________________
( २६४ )
सादर्श:
[ द्वितीयाकारकप्रथमखण्डे
"
इति परस्मैपदसमभिव्याहृतधातुना यादृशविशिष्टोर्थः प्रत्याय्यते तादृशावेशिष्टार्थान्वित कर्तृत्वाभिधानमेव शब्विषयः एवं च प्रकृतेपि नानुपपत्तिरिति ध्येयम् । ' ग्रामो याप्यते ' अर्थो बोध्यते ' इत्यादौ भावनाविशेष्यतया ग्रामादेर्भानेपि गमनादिकर्तुः कर्मत्वविवक्षायां तस्यैवाख्यातार्थविशेष्यतथा बोधों व्युत्पन्न: - " ण्यन्ते कर्तुश्च कमणः इत्यनुशासनात्, अतो अजां ग्रामो याप्यते : शिष्यमथ बोध्यते ' इत्यादयो न प्रयोगाः । ग्रामो याप्यते अर्थो बोध्यते ' इत्यादी फलं विषयत्वादिरूपं च मुख्यभाक्तसाधारणं कर्मत्वमेवाख्यातार्थः ।
4
फलव्यापारयोः पृथग् धात्वर्थतामते आश्रयत्वमेवाख्यातार्थः, धात्वर्थव्यापारनुकूलव्यापारेण धात्वर्थेन निरूपितत्वसंबन्धेन विशिष्टं यत् कर्तृत्वं तादृशकर्तृत्वस्याख्यातेनामिधाने एव शब् भवतीति प्रकृते = ' याप्यते ' ' गम्यते ' इत्यादौ चाख्यातेन 'गच्छति' इत्यादिपरस्मैपदस्थलीयकर्तृत्वसदृशकर्तृत्वं नाभिधीयते इति न शपः प्राप्तिरिति न यकोऽनुपपत्तिरित्यर्थः ।
' अजां ग्रामो याप्यते ' ' शिष्यमर्थो बोध्यते ' इत्यादयः प्रयोगा न भवन्तीति प्रतिपादनार्थमाह- ग्राम इति, ' ग्रामो याप्यते ' इत्यादौ कर्माख्यातस्थले कर्मण एव ग्रामादेर्यद्यपि भावनाविशेष्यत्वमस्ति तथापि यदि गमनादिकर्तृवाचकमजादिपदं प्रयुक्तं स्यात्तदा तस्यैव = मनादिकर्तुरेव " ण्यन्ते कर्तुश्च कर्मणः " इत्यनुशासनबलादाख्यातार्थविशेष्यत्वं स्यात् - तत्रैव जायमानत्वात् । ण्यन्ते = ण्यन्तावस्थायां कर्तृभूते कर्मणि किं वा कर्मभूते कर्तरि लादयो भवन्तीत्यनुशासनार्थः । न च अजां ग्रामो याप्यते ' इत्यादौ गमनकर्तृभूताऽजाया आख्यातार्थविशेष्यत्वं संभवति तद्वाचकाऽजापदस्य प्रथमान्तत्वाभावादिति ' अजां ग्रामो याप्यते ' -इत्यादयः प्रयोगा न भवन्ति किं तु अजा ग्रामं याप्यते ' इति, तथा च अजा याप्यते ' ग्रामो याप्यते । अजा ग्रामं याप्यते ' इत्येवं प्रयोगास्तु भवन्ति, ' अजां ग्रामो याप्यते '
८
“
C
L
८
C
17
अजा ग्रामो याप्यते इत्यादयस्तु प्रयोगा न भवन्ति । एवमन्यत्रापि बोध्यम् ।' ग्रामो याप्यते इत्यादिस्थलीयाख्यातार्थमाह- ग्रामेति, विषयत्वादीत्यादिपदात् संयोगाद्याश्रयत्वं ग्राह्यं तथा च ' ग्रामो गम्यते ' इत्यत्र संयोगाश्रयत्वरूपं यत् फलम् अर्थो 'बोध्यते ' इत्यत्र च विषयत्वरूपं यत् फलं तत् कर्मत्वरूपमेत्र तदेवाख्यातार्थस्तदाश्रयत्वं ग्रामादौ ज्ञेयम् । मुख्यमाक्तसाधारणं विषयत्वादिरूपं कर्मत्वं फलमेवाख्यातार्थ इत्यन्वयः । परसमवेतक्रियाफलसंयोगादि ) शालित्वाद् ग्रामादीनां मुख्यं कर्मत्वम्, अर्थादीनां च भाक्तम् = औपचारिकं कर्मत्वं क्रियाजन्यफलशालित्वासंभवादित्यर्थः ।
6
फलव्यापारयोरुभयोरपि पृथग् धात्वर्थतामते फलस्य धात्वर्थत्वमेव प्राप्तमिति पारिशेष्यादाश्रयत्वमेव ' मो याप्यते ' इत्यादावाख्यातार्थ इत्याह-- फलव्यापारयोरिति । ' ग्रामो याच्य
"Aho Shrutgyanam"