________________
सादर्श:
( २६६ )
[ द्वितीयाकारकप्रथमखण्डे -
कर्तृत्वकर्मत्वबोधकताया
<
८
कर्मासमभिव्याहारात् । एकदा आख्यातस्याध्युत्पन्नतया 'अजा ग्रामो याप्यते इत्यादयो न प्रयोगाः । एवम् -' तण्डुलः सहायेन पाच्यते चैत्रेण ' इत्यादी धात्वर्थे सहायादिकर्तृकत्वस्य तद्विशेषणण्यर्यव्यापारे विशेषणतया च चैत्रादिकर्तृकत्वस्य तृतीयान्तार्थस्य बोधः, शेषं पूर्ववदिति दिक् । ग्रामं गच्छति ' इतिवत् ' स्वं गच्छति ' इतिप्रयोगवारणाय परसमवेतत्वमा द्वितीयार्थ इष्यते तस्य च धात्वर्थेऽन्वयः परत्वे चैकदेशेप्याऽऽकाङ्क्षावैचित्र्यात् प्रकृत्यर्थस्य प्रतियोगितयाऽन्वयः एवं च ग्रामं गच्छति चैत्रः " स्वं श्वजादीनामेव धात्वर्थकर्तृभूतानां स्यादित्यर्थः । अजा ग्रामो याप्यते इत्यस्याऽसाधुत्वं हेतुमाह - एकदेति, ' अजा ग्रामो याप्यते ' इत्यत्राख्यातेनैवैकदाऽजायाः कर्तृत्वं ग्रामस्य च कर्मत्वं बोधनीयं कर्मत्वबोधकद्वितीयाया अभावात् न चैकदैकप्रत्ययेनाख्यातादिनोभयार्थस्य कर्तृrashrat दिरूपस्य बोधनं संभवति - " सकृदुच्चरितः शब्दः सकृदर्थं गमयति " इति नियमा दित्यर्थ: । 'अजा ग्रामं याप्यते ' इत्यत्र तु प्रामस्य कर्मत्वं द्वितीयया बोध्यते इति नैकप्रत्ययस्य कर्मत्वकर्तृत्वोभयबोधकत्वापत्तिर्येनाऽसाधुत्वं स्यादित्यर्थः । तण्डुलः सहायेन पाच्यते चैत्रेण ' इत्यत्रत्यपदार्थानाह - एवमिति, अत्राख्यातस्य कर्मणि जातत्वात्तण्डुलविशेष्यक एवं बोधः, आख्यातार्थश्चाश्रयत्वं तथा च- ' चैत्रकर्तृकणिजर्थव्यापारप्रयोज्यो यः सहायकर्तृकपाकात्मकब्यापारस्तादृशव्यापारजन्यविक्त्रित्त्याश्रयस्तण्डुलः ' इति बोधोदयात् पूर्वपूर्वपदार्थस्योत्तरोत्तरपदार्थे विशेषणत्वाच धात्वर्थव्यापारे सहायकर्तृकत्वस्य विशेषणतया बोधः तद्विशेषणण्यर्थव्यापारे= arafaशेषणीभूतणिजर्थव्यापारे च तृतीयान्तार्थस्य चैत्रकर्तृकत्वस्य विशेषणतया बोधो भवति । षिम् आश्रयत्वमाख्यातार्थ इत्यादि सर्वं पूर्ववदेव विज्ञेयमित्यर्थः ।
2
6
7
ग्राम निष्ठसंयोगस्य चैत्रेपि सत्त्वात् ग्रामं गच्छति ' इतिवत् ' चैत्रश्चैत्रं गच्छति ' चैत्रः स्वं गच्छति' इत्यादिप्रयोगः स्यादेवेति तद्वारणाय परसमवेतत्वमपि द्वितीयार्थ:, अर्थात् परसमवेतक्रियाफलशालित्वं कर्मत्वमिति वक्तव्यं तथा च ग्रामनिष्ठसंयोगजनक क्रियाया ग्रामान्य चैत्रसमतत्वेन मामस्य कर्मत्वापत्त्या ' ग्रामं गच्छति' इति प्रयोगो भवति चैत्रनिष्ठतादृशसंयोगजनकक्रियायाश्चैत्रे एव समवेतत्वेन चैत्रान्यसमवेतत्वाभावात् चैत्रस्य कर्मत्वानापत्त्या 'चैत्रः स्वं गच्छति' इत्यादयः प्रयोगा न भवन्तीत्याह- ग्राममिति । तस्य परसमवेतत्त्रस्य धात्वर्थे संयोगादिफलजनकक्रियायामन्त्रयः । तादृशपरत्वे च प्रकृत्यर्थस्य द्वितीयाप्रकृत्यर्थस्य ग्रामादेः प्रतियोगितया = प्रतियोगित्वरूपेण स्वप्रतियोगिकत्वसंबन्धेन चान्वयः - परत्वस्य भेदरूपत्वात् अभावे च प्रतियोगिनः स्वप्रतियोगिकत्व संबन्धेनान्वयस्य प्रतिपादितत्वादित्याह - परत्वेचेति । ननु पदार्थ : पदार्थेनान्वेति न तु पदार्थैकदेशेन " इति नियमादत्र द्वितीयार्थैकदेशे परखे प्रक्कृत्यर्थस्य कथमन्वयः स्यादित्याशङ्कयाह- एकदेशेपीति, आकाङ्क्षावैचित्र्यात= बोधवैचित्र्यादेकदेशेपि पदार्थान्तरान्वय इष्ट एवेति पूर्वं प्रतिपादितमित्यर्थः । ' ग्रामं गच्छति चैत्र: 2
८८
<p
"Aho Shrutgyanam"