________________
स्वंगच्छत्तीत्यादिप्रयोगवारणम् ] व्युत्पत्तिवादः ।
(२६७) इत्यादी ग्रामभिन्नसमवेता ग्रामनिष्ठसंयोगजनिका या क्रिया तदाश्रयतावांश्चैत्र इत्यन्वयबोधः । स्वनिष्ठसंयोगजनकक्रियायां स्वभिन्नसमवेतत्वस्य बाधात् 'स्वमात्मानं गच्छति ' इति न प्रयोगः। यत्र चोभयकर्मभ्यां मलयोः संयोगस्तब मल्लान्तरसमवेतक्रियायाः स्वनिष्ठसंयोगजनिकायाः स्वभिन्नसमवेतत्वेपि तादृशक्रियाश्रयतायाः स्वस्मिन् बाधात् 'मल्लः स्वं गच्छति' इति न प्रयोगः।
न च स्वनिष्ठसंयोगजनकस्वसमवेतक्रियायां स्वभिन्नसमवेतत्वस्याऽयोग्यतया तदऽभानेप्याबाधितं स्वनिष्ठसंयोगजनकत्वं विषयीकृत्य शाब्दबोधसंभवात् तदर्थमात्रतात्पर्येण 'वं गच्छति' इतिप्रयोगो दुर्वार एवेति वाच्यम , परसमवेतत्वांशाविषयकस्य द्वितीयाधीनफलजनकत्वबोधस्य कुत्राप्यनभ्युपगमेन तादृशबोधे तद्भासकसामय्या अप्यपेक्षणीयत्वात् । इत्यस्य वाक्यार्थमाह- एवं चेति । संयोगस्य द्विष्ठत्वेन ग्रामनिष्ठसंयोगस्य स्वनिष्ठत्वेपि तादृशस्वनिष्ठसंयोगजनकक्रियायां स्वान्यसमवेतत्वं नास्ति कर्मत्वं च स्वान्यसमवेतक्रियाजन्यसंयोगादिलशालिरवे एव भवतीति 'स्वमात्मानं गच्छति' इति प्रयोगापत्तिर्नास्तीत्युपसंहरन्नाह- स्वनिवेति । एककर्मजसंयोगस्थलीयातिप्रसङ्गं निवार्योभयकर्मजसंयोगस्थलीयातिप्रसङ्गनिवारणायाहपत्रेति, मल्लान्तरसमवेतक्रियायाः स्वनिष्ठसंयोगजनिकायाः स्वभिन्नसमवेतत्वेन तादृशक्रियाश्रयसाया: स्वनिष्ठसंयोगजनकक्रियाश्रयतायाः स्वस्मिन् बाधात् ' मल्लः स्वं गच्छति ' इति प्रयोगो म भवति--- संयोगस्योभयकर्मजत्वे स्वनिष्ठसयोगजनकक्रियाश्रयत्वं यस्मिन् स्यात् तस्यैव स्वापेक्षपा कर्मत्वसंभवाद् यथा चैत्रमैत्रोभयकर्मजसंयोगस्थले चैत्रनिष्ठसंयोगस्य मैत्रसमवेतक्रियाजन्यस्खे तादृशक्रियाश्रयत्वं मैत्रे एव स्यादिति मैत्रस्य कर्मत्वापत्त्या 'चैत्रो मैत्रं गच्छति । इति प्रयोगः संभवति, तथा' मैत्रश्चैत्रं गच्छति । इत्यपि । " स्वभिन्नसमवेतत्वेपि " इत्यत्र ' स्वभिन्नसमतत्वेन ' इति पाठो युक्तः । __ननु स्वनिष्ठसयोगजनिकायाः स्वसमवेतायाः क्रियायाः स्वस्मिन्नेव समवेतत्वेन परसमवेतत्वं न संभवतीति तत्र परसमवेतत्वस्याऽयोग्यतयाबाधात् तदभानेपिपरसमवेतत्यांशस्यामानेप्यऽबाधित यत् स्वनिष्ठसंयोगजनकत्वं तावन्मानं विषयीकृत्यापि स्वनिष्ठसंयोगजनकक्रियाश्रयतावांश्चैत्र इति शाब्दबोधसंभवात् तदर्थमात्रतात्पर्येण स्वनिष्ठसंयोगजनकत्वमात्रतात्पर्येण 'स्वं गच्छति । इति प्रयोगः स्यादेव- स्वसमवेतक्रियायाः स्वस्मिन्नपि संयोगजनकत्वात् तादृशसंयोगरूपफलशालिस्वेन स्वस्यापि कर्मवसंभवादित्याशझ्याह-न चेति । परिहास्माह- परसमवेतत्वेति, परसममेतत्वांशमविषयीकृत्य द्वितीयया कचिदपि धात्वर्थनिष्ठफलजनकत्वस्य बोधो न भवतीति तादृशबोधे द्वितीयाधीनफलजनकत्वबोधे तद्भासकसामग्या:-परसमवेतत्वांशमासकसामग्र्या अपेक्षा भवत्येव तथा च तादृशसामग्र्या परसमवेतत्वांशमाने जाते स्वस्य च स्वस्मात् परत्वाभावात् कर्मस्वानापत्त्या 'स्वं गच्छति । इति प्रयोगापत्तिर्नास्तीत्यर्थः ।
"Aho Shrutgyanam"