________________
(२७०)
सादर्श:- [ द्वितीयाकारकप्रथमखण्डेन चैवमपि — विहगो भूमि प्रयाति ' इतिवत् — विहगो विहगं गच्छति' इतिप्रयोगो दुर्वार:-विहगनिष्ठभूमिसंयोगजनकतक्रियाया विहगान्तरनिष्ठभेदप्रतियोगितावच्छेदकतया विहगे विहगनिष्ठभेदप्रतियोगितावच्छेदकविहगवृत्तिसंयोगजनकक्रियाश्रयत्वस्थाऽबाधितत्वादिति वाच्यम्, 'विहगो विहगं गच्छति । इत्यादौ विहगादिप्रकृत्यर्थवृत्तित्वविशिष्टसंयोगस्य क्रियायां स्वजनकत्वस्वाश्रय निका सा क्रियैव तादृशक्रियाजन्यसंयोगाश्रयत्वेन ग्रामस्य कर्मत्वसंभवात् “भामं गच्छति चैत्रः । इति प्रयोग उपपन्नः । एवं द्रव्यनिष्ठो यः स्वनिष्ठसंयोगजनकक्रियावान्न इत्याकारकभेदस्तत्प्रतियोगितावच्छेदिका या चैत्रनिष्ठा क्रिया तजन्यसंयोगाश्रयत्वेन द्रव्यस्य कर्मत्वात् । चैत्रो ज्य गच्छति' इति प्रयोगोप्युपपन्नः । एवं १मलान्तरनिष्ठसंयोगस्य २मल्लान्तरनिष्ठक्रियाजन्यत्वेन १मल्ला-. नतानियों यः स्वनिष्ठसंयोगजनकक्रियावान्न इत्याकारको भेदस्तत्प्रतियोगी २मल्लान्तर एवेति तादृशभेदप्रतियोगितावच्छेदिका या प्रतियोगिभूत२मल्लान्तरनिष्ठा क्रिया तजन्यसंयोगाश्रयत्वेन भेदानुयोगिभूत १मल्लान्तरस्थ कर्मत्वसंभवात् ' मल्लो मलं गच्छति । इत्यपि प्रयोग उपपन्नः । स्वनिष्ठसंयोगजनकक्रियावान्न इत्याकारकमेदश्चैत्रे तु न संभवति चैत्रस्य स्वनिष्ठसंयोगजनकक्रिथाश्रयत्वादेवेति स्वनिष्ठभेदप्रतियोगितावच्छेदकक्रियाजन्यफलशालित्यविरहेण चैत्रस्य कर्मस्वासभवात् । चैत्रश्चैत्रं गच्छति । 'चैत्रः स्वं गच्छति , ' चैत्रः स्वमात्मानं गच्छति । इत्यादिप्रयोगापत्तिरपि नास्तीत्याह- न काचिदिति ।। ___ ननु स्वनिष्ठसंयोगजनकक्रियावान्न इत्याकारको यो भूमिनिष्ठो भेदस्त प्रतियोगितावच्छेदिका मा संयोगजनकक्रियाश्रयीभूतविहगनिष्ठा क्रिया तजन्यसंयोगाश्रयत्वेन भूमेः कर्मत्वसंभवाद् यथा विहगो भूमि प्रयाति ' इति प्रयोगो भवति तथा 'विहगो विहगं (स्वम् ) गच्छति' इत्यपि प्रयोगः स्यादेव, विहगनिष्ठक्रियायां विहगनिष्ठो यो भूमिसंयोगस्तजनकत्वमप्यस्तिं विहगान्तरनिष्ठो यो भेदस्तादृशभेदप्रतियोग्ययमेव विहग इति विहगान्तरनिष्ठभेदप्रतियोगितावच्छेदक वमप्यस्त्येव तथा च विहगे स्वनिष्ठभेदप्रतियोगितावच्छेदकीभूतक्रियायाः फलस्य संयोगस्य सत्त्वात् कर्मत्वमपि प्राप्तं विहमनिष्ठभेदप्रतियोगितावच्छेदिकाया विहगत्तिसंयोग (भूमिसंयोग) अनिकाया कियाया आश्रयत्वमप्यस्त्येवेति विहगकर्मकगमनानुकूलव्यापारकर्तृत्वमपि प्राप्तम् उक्तक्रियाश्रयस्यैव गमनकर्तृत्वादिति एकस्यैव विहगस्य कर्तृत्वकर्मत्वोभयतात्पर्येगापि 'विहगो विहगं गच्छति । इति प्रयोगो दुर्वार एपेत्याशङ्कयाह- न चैवमिति । परिहारमाह- विहग इति । 'प्रामं गच्छति । ‘विहगो भूमि गच्छति । इत्यादी भूम्यादिप्रकृत्यर्थनिष्ठसंयोगस्य तादृशसंयोगजनकक्रियायां न केवलं स्वजनकत्वसंबन्धेनान्वय इष्टो येन 'विहगो विहगं गच्छति । इतिप्रयोगापत्तिः स्यात् किं तु स्वजनकत्वस्वाश्रयनिष्ठभेदप्रतियोगितावच्छेदकत्वैतदुभयसंबन्धेनान्वयो भवति, स्वं संयोगः, अत्र संयोगजनकचैत्रविहगादिनिष्ठक्रियायां संयोगजनकत्वमप्यस्ति संयोगाश्रयीभूतभूम्यादिनिष्टभेदप्रतियोगितावच्छेदकत्वमप्युक्तरीत्यास्त्येवेत्येतादृशोमयसंबन्धेन भूम्यादिवृत्तित्वविशिष्टसंयोगस्य
"Aho Shrutgyanam"