________________
अनिष्टप्रयोगनिवारणम् ]
व्युत्पत्तिवादः ।
( २७१ )
निष्ठ भेदप्रतियोगितावच्छेदकत्वोभय संबन्धेनान्वयोपगमात् विहगनिष्ठक्रियायास्तद्विहग निष्ठसंयोगजनकत्वेन तज्जनकतासंवन्धेन तत्संयोगवत्त्वापे विहगवृत्तित्वविशिष्टतत्संयोगाश्रयतद्विहगनिष्ठ भेदप्रतियोगितावच्छेदकत्वाभावान्नोक्तोभय संबन्धेन विशिष्टसंयोगवत्त्वमित्यनतिप्रसङ्गात् । एवं सति परसमवेतत्वं संबन्धघटकमेव न तु द्वितीयार्थ इति चेत् ?, का क्षतिः ।
६
L
' विहगो विहगेन गम्यते ' इत्यादावपि स्वजन्यत्वस्वावच्छिन्नभेदसामानाधिकरण्योभयसंबन्धेन क्रियायाः संयोगेऽन्वय इष्यते तत्तत् क्रियावच्छिन्नभेदवति विहगादिनिष्ठायां संयोगजनक क्रियायामन्वय इति तत्संभवात् ' विहगो भूमिं गच्छति ' चैत्रो ग्रामं गच्छति' इत्यादयः प्रयोगा भवन्ति, : ' विगो विहगं ( स्वं ) गच्छति इत्यत्र विहगनिष्ठक्रियायास्तद्विहग निष्ठसंयोगजनकत्वमस्त्येवेति तज्जनकतासंबन्धेन =स्व ( संयोग :) जनकस्वसंबन्धेन तत्सयोगरत्त्वेपि ( संयोगस्य स्वजनकत्वसंबन्धेन क्रियायामन्वय संभवेपि ) तस्याः क्रियाया विहगवृत्तित्वविशिष्टो यस्तत्संयोगस्तदाश्रयीभूतो यस्तद्विहगस्तनिष्ठो यो भेदस्तादृशभेदप्रतियोगितावच्छेदकत्वं नास्त्येत्र यतस्तनिष्ठ भेदस्य प्रतियोगितावच्छेदकस्तद्वृत्तिधर्मो न भवति किं तु तद्ननप्रतियोगिवृत्तिधर्म एव भवतीति तद्विहगनिष्ठभेदस्य प्रतियोगितावच्छेदिका तद्विगनिष्ठा क्रिया कथं स्यादिति तद्विगनिष्ठसंयोग जन कतद्विहगवृत्तिक्रियायां तद्विहगनिष्ठ भेदप्रतियोगितावच्छेदकत्वं नास्तीति न तादृशसंयोगस्य तत् क्रियायां स्त्राश्रयनिष्टभेदप्रतियोगितावच्छेदकत्वसंबन्धेनान्वयः संभवतीत्युक्तोभयसंबन्धेन संयोगविशिक्रियाया अलाभाद् उक्तोभ-यसंबन्धेन संयोगविशिष्ट क्रिया जन्मसंयोगाश्च पत्वमत्र विहगस्य नास्तीति न बिहगस्य कर्मत्वं किं - बोकोभयसंबन्धेन संयोगविशिष्टक्रियाश्रयत्वं विहगस्य नास्तीति न विहगस्य कर्तृत्वमिति “ विहगो विहगं गच्छति इत्यादिप्रयोगापत्तिरूपो तिप्रसङ्गो नास्तीत्यर्थः । विशिष्टसंयोगवत्त्वम् - विहगादिप्रकृत्यर्थवृत्तित्वविशिष्टसं वत्त्वम् ( क्रियायां नास्तीत्यन्वयः ) । ननु फलजनिका या स्वनिष्टभेदप्रतियोगितावच्छेदिका क्रिया सा परसमवेतक्रियैव भवति तादृशक्रियैकदेशपरसमवेतत्वस्य द्वितीयार्थत्वं यदुक्तं तदिदानीं न स्यात् स्वनिष्ठभेदप्रतियोगितावच्छेदकत्वस्यो
·
त्या संबन्धत्वाश्रयणेन तदूर्घटकपरसमवेतत्वस्यापि संबन्धकोटिप्रविष्टत्वादित्याशङ्कते - एवं सतीति । परिहरति- का क्षतिरिति, परसमवेतत्वस्य द्वितीयार्थत्वाभावे क्षतिर्नास्तीत्यर्थः । अन्येन विहगेन विहगान्तरं प्रत्यनुधावने तु ' विहगो विहगं गच्छति' इति प्रयोग इष्ट एव । कर्माख्यातान्तप्रयोगमुदाहरति- विहग इति । भूमिर्विहगेन गम्यते ' इत्यादावाश्रयत्वमाख्यातार्थः, विहगकर्तृकव्यापारजन्यसंयोगाश्रयो भूमिरितिबोधोदयाद् विहगनिष्ठक्रियायाः स्वजन्यत्वस्वावच्छिन्न मेदसामानाधिकरण्येतदुभयसंबन्धेन संयोगेन्वयः, स्त्रं क्रिया, संयोगे क्रियाजन्यत्वमप्यस्ति क्रियावच्छिन्नप्रतियोगिताकमेदसामानाधिकरण्यमप्यस्तीति तदुभयसंबन्धेन संयोगे क्रियान्वपः, स्वावच्छिन्नमेदपदेन पूर्वोक्त एव भूम्यादिनिष्ठः क्रियावान्न इत्याकारकः क्रियावच्छि
"Aho Shrutgyanam"