________________
स्वं गच्छतीत्यादिप्रयोगवारणम् ] व्युत्पत्तिवादः ।
( २६९
मासंभवात् उक्तयुक्तया संबन्धघटको पस्थितेरपि शाब्दबाधेऽपेक्षितत्वात्, एकधर्मावच्छिन्नप्रतियोगिताया अन्यधर्मावच्छिन्नसंसर्गत्वे मानाभावाश्च, प्रतियोगिविशेषिताभावबुर्विशिष्टवैशिष्टयावगाहित्व नियमात्, अन्वयिताऽनवच्छेदकावच्छिन्नप्रतियोगितायाः संबन्धत्वासंभवाच्चेति चेत् ?, तर्हि क्रियान्वयिभेदप्रतियोगितावच्छेदकत्वमेव द्वितीयार्थोऽस्तु भेदे प्रकृत्यर्थस्याधेयतासंबन्धेनान्वय इति न काचिदनुपपत्तिः ।
वेनैवेत्युक्तमप्रामाण्यं तदवस्थमेवेत्यर्थः । ननु द्रव्यादीनां तद्द्व्यक्तित्वेन रूपेणोपस्थित्यभावेपि शाब्दबोधो भविष्यति - तद्व्यक्तित्वस्य संबन्धघटकत्वेन तदुपस्थित्यपेक्षाभावादित्याशङ्क्याह-उक्तेति, उक्तयुक्तया = १६२ पृ० ) तत्संसर्गावच्छिन्नेत्याद्युक्तयुक्तया, संसर्ग तात्पर्यज्ञानानुरोधेन संसर्गघटक पदार्थोपस्थितेरपि शाब्दबोधेऽपेक्षा भवत्येवेति तद्द्व्यक्तित्वानुपस्थितौ शाब्दबोधासंभवादित्यर्थः । तद्व्यक्तित्वेन ग्रहणासंभवे हेत्वन्तरमाह-एकेति एकपदमन्यपरं ज्ञेयम्, अत्र हि मेदे द्रव्यत्वावच्छिन्नस्यान्वये प्रतियोगितव संसर्गस्तत्रान्यधर्मावच्छिन्ना प्रतियोगिता अन्यधर्मावच्छिन्नस्य संसर्गो न भवतीति तद्व्यक्तित्वावच्छिन्नप्रतियोगितासंबन्धेन द्रव्यत्वावच्छिन्नस्य मेदे - ऽन्वयो न संभवतीत्यर्थः । अत्र प्रमाणमाह-प्रतियोगिविशेषितेति, पूर्वमेव ( २५५० ) इदं वाक्यं व्याख्यातं तथा चात्र द्रव्यत्वावच्छिन्नभेदवोधे द्रव्यत्वस्यैव भेदप्रतियोगितावच्छेदकत्वेन भानं संभवति न तु तद्व्यक्तित्वस्येत्यर्थः । उक्तमुपसंहरन्नाह - अन्वयितेति, 'चैत्रो द्रव्यं गच्छति इत्यत्र द्वितीयार्थभेदे परत्वस्वरूपे द्रव्यस्यान्वयः प्रतियोगिता संबन्धेन कर्तव्य इति अन्वयितावच्छेदकं यद्द्रव्यत्वं तदवच्छिन्नप्रतियोगिताया एव संबन्धत्वं संभवति न तु अन्वयितानक्षच्छेदकं यत् तद्व्यक्तित्वं तदवच्छिन्नाया अपि तथा च ' चैत्रौ द्रव्यं गच्छति ' इत्यत्र तद्व्यक्तित्वावच्छिन्नप्रतियोगिताकभेदग्रहणासंभवाद् द्रव्यत्वावच्छिन्नप्रतियोगिता कभेद एव प्रास्तादृशमेदस्तु चेत्रे नास्तीत्यप्रामाण्यं स्यादेव, एवमेव ' मल्लो मलं गच्छति' इत्यस्याप्रामाण्यं विज्ञेयमित्यर्थ: । इत्येवमाशङ्क्य परिहरति- तर्हीति, क्रियान्वयिभेदप्रतियोगितावच्छेदकत्वं द्वितीयार्थो न तु परत्वम्, क्रियान्वयिनः क्रियाश्रयस्य चैत्रादेर्भेदः क्रियान्वयिभेदः, क्रियान्वयिमेदप्रतियोगितावच्छेदकत्वस्य द्वितीयार्थभूतस्यात्र क्रियायामेवान्वयो ज्ञेयः । भेदश्च स्वनिष्ठसंयोगजनक क्रियावान्न इत्याकारको ग्राह्य एतादृशभेदप्रतियो गितावच्छेदिका च क्रियैव एतादृशभेदश्च ग्रामादौ फलशालिनि कर्मभूतपदार्थे वर्तते इति भेदे प्रकृत्यर्थस्य ग्रामादेराधेयतासंबन्धेनान्वय इत्यर्थः, परसमवेतक्रियाफलशालित्वं कर्मत्वमिति न वक्तव्यं किं तु स्वनिष्ठमेदप्रतियोगितावच्छेदक क्रियाफलशालित्वं कर्मत्वमिति वक्तव्यमिति यावत, तथा च ग्रामं गच्छति चैत्रः ' इत्यत्र स्वनिष्टसंयोगजनक क्रियावान्न इत्याकारक भेदश्चैत्रे तु नास्येव चैत्रस्य ग्रामनिष्ठसंयोगजनक क्रियाश्रयत्वादेक किं तु तादृशभेदो ग्रामे वर्तते ग्रामस्य क्रियाश्रयत्वाभावादिति ग्रामवृत्तितादृशभेदप्रतियोगी क्रियावान् चैत्र एव चैत्रनिष्ठाया भेदप्रतियोगिताया अवच्छेदिका च चैत्रनिष्ठा ग्रामवृत्तिसंयोगज
·
"Aho Shrutgyanam"