________________
१२६८)
सादर्शः
[ द्वितीयाकारकप्रथमखण्डेअथ स्वस्यापि द्वित्वावच्छिन्नस्वभेदवत्त्वात् ' स्वं गच्छति ' इतिप्रयोगस्म दुरितया द्वितीयाप्रकृत्यर्थस्य प्रकृत्यर्थतावच्छेदकावच्छिन्नप्रतियोगिताकत्वसंबन्धेनैव भेदेऽन्वयो वाच्यस्तथा च 'चैत्रो द्रव्यं गच्छति । 'मल्लो मलं गच्छति' इत्यादिवाक्यस्याऽप्रमाणतापत्तिः-चैत्रमल्लादिनिष्ठक्रियायाः प्रकृत्यर्थतावच्छेदकीभूतद्रव्यत्वमल्लत्वाद्यवच्छिन्नभिन्नाऽसमवेतत्वात, तत्तद्व्यक्तित्वानुपस्थितावपि शाब्दबोधोदयेन तत्तव्यक्तित्वावच्छिन्न प्रतियोगितासंबन्धेनाऽन्वयोपग
द्वित्वावच्छिन्न प्रतियोगिताकभेदमादाय शङ्कते-अथेति, स्वस्य चैत्रस्य चैत्रप्रतियोगिकभेद. बत्त्वविरहेपि द्वित्वावच्छिन्नस्वभेदवत्त्वात्-चैत्रवटोभयभेदवत्त्वात् स्वस्मिन्नपि स्वभेदः प्राप्त इति स्वनिष्ठसंयोगजनकक्रियायाः स्वभिन्नस्वसमवेतत्वे प्राप्ते तादृशक्रियाजन्यसंयोगवत्त्वेन स्वस्यापि कर्मत्वापत्त्या ' स्वं गच्छति' इतिप्रयोगः स्यादेव तथा च द्वित्वावच्छिन्नस्वभेदमादाय प्राप्तस्य 'स्वं गच्छति' इतिप्रयोगस्य वारणाय परत्वरूपभेदे द्वितीयाप्रकृत्यर्थस्य ग्रामादेः प्रकृत्यर्थतावच्छेदकावच्छिन्नप्रतियोगिताकत्वसंबन्धेनान्चयो वाच्यः यथा 'ग्रामं गच्छति' इत्यत्र प्रकृत्यर्थतावच्छेदकं यद् ग्रामत्वं तादृशग्रामत्वावच्छिन्ना या ग्रामनिष्ठा भेदप्रतियोगिता तादृशप्रतियोगिताकत्वं भेदेस्तीति तादशप्रतियोगिताकत्वसंबन्धेन ( ग्रामस्थ ) भेदेऽन्वयो वक्तव्यस्तथा च स्वनिष्ठे द्वित्वावच्छिन्नस्वभेदे द्वित्वावच्छिन्नप्रतियोगिताकत्वसंबन्धेन स्वान्वयसंभवेपि स्वं गच्छति । इत्यत्र प्रकृत्यर्थताबच्छेदकं यत् स्वत्वं तादृशस्वत्वावच्छिन्नप्रतियोगिताकत्वसंबन्धेन भेदे स्वाऽन्वयस्तु न संभवति भेदस्य चात्र प्रकृत्यर्थतावच्छेदकावच्छिन्नप्रतियोगिताकत्वसंबन्धेनैत्र प्रकृत्यर्थ विशिष्टस्य ग्राह्यत्वमिति 'स्वं गच्छति' इतिप्रयोगस्य वारणे कृते चैत्रो द्रव्यं गच्छति । 'मलो मलं गच्छति । इत्यादीष्टस्य प्रयोगस्याऽप्रामाण्यं स्यादित्याह-तथा चेति । अप्रामाण्ये हेतुमाह-चैत्रमल्लादीति, उक्तरीत्या संयोगादिरूपफलजनकक्रियाया द्वितीयाप्रकृत्यर्थतावच्छेदकावच्छिन्नभिन्नसमवेतत्वमपेक्ष्यते तादृशक्रियाजन्यफलशालिन एव च कर्मत्वमिष्टम् 'चैत्रो द्रव्यं गच्छति' इत्यत्र च प्रकृत्यर्थता• चच्छेदक द्रव्यत्वं द्रव्यत्वावच्छिन्नभिन्नसमवेतत्वं च द्रव्यनिष्टसंयोगजनकक्रियायां नास्ति-ताशक्रियायाश्चैत्रे सत्त्वात् तत्र चैत्रे द्रव्यत्वस्यापि सत्तादिति 'चैत्रो द्रव्यं गच्छति' इति प्रयोगो न स्यादेव तथा मल्लनिष्ठसंयोगजनकक्रियायां मल्लत्वावच्छिन्न भिन्नसमधेतत्वं नास्ति तादृशक्रियाश्रये मल्लान्तरेपि मल्लत्वस्य सत्त्वादेवेति ' मल्लो मलं गच्छति । इत्यपि प्रयोगो न स्यादित्यर्थः । ननु चत्रे द्रव्यत्वावच्छिन्नप्रतियोगिताकभेदाभावेपि मल्ले च मल्लत्वावच्छिन्नप्रतियोगिताकभेदाभावेपि तद्व्यक्तित्वावच्छिन्नप्रतियोगिताकभेदस्य सत्त्वेन भेदे प्रकृत्यर्थद्रव्यादेस्तद्व्यक्तित्वावच्छिन्नप्रतियोगिताकत्वसंबन्धनान्वयं वक्ष्याम इति । चैत्रो द्रव्यं गच्छति । इत्यादिप्रयोगस्य नानुपरत्तिरित्याशङ्ख्याह-तत्तव्यक्तित्वेति, द्रव्यादीनां प्रकृत्यर्थानां तद्व्यक्तित्वेन रूपेणोपस्थित्यभा. चेपि - चैत्रो द्रव्यं गच्छति । इत्यत्र शाब्दबोधो जायते एवेति भेदे द्रव्यादीनां तद्व्यक्तित्वावच्छिनप्रयोगिताकरवसंबन्धेनान्वयो न संभवति किं तु द्रव्यत्वाद्यवच्छिन्नप्रतियोगिताकत्यसंब
"Aho Shrutgyanam"