________________
कर्मभावयोः प्रयोगाः ] व्युत्पत्तिवादः।
(२६५) विशेष्यतया तादृशाश्रयत्वविशेषणतया च धात्वर्थफलस्य भानम् । व्यर्थव्यापारस्य जन्यतासंबन्धेनैव धात्वर्थक्रियाज्ञानादिविशेषणत्वं पूर्ववदेव । 'अजां ग्रामो याप्यते ' इत्यादिकस्तु न प्रयोग:- द्वितीयया कर्मत्वबोधने धात्वर्थव्यापारविशेष्यतया ण्यर्थबोधसामय्याः प्रयोजकत्वात्, यगादिसमभिव्याहार. स्थले च धात्वर्थविशेषणतयैव ण्यर्थस्य बोधात् । ण्यन्तधातोः सकर्मकत्वे तदुत्तरभावाख्यातस्य " भावे चाकर्मकेभ्यः” इत्यनुशासनेनाऽसाधुत्वाच्च न ताशप्रयोगः । 'ग्रामो याप्यते इतिभावाख्यातप्रयोगस्त्विष्ट एव-ण्यन्तस्य इत्यादौ यानादिव्यापारजन्यसंयोगाश्रयो ग्राम इति बोधोदयाद् व्यापारः संयोगे संयो. गश्चाश्रयत्वे विशेषणविधया भासते इति धात्वर्थीभूतस्य संयोगादिरूपफलस्य व्यापारविशेष्यत्व. माख्यातार्थाऽऽश्रयत्वविशेषणत्वं च प्राप्तमित्याह- धात्वर्थेति । धात्वर्थीभूता गमनज्ञानादिरूपा यात्र क्रियास्ति सा णिजर्थव्यापारजन्यास्तीति जन्यतासंबन्धेन धात्वर्थक्रियायां णिजर्थव्यापारस्यान्वयो ज्ञेय इत्याह- ण्यर्थेति । पूर्ववदेव- । २६१पृ० ) स्वनिर्वाह्येत्यादि. नोक्तरीत्यैव । ' अर्थो बोध्यते ' इत्यत्र च व्यर्थव्यापारजन्यज्ञानजन्यविषयत्वाश्रयोऽर्थ इतिशाब्दबोधः । पूर्वोक्तं पुनः स्मारयति- . अजां ग्रामो याप्यते' इत्यादिकस्तु न प्रयोग इति । अत्र हेतुमाह- द्वितीययेति, यत्र णिजर्थव्यापारस्य धात्वर्थव्यापारविशेष्यतया बोधकसामग्री भवति तत्रैव द्वितीयया कर्मत्वबोधो भवति ( कर्मवाचकपदाद् द्वितीया भवति ) यथा - अजां ग्राम यापयति चैत्रः' इत्यत्राजावृत्तिव्यापारानुकूलव्यापारवांश्चैत्र इति बोधोदयाद् अजावृत्तिधात्वर्थव्यापारविशेष्यतया चैत्रवृत्तिणिजर्थव्यापारस्य भानं भवतीत्यत्र द्वितीयया कर्मत्वबोधो भवति ( कर्मवाचकाजापदाद् द्वितीया भवति । 'अजां ग्रामो याप्यते' इत्यत्र तु ( २६१ पृ.) उक्तरीत्या प्रत्युत णि नर्थव्यापारस्य धात्वर्थव्यापारे विशेषणत्वमेवास्ति न तु धात्वर्थव्यापारविशेष्यत्वमिति द्वितीयया कर्मत्यबोधनासंभवान द्वितीयाप्राप्तिरिति न 'अजां ग्रामो याप्यते' इत्यादिप्रयोगापत्तिरित्याह- यगादीति । 'अजां ग्रामो याप्यते ' इत्यस्याऽसाधुत्वे व्याकरणं प्रमाणयति..ण्यन्तधातोरिति," लाकर्मणि च भावे चाकर्मकेभ्यः " इतिसूत्रेण लकाराः सकर्मकधातुभ्यः कर्मणि कतरि च भवन्ति. अकर्मकधातुभ्यश्च भावे कर्तरि च भवन्तीति प्रतिपाद्यते इति सकर्मकधातुभ्यो भाये लकारा न भवन्तीति ण्यन्तसकर्मकधातुभ्योपि भावे लकारस्याऽसाधुत्वं प्राप्तम्, 'अजां ग्रामो याप्यते ' इत्यत्र च धातुः सकर्मक एवं ण्यन्त इति तदुत्तरभावाख्यातस्याप्यसाधुत्वं प्राप्तमेवेति तादृशप्रयोगः= अजां ग्रामो याप्यते ' इति प्रयोगो न भवतीत्यर्थः । ण्यन्तकर्मणो ह्यवियक्षायां तु सकर्मकण्यन्तधातूत्तरमपि भावाख्यातस्य साधुत्वमेवेत्याह- ग्राम इति, “ग्रामो याप्यते । इत्यत्र प्यन्तकर्मवाचकाऽजापदस्याऽसममिव्याहारात् सकर्मकण्यन्तयाधातूत्तरवर्तमानस्यापि भावाख्यातस्य साधुत्वमेव, ग्रामस्य तु न ण्यन्तकर्मता किं तु धात्वर्थकर्मतैव श्यन्तकर्म
"Aho Shrutgyanam"