२७२)
सादर्श:- [ द्वितीयाकारकप्रथमखण्डेभूम्यादावेव तादृशभेदसामानाधिकरण्यसंबन्धेन तत्तक्रियाविशिष्टसंयोगादिमत्वोपगमात् तत्र तत्क्रियाश्रयविहगे तद्भाधेन नातिप्रसङ्ग इतिध्येयम् ।
ज्ञानादिरूपसविषयकवस्त्वभिधायकधातुसमभिव्याहृतद्वितीयायाः प्राचीनमते निरूपकतासंबन्धेन धात्वर्थान्वयि विषयत्वमर्थः, तत्र प्रकृत्यर्थस्याधेयतासंबन्धेनान्वयः । वृत्त्यनियामकसंबन्धस्याभावप्रतियोगितानवच्छेदकतया ‘घटं जानाति. पट न ' इत्यादावनुपपत्तेस्तत्र विषयित्वार्थकत्वमेव नवीना उपवर्णयन्ति तत्र च प्रकृत्यर्थस्य निरूपितत्वसंबन्धेन तस्य च धात्वर्थे आश्रयतासंबन्धेनान्वयः, नप्रतियोगिताकभेदो ग्राह्यः स च भेदः संयोगश्च भूम्यादावस्तीति संयोगे तादृशमेदसामानाधिकरण्यमप्यस्त्येव, तत्तक्रियावच्छिन्नभेदवति संयोगादिरूपफलजनकक्रियावच्छिन्नप्रतियोमिताकर्मेदवति : भूम्यादावेर तादृशभेदसामानाधिकरण्यसंबन्धेन-क्रियावच्छिन्नप्रतियोगिताकदसामानाधिकरण्यरूपसंबन्धेन तत्तक्रिया विशिष्टोक्तसंयोगादिमत्त्वोपगमात् ' भूमिविहगेन गम्यते । इत्यादिप्रयोगो भवतीत्यर्थः । तक्रियाश्रयविहगे-संयोगजनकक्रियाश्रयविहगे तु तद्बाधेन-उ. ततादृशभेदसामानाधिकरण्यसंबन्धेन तक्रियाविशिष्टतयोगादिमत्त्वबाधेन नातिप्रप्तङ्गः= विहगो विहगेन गम्यते , इत्यादिप्रयोगापत्तिर्नास्ति- विहगस्योक्ततादृशभेदप्रतियोगित्वाद् भेदाश्रयस्कमेव नास्ति येन तादृशभेदसामानाधिकरण्यसंबन्धेन क्रियाविशिष्टत्वं विहगनिष्ठसंयोगस्य स्यात् तेन ब 'विहगो विहगेन गम्यते । इत्यादिप्रयोगापत्तिः स्यादित्याह- तत्रेति । तत्र विहगो विगेन गम्यते । इत्यत्र । विहगेन स्वभिन्न विहगं प्रत्यनुधावने तु 'विहगो विहगेन गम्यते । इति प्रयोग इष्ट एव । ___ प्राचीनमतेन ज्ञादिधात्वर्थमाह- ज्ञानादीति, ज्ञानादिरूपं यत्सविषयक वस्तु अर्थस्तदभिः धायको यो ज्ञादिधातुस्तत्समभिव्याहृतायाः 'घटं जानाति ' इत्यादौ द्वितीयायाः प्राचीनमते विषयत्वमर्थः तस्य च विषयत्वस्य निरूपकतासंबन्धेन धात्वर्थज्ञानादावन्वयः- घटादिनिष्ठविषयत्वस्य ज्ञाननिरूपितत्वेन तन्निरूपकत्वं ज्ञानेस्ति, तत्र द्वितीयार्थविषयत्वे प्रकृत्यर्थस्य घटादेराधेयतासंबन्धेनान्वयः, आश्रयत्वं चाख्यातार्थ इति घटवृत्तिविषयतानिरूपकज्ञानाश्रयश्चत्र इति शाब्दबोधाकार इत्यर्थः । नवीनमतमाह- वृत्त्यनियामकेति, विषयत्वस्य द्वितीयाथत्वे तस्यो. क्तरीत्या निरूपकतासंबन्धेनैव धात्वर्थज्ञानेऽन्वयो वक्तव्यस्तथा च ‘घटं जानाति पटं न' इत्यत्र एटपदोत्तरद्वितीयार्थविषयानस्य निरूपकतासंबन्धेनैव धात्वर्थज्ञानेऽभावो वक्तव्यः-- निरूपकतासंबन्धेन पटवृत्तिविषयत्वाभाववज्ञानाश्रयश्चैत्र इति, तत्र निरूपकतासंबन्धस्य वृत्त्यनि. यामकत याऽभावीयप्रतियोगितावच्छेदकत्वं न संभवतीति न विषयत्वं द्वितीयार्थः किं तु विषयित्वमेव तत्र विषयित्वे प्रकृत्यर्थघटादेनिरूपितत्वसंबन्धेनान्वयः-- ज्ञानादिनिष्टविषयित्वस्य ज्ञानादिवि षयीभूतघटादिनिरूपितत्वात्, तस्य=विषयित्वस्य च धात्वर्थे ज्ञानादावाश्रयत्वसंबन्धेनान्वयस्तथा चा श्रयतासंबन्धस्य वृत्तिनियामकत्वेनाभावीयप्रतियोगितावच्छेदकत्वादाश्रयतासं
"Aho Shrutgyanam"